रामायणम्

एकषष्टितमः सर्गः 6.61

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनम् महाकायम् कुम्भकर्णम् ददर्श ह ॥१॥

तम् दृष्ट्वा राक्षसश्रेष्ठम् पर्वताकारदर्शनम् । क्रममाणमिवाकाशम् पुरा नारायणम् प्रभुम् ॥२॥

सतोयाम्बुदसम्काशम् काञ्चनाङ्गदभूषणम् । दृष्ट्वा पुनः प्रदुद्राव वानराणाम् महाचमूः ॥३॥

विद्रुताम् वाहिनीम् दृष्ट्वा वर्धमानम् च राक्षसम् । सविस्मितमिदम् रामो विभीषणमुवाच ह ॥४॥

कोऽसु पर्वतसम्काशः किरीटी हरिलोचनः । लङ्कायाम् दृश्येते वीरः सविद्युदिव तोयदः ॥५॥

पृथिव्याम् केतुभूतोऽसौ महानेकोऽत्र दृश्यते । यम् दृष्ट्वा वानराः सर्वे विद्रवन्ति यतस्ततः ॥६॥

आचक्ष्व सुमहान् कोऽसौ रक्षो वा यदि वासुरः । न मयैवम्विधम् भूतम् दृष्टपूर्वम् कदाचन ॥७॥

सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा । विभीषणो महाप्राज्ञः काकुत्थ्समिदमब्रवीत् ॥८॥

येन वैवस्वतो युद्धे वासवश्च पराजितः । सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥९॥

अस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते । एतेन देवा युधि दानवाश्च । यक्षाभुजम्गाः पिशिताशनाश्च । गंधर्वविद्याधरपन्नगाश्च । सहस्रशो राघव सम्प्रभग्नाः ॥१०॥

शूलपाणिं विरूपाक्षम् कुम्भकर्णम् महाबलम् । हन्तुम् न शेकुस्त्रिंदशाः कालोऽयमिति मोहिताः ॥११॥

प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषाम् राक्षसेंद्राणाम् वरदानकृतम् बलम् ॥१२॥

एतेन जातमात्रेण क्षुधार्तेन महात्मना । भक्षितानि सहस्राणि सत्त्वानाम् सुबहून्यपि ॥१३॥

तेषु सम्भक्ष्यमाणेषु प्रजा भयनि पीडिताः । यान्ति स्म शरणम् शक्रम् तमप्यर्थम् न्यवेदयन् ॥१४॥

स कुम्भकर्णम् कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री । स शक्रवज्रभिहतो महात्मा । चचाल कोपाच्च भृशम् ननाद ॥१५॥

तस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः । श्रुत्वा निनादम् वित्रस्ताः प्रजा भूयो वितत्रसुः ॥१६॥

ततः क्रुद्धो महेन्द्रस्य कुम्भकर्णो महाबलः । निष्कृष्यैरावताद्दन्तम् जघानोरसि वासवम् ॥१७॥

कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः । ततो विषेदुः सहसा देवा ब्रह्मर्षिदानवाः ॥१८॥

प्रजाभिः सह शक्रश्च ययौ स्थानम् स्वयम्भूवः । कुम्भकर्णस्य दौरात्म्यम् शशंसुस्ते प्रजापतेः ॥१९॥

प्रजानाम् भक्षणम् चापि धर्षणम् च दिवौकसाम् । आश्रमध्वंसनम् चापि परस्त्रीहरणम् तथा ॥२०॥

एवम् प्रजा यदि त्वेष भक्षयिष्यति नित्यशः । अचिरेणैव कालेन शून्यो लोको भविष्यति ॥२१॥

वासवस्य वचः श्रुत्वा सर्वलोकपितामहः । रक्षांस्यावाहयामास कुम्भकर्णम् ददर्श ह ॥२२॥

कुम्भकर्णम् समीक्ष्यैव वितत्रास प्रजापतिः । कुम्भकर्णमथाश्वस्तः स्वयम्भूरिदमब्रवीत् ॥२३॥

ध्रुवम् लोकविनाशाय पौलस्त्येनासि निर्मितः । तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥२४॥

ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः । ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥२५॥

प्रवृद्धः काञ्चनो वृक्षः फलकाले निकृन्त्यते । न नप्तारम् स्वकम् न्याय्यम् शप्तुमेवम् प्रजापते ॥२६॥

न मिथ्यावचनश्च त्वम् स्वप्स्यत्येव न संशयः । कालस्तु क्रियतामस्य शयने जागरे तथा ॥२७॥

रावस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् । शयिता ह्येष षण्मासानेकाहम् जागरिष्यति ॥२८॥

एकेनाह्ना त्वसौ वीरश्च रन् भूमिम् बुभुक्षितः । व्यात्तास्यो भक्षयेल्लोकान् सम्वृद्ध इव पावकः ॥२९॥

सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥३०॥

स एष निर्गतो वीरः शिबिराद्भीमविक्रमः । वानरान् भृशसम्क्रुद्धो भक्षयन् परिधावति ॥३१॥

कुम्भकर्णम् प्रतीक्ष्यैव हरयोऽद्य प्रदुद्रुवुः । कथमेनम् रणे क्रुद्धम् वारयिष्यन्ति वानराः ॥३२॥

उच्यन्ताम् वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् । इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥३३॥

विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् । उवाच राघवो वाक्यम् नीलम् सेनापतिम् तदा ॥३४॥

गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्टस्य पावके । द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सम्क्रमान् ॥३५॥

शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसम्हर । तिष्ठन्तु सायुधाः सर्वे वानराः शैलपाणयः ॥३६॥

राघवेण समादिष्टो नीलो हरिचमूपतिः । शशास वानरानीकम् यथावत्कपिकुञ्जरः ॥३७॥

तत्तो गवाक्षः शरभो हनूमानङ्गदस्तथा । शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥३८॥

रामवाक्यमुपश्रुत्य हरयो जीतकाशिनः । पादपैरर्दयन्वीरा वानराः परवाहिनीम् ॥३९॥

ततो हरीणाम् तदनीकमुग्रम् । रराज शैलोद्यतवृक्षहस्तम् । गिरेः समीपानुगतम् यथैव । महन्महाम्भोधरजालमुग्रम् ॥४०॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः ॥

Listen to the sarga
0:00