तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनम् श्रुत्वोवाच महोदरः ॥१॥
चतुःषष्तितमः सर्गः 6.64
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यम् सर्वत्र वेदितुम् ॥२॥
न हि राजा न जानीते कुम्भकर्ण नयानयौ । त्वम् तु कैशोरकाद्धृष्टः केवलम् वक्तुमिच्छसि ॥३॥
स्थानम् वृद्धिम् च हानिं च देशकालविभागवित् । आत्मनश्च परेषाम् च बुध्यते राक्षसर्षभ ॥४॥
यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ॥५॥
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् । अवबोद्धुम् स्वभावेन न हि लक्षणमस्ति ते ॥६॥
कर्म चैव हि सर्वेषाम् कारणानां प्रयोजनम् । श्रेयः पापीयसाम् चात्र फलं भवति कर्मणाम् ॥७॥
निःश्रेयस फलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्तिः फलम् च प्रत्यवायिकम् ॥८॥
ऐहलौकिकपारत्र्यम् कर्म पुम्भिर्निषेव्यते । कर्माण्यपि तु कल्प्यानि लभते काममास्थितः ॥९॥
तत्र कॢप्तमिदम् राज्ञा हृदि कार्यं मतम् च नः । शत्रौ हि साहसम् यत्स्यात्किमिवात्रापनीयते ॥१०॥
एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया । तत्राप्यनुपपन्नम् ते वक्ष्यामि यदसाधु च ॥११॥
येन पूर्वम् जनस्थाने बहवोऽतिबला हताः । राक्षसा राघवम् तं त्वं कथमेको जयिष्यसि ॥१२॥
ये पुरा निर्जितास्तेन जनस्थाने महौजसः । राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥१३॥
तम् सिम्हमिव सङ्क्रुद्धं रामम् दशरथात्मजम् । सर्पम् सुप्तमिवाबुध्ह्या प्रबोधयितुमिच्छसि ॥१४॥
ज्वलन्तम् तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥१५॥
संशयस्थमिदम् सर्वं शत्रोः प्रतिसमासने । एकस्य गमनम् तत्र न हि मे रोचते तव ॥१६॥
हीनार्थस्तु समृद्धार्थम् को रिपुं प्राकृतो यथा । निश्चितम् जीवितत्यागे वशमानेतुमिच्छति ॥१७॥
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम । कथमाशंससे योद्धुम् तुल्येनेन्द्रविवस्वतोः ॥१८॥
एवमुक्त्वा तु सम्रब्धम् कुम्भकर्णं महोदरः । उवाच रक्षसां मध्ये रावणो लोकरावणम् ॥१९॥
लब्ध्वा पुनस्ताम् वैदेहीम् किमर्थं त्वं प्रजल्पसि । यदेच्छसि तदा सीता वशगा ते भविष्यति ॥२०॥
दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः । रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तम् शृणु ॥२१॥
अहम् द्विजिह्वः सम्ह्रादी कुम्भकर्णो वितर्दनः । पञ्चरामवधायैते निर्यान्तीत्यवघोषय ॥२२॥
ततो गत्वा वयम् युद्धम् दास्यामस्तस्य यत्नतः । जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥२३॥
अथ जीवति नः शत्रुर्वयम् च कृतसम्युगाः । ततः समभिपत्स्यामो मनसा यत्समीक्षितुम् ॥२४॥
वयम् युद्धादिहैष्यामो रुधिरेण समुक्षिताः । विदार्या स्वातानुं बाणै रामनामाङ्कितैः शितैः ॥२५॥
भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः । तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय ॥२६॥
ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव । हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः ॥२७॥
प्रीतो नाम ततो भूत्वा भृत्यानाम् त्वमरिन्दम । भोगांश्च परिवारांश्च कामांश्च वसुदापय ॥२८॥
ततो माल्यानि वासांसि वीराणाम् अनुलेपनम् । देयम् च बहु योधेभ्यः स्वयं च मुदितः पिब ॥२९॥
ततोऽस्मिन्बहुलीभूते कौलीने सर्वतो गते । भक्षितः ससुहृद्रामो राक्षसैरिति विश्रुते ॥३०॥
प्रविश्याश्वास्य चापि त्वम् सीतां रहसि सान्त्वय । धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय ॥३१॥
अनयोपधया राजन्भयशोकानुबन्धया । अकामा त्वद्वशम् सीता नष्टनाथा गमिष्यति ॥३२॥
रमनीयम् हि भर्तारं विनष्टमवगम्य सा । नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥३३॥
सा पुरा सुखसम्वृद्धा सुखार्हा दुःखकर्षिता । त्वय्यधीनः सुखम् ज्ञात्वा सर्वथोपगमिष्यति ॥३४॥
एतत्सुनीतं मम दर्शनेन रामम् हि दृष्ट्वैव भवेदनर्थः । इहैव ते सेत्स्यति मोत्सुकोभू । र्महानयुद्धेन सुखस्य लाभः ॥३५॥
अनष्टसैन्यो ह्यनवाप्तसंशयो रिपूनयुद्धेन जयन् जनाधिप । यशश्च पुण्यम् च महन्महीपते । श्रियम् च कीर्तिं च चिरम् समश्नुते ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुःषष्तितमः सर्गः ॥