स तु राक्षसशार्दूलो निद्रामदसमाकुलः । राजमार्गम् श्रिया जुष्टम् ययौ विपुलविक्रमः ॥१॥
द्विषष्टितमः सर्गः 6.62
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
राक्षसानाम् सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥२॥
स हेमजालविततम् भानुभास्वरदर्शनम् । ददर्श विपुलम् रम्यम् राक्षसेन्द्रनिवेशनम् ॥३॥
स तत्तदा सूर्य इवाभ्रजालम् । प्रविश्य रक्षोधिपतेर्निवेशनम् । ददर्श दूरेऽग्रजमासनस्थम् । स्वयंभुवम् शक्र इवासनस्थम् ॥४॥
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः । कुम्भकर्णः पदन्यासैरकम्पयत् मेदिनीम् ॥५॥
सोऽभिगम्य गृहम् भ्रातुः कक्ष्यामभिविगाह्य च । ददर्शोद्विग्नमासीनम् विमाने पुष्पके गुरुम् ॥६॥
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । तूर्णमुत्थाय सम्हृष्टः सम्निकर्षमुपानयत् ॥७॥
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः । भ्रातुर्ववन्दे चरणौ किम् कृत्यमिति चाब्रवीत् ॥८॥
उत्पत्य चैनम् मुदितो रावणः परिषस्वजे । स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ॥९॥
कुम्भकर्णः शुभं दिव्यम् प्रतिपेदे वरासनम् । स तदासनमाश्रित्य कुम्भकर्णो महाबलः ॥१०॥
सम्रक्तनयनः क्रोधाद्रवणम् वाक्यमब्रवीत् । किम्मर्थमहमादृत्य त्वया राजन् प्रबोधितः ॥११॥
शस कस्माद्भयम् तेऽत्र को वा प्रेतो भविष्यति । भ्रातरम् रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ॥१२॥
रोषेण परिवृत्ताभ्याम् नेत्राभ्याम् वाक्यमब्रवीत् । अयम् ते सुमहन् कालः शयानस्य महाबल ॥१३॥
सुषुप्तस्त्वम् न जानीषे मम रामकृतम् भयम् । एष दाशरथी रामः सुग्रीवसहितो बली ॥१४॥
समुद्रम् लङ्घयित्वा तु कुलम् नः परिकृन्तति । हन्त पश्यस्व लङ्कया वनान्युपवनानि च ॥१५॥
सेतुना सुखमागत्य वानरैकार्णवम् कृतम् । ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि ॥१६॥
वानराणाम् क्षयम् युधे न पश्यामि कथंचन । न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥१७॥
तदेतद्भयमुत्पन्नम् त्रायस्वेह महाबल । नाशय त्वमिमानद्य तदर्थम् बोधितो भवान् ॥१८॥
सर्वक्षपितकोशम् च स त्वमभ्युपपद्य माम् । त्रायस्वेमाम् पुरीम् लङ्काम् बालवृद्धावशेषिताम् ॥१९॥
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । मयैवम् नोक्तपुर्वो हि कश्चिद्भ्रातः परम्तप ॥२०॥
त्वय्यस्ति मम च स्नेहः परा सम्भावना च मे । दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ॥२१॥
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि । तदेतत्सर्वमातिष्ठ वीर्यम् भीमपराक्रम् ॥२२॥
न हि ते सर्वभूतेषु दृश्यते सदृशो बली । कुरुष्व मे प्रियहितमेतदुत्तमम् । यथाप्रियम् प्रियरण बान्धवप्रिय । स्वतेजसा विधम सपत्नवाहिनीम् । शरद्घनम् पवन इवोद्यतो महान् ॥२३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः ॥