रामायणम्

पञ्चषष्टितमः सर्गः 6.65

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम् । अब्रवीद्राक्षसश्रेष्ठं भ्रातरम् रावणं ततः ॥१॥

सोऽहम् तव भयं घोरम् वधात्तस्य दुरात्मनः । रामस्याद्य प्रमार्जामि निर्वैरस्त्वम् सुखीभव ॥२॥

गर्जन्ति न वृथा शूर निर्जला इव तोयदाः । पश्य सम्पाद्यमानम् तु गर्जितम् युधि कर्मणा ॥३॥

न मर्षयति चात्मानम् सम्भावयति नात्मना । अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम् ॥४॥

विक्लवानामबुद्धीनाम् राञां पण्डितमानिनाम् । शृण्वतामादित इदम् त्वद्विधानां महोदर ॥५॥

युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः । राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम् ॥६॥

राजशेषा कृता लङ्का क्षीणः कोशो बलम् हतम् । राजानमिममासाद्य सुहृच्चिह्नममित्रकम् ॥७॥

एष निर्याम्यहम् युद्धमुद्यतः शत्रुनिर्जये । दुर्नयं भवतामद्य समीकर्तुं महाहवे ॥८॥

एवमुक्तवतो वाक्यम् कुम्भकर्णस्य धीमतः । प्रत्युवाच ततो वाक्यं प्रहसन्राक्षसाधिपः ॥९॥

महोदरोऽयम् रामात्तु परित्रस्तो न संशयः । न हि रोचयते तात युद्धम् युद्धविशारद ॥१०॥

कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च । गच्छ शत्रुवधाय त्वम् कुम्भकर्णजयाय च ॥११॥

शयानः शत्रुनाशार्थम् भवान् सम्बोधितो मया । आयम् हि कालः सुमहान् राक्षानामरिंदम ॥१२॥

तद्गच्छ शूलमादाय पाशहस्त इवान्तकः । वानरान् राजपुत्रौ च भक्षयादित्यतेजसौ ॥१३॥

समालोक्य तु ते रूपम् विद्रविष्यन्ति वानराः । रामलक्ष्मणयोश्चापि हृदये प्रस्फुटिष्यतः ॥१४॥

एवमुक्त्वा महातेजाः कुम्भकर्णम् महाब्लम् । पुनर्जातमिवात्मानम् मेने राक्षसपुम्गवः ॥१५॥

कुम्भकर्णबलाभिज्ञो जानंस्तस्य पराक्रमम् । बभूव मुदितो राजा शशाङ्क इव निर्मलः ॥१६॥

इत्येवमुक्तः सम्हृष्टो निर्जगाम महाबलः । राज्ञ्स्तु वचनम् श्रुत्वा योद्धुमुद्युक्तवांस्तदा ॥१७॥

आददे निशितम् शूलं वेगाच्छत्रुनिबर्हणः । सर्वकालायसम् दीप्तं तप्तकाञ्चनभूषणम् ॥१८॥

इन्द्राशनिसमं भीमम् वज्रप्रतिमगौरवम् । देवदानवगन्धर्वयक्षकिंनरसूदनम् ॥१९॥

रक्तमाल्य महादाम स्वतश्चोद्गतपावकम् । आदाय निशितम् शूलं शत्रुशोणितरञ्जितम् ॥२०॥

कुम्भकर्णो महातेजा रावणम् वाक्यमब्रवीत् । गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत् ॥२१॥

अद्य तान्क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान् । कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत् ॥२२॥

सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः । वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः ॥२३॥

एकाकिनं प्रमत्तम् वा नयेयुर्दशनैः क्षयम् । तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज ॥२४॥

रक्षसामहितम् सर्वं शत्रुपक्षं निसूदय । अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम् ॥२५॥

आबबन्ध महातेजाः कुम्भकर्णस्य रावणः । अञ्गदानङ्गुलीवेष्टान्वराण्याभरणानि च ॥२६॥

हारम् च शशिसम्ण्काशमाबबन्ध महात्मनः । दिव्यानि च सुगन्धीनि माल्यदामानि रावणः ॥२७॥

गात्रेषु सज्जयामास श्रीमती चास्य कुण्डले । काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः ॥२८॥

कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ । श्रोणीसूत्रेण महता मेचकेन विराजितः ॥२९॥

अमृतोत्पादने नद्धो भुजङ्गेनेव मन्दरः । स काञ्चनं भारसहं निवातं । विद्युत्प्रभम् दीप्तमिवात्मभासा । आबध्यमानः कवचम् रराज । सन्ध्याभ्रसम्वीत इवाद्रिराजः ॥३०॥

सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः । त्रिविक्रमकृतोत्साहो नारायण इवाबभौ ॥३१॥

भ्रातरम् सम्परिष्वज्य कृत्वा चापि प्रदक्षिणम् । प्रणम्य शिरसा तस्मै सम्प्रतस्थे महाबलिः ॥३२॥

निष्पतन्तं महाकायं महानादं महाबलम् । तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः ॥३३॥

तम् गजैश्च तुरम्गैश्च स्यन्दनैश्चाम्बुदस्वनैः । अनुजग्मुर्महात्मानम् रथिनो रथिनां वरम् ॥३४॥

सर्पैरुष्ट्रैः खरैरश्वैः सिम्हद्विपमृगद्विजैः । अनुजग्मुश्च तम् घोरं कुम्भकर्णं महाबलम् ॥३५॥

स पुष्पवर्णैरवकीर्यमाणो । धृतातपत्रः शितशूलपाणिः । मदोत्कटः शोणितगन्धमत्तो । विनिर्ययौ दानवदेवशत्रुः ॥३६॥

पदातयश बहवो महानादा महाबलाः । अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः ॥३७॥

रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः । शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान् ॥३८॥

बहुव्यामांश्च परिघान् गदाश्च मुसलानि च । तालस्कन्धांश्च विपुलान्क्षेपणीयान्दुरासदान् ॥३९॥

अथान्यद्वपुरादाय दारुणम् लोमहर्षणम् । निष्पपात महातेजाः कुम्भकर्णो महाबलः ॥४०॥

धनुःशतपरीणाहः स षट्शतसमुच्छितः । रौद्रः शकटचक्राक्षो महापर्वतसंनिभः ॥४१॥

संनिपत्य च रक्षांसि दग्धशैलोपमो महान् । कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत् ॥४२॥

अद्य वानरमुख्यानाम् तानि यूथानि भागशः । निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः ॥४३॥

नापराध्यन्ति मे कामम् वानरा वनचारिणः । जातिरस्मद्विधानाम् सा पुरोद्यानविभूषणम् ॥४४॥

पुररोधस्य मूलम् तु राघवः सहलक्ष्मणः । हते तस्मिन्हतम् सर्वम् तं वधिष्यामि सम्युगे ॥४५॥

एवम् तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः । नादम् चक्रुर्महाघोरं कम्पयन्त इवार्णवम् ॥४६॥

तस्य निष्पततस्तूर्णम् कुम्भकर्णस्य धीमतः । बभूवुर्घोररूपाणि निमित्तानि समन्ततः ॥४७॥

उल्काशनियुता मेघा विनेदुश्च सुदारुणाः । ससागरवना चैव वसुधा समकम्पत ॥४८॥

घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः । मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः ॥४९॥

निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः । प्रास्फुरन्नयनम् चास्य सव्यो बाहुरकम्पत ॥५०॥

निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना । आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः ॥५१॥

अचिन्तयन्महोत्पातानुत्थिताम्ल्लोमहर्षणान् । निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः ॥५२॥

स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः । ददर्शाभ्रघनप्रख्यम् वानरानीकमद्भुतम् ॥५३॥

ते दृष्ट्वा राक्षसश्रेष्ठम् वानराः पर्वतोपमम् । वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा ॥५४॥

तद्वानरानीकमतिप्रचण्डं । दिशो द्रवद्भिन्नमिवाभ्रजालम् । स कुम्भकर्णः समवेक्ष्य हर्षान् । ननाद भूयो घनवद्घनाभः ॥५५॥

ते तस्य घोरं निनदं निशम्य । यथा निनादम् दिवि वारिदस्य । पेतुर्धरण्यां बहवः प्लवम्गा । निकृत्तमूला इव सालवृक्षाः ॥५६॥

विपुलपरिघवान्स कुम्भकर्णो । रिपुनिधनाय विनिःसृतो महात्मा । कपि गणभयमाददत्सुभीमं । प्रभुरिव किम्ण्करदण्डवान्युगान्ते ॥५७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चषष्टितमः सर्गः ॥

Listen to the sarga
0:00