रामायणम्

त्रिषष्टितमः सर्गः 6.63

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्य राक्षसराजस्य निशम्य परिदेवितम् । कुम्भकर्णो बभा षेदं वचनम् प्रजहास च ॥१॥

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये । हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥२॥

श्रीघ्रम् खल्वभ्युपेतम् त्वाम् फलम् पापस्य कर्मणः । निरयेष्वेव पतनम् यथा दुष्कृतकर्मणः ॥३॥

प्रथमम् वै महाराज कृत्यमेतदचिन्तितम् । केवलम् वीर्यदर्पेणनानुबन्धो विचिन्तितः ॥४॥

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥५॥

देशकालविहीनानि कर्माणि विपरीतवत् । क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विव ॥६॥

त्रयाणाम् पञ्चधा योगम् कर्मणाम् यः प्रपद्यते । सचिवैः समयम् कृत्वा स सम्यगभिवर्तते ॥७॥

यथागमम् च यो राजा समयम् च चिकीर्षति । बुध्यते सचिवैर्बुद्ध्या सुहृदश्चानुपश्यति ॥८॥

धर्ममर्थम् च कामम् च सर्वान्वा रक्षसाम् पते । भजते पुरुषः काले त्रिणि द्वन्द्वानि वा पुनः ॥९॥

त्रिषु चैतेषु यच्छ्रेष्ठम् श्रुत्वा तन्नावबुध्यते । राजा वा राजमात्रो वा व्यर्थम् तस्य बहु श्रुतम् ॥१०॥

उपप्रदानम् सान्त्वम् च भेदम् काले च विक्रमम् । योगम् च रक्षसाम् श्रेष्ठ तावुभौ च नयानयौ ॥११॥

काले धर्मार्थकामान्यः सम्मन्त्य्र सचिवैह् सह । निषेवेतात्मवान् लोके न स व्यसनमाप्नुयात् ॥१२॥

हितानुबन्धमालोक्य कुर्यात्कार्यमिहात्मनः । राजा सहार्थतत्त्वज्ञैः सचिवैर्बुद्धिजीविभिः ॥१३॥

अनभिज्ज़्नाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्त्मिच्छिन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥१४॥

अशास्त्रविदुषाम् तेषाम् कार्यम् नाभिहितं वचः । अर्थशास्त्रानभिज्ञानाम् विपुलाम् श्रियमिच्छताम् ॥१५॥

अहितम् च हिताकारम् धार्ष्ट्याज्जल्पन्ति ये नराः । अवश्यम् मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषकाः ॥१६॥

विनाशयन्तो भर्तारम् सहिताः शत्रुभिर्बुधैः । विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः ॥१७॥

तान् भर्ता मित्रसम्काशानमित्रान् मन्त्रनिर्णये । व्यवहारेण जानीयात्सचिवानुपसम्हितान् ॥१८॥

चपलस्येह कृत्यानि सहसानुप्रधावतः । चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥१९॥

यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति । अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते ॥२०॥

यदुक्तमिह ते पूर्वम् क्रियतामनुजेन च । तदेव नो हितम् वाक्यम् यदिच्छसि च तत्कुरु ॥२१॥

तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् । भ्रुकुटिम् चैव संचक्रे क्रुद्धश्चैनमभाषत ॥२२॥

मन्यो गुरुरिवाचार्यः कि माम् त्वमनुशाससे । किमेवम् वाक्ष्रमम् कृत्वा काले युक्तम् विधीयताम् ॥२३॥

विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा । नाभिपन्नमिदानीम् यद्व्यर्था तस्य पुनः कथा ॥२४॥

अस्मिन् काले तु यद्युक्तम् तदिदानीम् विचिन्त्यताम् । गतम् तु नानुशोचन्ति गतम् तु गतमेव हि ॥२५॥

ममापनयजं दुःखम् विक्रमेण समीकुरु । यदि खल्वस्ति मे स्नेहो विक्रमम् वाधिगच्छसि ॥२६॥

यदि कार्यम् ममैतत्ते हृदि कार्यतमम् मतम् । स सुहृद्यो विपन्नार्थम् दीनमभ्युपपद्यते ॥२७॥

स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते । तमथैवम् ब्रुवाणम् स वचनम् धीरदारुणम् ॥२८॥

रुष्ट्ऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह । अतीव हि समालक्ष्य भ्रातरम् क्षुभितेन्द्रियम् ॥२९॥

कुम्भकर्णः शनैर्वाक्यम् बभाषे परिसान्त्वयन् । शृणु राजन्नवहितो मम वाक्यमरिंदम ॥३०॥

अलम् राक्षसराजेन्द्र सम्तापमुपपद्य ते । रोषम् च सम्परित्यज्य स्वस्थो चवितुमर्हसि ॥३१॥

नैतन्मनसि कर्तव्यम् मयि जीवति पार्थिव । तमहम् नाशयिष्यामि यत्कृते परितप्येते ॥३२॥

अवश्यम् च हितम् वाच्यम् सर्वावस्थाम् गतम् मया । बन्धुभावादभिहितम् भ्रातृस्नेहाच्च पार्थिव ॥३३॥

सदृशम् यच्च कालेऽस्मिन् कर्तुम् स्नेहेन बन्धुना । शत्रूणाम् कदनम् पश्य क्रियमाणम् मया रणे ॥३४॥

अद्य पश्य महाबाहो मया समरमूर्धनि । हते रामे सहभ्रात्रा द्रवन्तीम् हरिवाहिनीम् ॥३५॥

अद्य रामस्य तद्दृष्ट्वा मयानीतम् रणाच्छिरः । सुखि भव महाबाहो सीता भवतु दुःखिता ॥३६॥

अद्य रामस्य पश्यन्तु निधनम् सुमहत्प्रियम् । लङ्कायाम् राक्षसाः सर्वे ये ते निहतबान्धवाः ॥३७॥

अद्य शोकपरीतानाम् स्वबन्धुवधशोचिनाम् । शत्रोर्युधि विनाशेन करोम्यश्रुप्रमार्जनम् ॥३८॥

अद्य पर्वतसम्काशम् ससूर्यमिव तोयदम् । विकीर्णम् पश्य समरे सुग्रीवम् प्लवगेश्वरम् ॥३९॥

कथम् च राक्षसैरेभिर्मया च परिसान्त्वितः । जिघांसुभिर्दाशरथिम् व्यथसे त्वमिहानघ ॥४०॥

माम् निहत्य किल त्वाम् हि निहनिष्यति राघवः । नाहामात्मनि सम्तापम् गच्छेयम् राक्षसाधिप ॥४१॥

कामम् त्विदानीमपि माम् व्यादिश त्वम् परम्तप । न परः प्रेक्षणीयस्ते युद्धायातुलविक्रम ॥४२॥

अहमुत्सादयिष्यामि शत्रूंस्तव महाबलान् । यदि शक्रो यदि यमो यदि पावकमारुतौ ॥४३॥

तानहम् योधयिष्यामि कुबेरवरुणावपि । गिरिमात्रशरीरस्य शितशूलधरस्य मे ॥४४॥

नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरंदरः । अथवा त्यक्तशस्त्रस्य मृद्नतस्तरसा रिपून् ॥४५॥

न मे प्रतिमुखः कश्चित् स्थातुम् शक्तो जिजीविषुः । नैव शक्त्या न गदया नासिना निशितैः शरैः ॥४६॥

हस्ताभ्यामेव सम्रब्धो हनिष्याम्यपि वज्रिणम् । यदि मे मुष्टिवेगम् स राघवोऽद्य सहिष्यति ॥४७॥

ततः पास्यन्ति बाणौघा रुधिरम् राघवस्य मे । चिन्तया तप्यसे राजन् किमर्थम् मयि तिष्ठति ॥४८॥

सोऽहम् शत्रुविनाशाय तव निर्यातुमुद्यतः । मुञ्च रामद्भयम् घोरम् निहनिष्यामि सम्युगे ॥४९॥

राघवम् लक्ष्मणम् चैव सुग्रीवम् च महाबलम् । हनूमन्तम् च रक्षोघ्नम् येन लङ्का प्रदीपिता ॥५०॥

हरींश्च भक्षयिष्यामि सम्युगे समुपस्थिते । असाधारणमिच्छमि तव दातुम् महद्यशः ॥५१॥

यदिचेन्द्राद्भयम् राजन्यदि चापि स्वयम्भुवः । ततोऽहम् नाशयिष्यामि नैशम् तम इवांशुमान् ॥५२॥

अपि देवाः शयिष्यान्ते मयि क्रुद्धे महीतले । यमम् च शमयिष्यामि भक्षयिष्यामि पावकम् ॥५३॥

आदित्यम् पातयिष्यामि सनक्षत्रम् महीतले । शतक्रतुम् वधिष्यामि पास्यामि वरुणालयम् ॥५४॥

पर्वतांश्चूर्णयिष्यामि दारयिष्यामि मेदिनीम् । दीर्घकालम् प्रसुप्तस्य कुम्भकर्णस्य विक्रमम् ॥५५॥

अद्य पश्यन्तु भूतानि भक्ष्यमाणानि सर्वशः । नन्विदम् त्रिदिवम् सर्वमाहारस्य न पूर्यते ॥५६॥

वधेन ते दाशरथेः सुखावहम् । सुखम् समाहर्तुमहम् व्रजामि । निहत्य रामम् सह लक्ष्मणेन । खादामि सर्वान् हरियूथमुख्यान् ॥५७॥

रमस्व राजन् पिब चाद्य वारुणीम् । कुरुष्व कृत्यानि विनीय दुःखम् । मयाद्य रामे गमिते यमक्षयम् । चिराय सीता वशगा भविष्यति ॥५८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः ॥

Listen to the sarga
0:00