स प्रविश्य पुरीम् लङ्काम् रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥१॥
षष्टितमः सर्गः 6.60
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
मातङ्ग इव सिम्हेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ॥२॥
ब्रह्मदण्डप्रतीकानाम् विद्युच्चलितवर्चसाम् । स्मतन् राघवबाणानाम् विव्यथे राक्षसेश्वरः ॥३॥
स काञ्चनमयम् दिव्यमाश्रित्य परमासनम् । विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥४॥
सर्वम् तत्खलु मे मोघम् यत्तप्तम् परमम् तपः । यत्समानो महेन्द्रेण मानुषेण विनिर्जितः ॥५॥
इदम् तद्ब्रह्मणो घोरम् वाक्यम् मामभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयम् त्वमिति तत्तथा ॥६॥
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वम् मया प्राप्तम् मानुषेभ्यो न याचितम् ॥७॥
विदितम् मानुषम् मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलजातेन अनर्ण्येन यत् पुरा ॥८॥
उत्पत्स्यति हि मद्वंशे पुरुषो राक्षसाधम । यस्त्वाम् सपुत्रम् सामात्यम् सबलम् साश्वसारथिम् ॥९॥
निहनिष्यति सम्ग्रामे त्वाम् कुलाधम दुर्मते । शप्तोऽहम् वेदवत्या च यदा सा धर्षिता पुरा ॥१०॥
सेयम् सीता महाभागा जाता जनकनन्दिनी । उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका ॥११॥
यथोक्तास्तन्मया प्राप्तम् न मिध्या ऋषिभाषितम् । एतदेवाभ्युपागम्य यत्नम् कर्तुमहार्हथ ॥१२॥
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु । स चाप्रतिमगाम्भीर्यो देवदानवदर्पहा ॥१३॥
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् । समरे जितमात्मानम् प्रहस्तम् च निषूदितम् ॥१४॥
ज्ञात्वा रक्षोबलम् भीममादिदेश महाबलः । द्वारेषु यत्नः क्रियताम् प्राकारश्चाधिरुह्यताम् ॥१५॥
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् । सुखम् स्वपिति निश्चिन्तः कालोपहतचेतनः ॥१६॥
नव सप्त दशाष्टौ च मासान् स्वपिति राक्षसः । मन्त्रम् कृत्वा प्रसुप्तोऽयमिअस्तु नवमेऽहनि ॥१७॥
तम् तु बोधयत क्षिप्रम् कुम्भकर्णम् महाबलम् । स हि सम्ख्ये महाबाहुः ककुदम् सर्वरक्षसाम् ॥१८॥
वानरान् राजपुत्रौ च क्षिप्रमेव हनिष्यति । एष केतुः परं सम्ख्ये मुख्ये वै सर्वरक्षसाम् ॥१९॥
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः । रामेणाभिनिरस्तस्य सम्ग्रामेऽस्मिन् सुदारुणे ॥२०॥
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते । किम् करिष्याम्यहम् तेन शक्रतुल्यबलेन हि ॥२१॥
ईदृशे व्यसने घोरे यो न साह्याय कल्पते । ते तु तद्वचनम् श्रुत्वा राक्षसेन्द्रस्य राक्षसाः ॥२२॥
जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् । ताम् प्रविश्य महाद्वाराम् सर्वतो योजनायताम् ॥२३॥
कुम्भक्र्णगुहाम् रम्याम् पुष्पगन्धप्रवाहिनीम् । कुम्भकर्णस्य निःश्वासादवधूता महाबलाः ॥२४॥
प्रतिष्ठमानाः कृच्छ्रेण यत्ना त्प्रविविशुर्गुहाम् । ताम् प्रविश्य गुहाम् रम्याम् रत्नकाञ्चनकुट्टिमाम् ॥२५॥
ददृशुर्नैरृतव्याघ्राः शयानम् भीमविक्रमम् । ते तु तम् विकृतम् सुप्तम् विकीर्णमिव पर्वतम् ॥२६॥
कुम्भम् महानिद्रम् समेताः प्रत्यबोधयन् । ऊर्ध्वलोमाञ्चिततनुम् श्वसन्तमिव पन्नगम् ॥२७॥
भ्रामयन्तम् विनिःश्वासैः शयानम् भीमविक्रमम् । भीमनासापुटम् तम् तु पातालविपुलाननम् ॥२८॥
शयने न्यस्तसर्वाङ्गम् मेदोरुधिरगन्धिनम् । काञ्चनाङ्गदनद्धाङ्गम् मेदोरुधिरगन्धिनम् ॥२९॥
ददृशुर्नैरृतव्याघ्रम् कुम्भकर्णमरिन्दमम् । ततश्चक्रुर्महात्मानः कुम्भकर्णस्य चाग्रातः ॥३०॥
भूतानाम् मेरुसम्काशम् राशिम् परमतर्पणम् । मृगाणाम् महिषाणाम् च वराहाणाम् च संचयान् ॥३१॥
चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम् । ततः शोणितकुम्भांश्च मांसानि विविधानि च ॥३२॥
पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः । लिलिपुश्च परार्ध्येन चन्दनेन परम्तपम् ॥३३॥
दिव्यैराश्वासयामासुर्माल्यैर्गन्धैश्च गन्धिभिः । धूपगन्धांश्च ससृजुस्तुष्टुवुश्च परम्तपम् ॥३४॥
जलदा इव चानेदुर्यातुधानास्ततस्ततः । शङ्खांश्च पूरयामासुः शशाङ्कसदृशप्रभान् ॥३५॥
तुमुलम् युगपच्चापि विनेदुश्चाप्यमर्षिताः । नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः ॥३६॥
कुम्भकर्णविबोधार्थम् चक्रुस्तेविपुलम् स्वनम् । सशङ्खभेरीपणवप्रणाद । मास्फोटितक्ष्वेलितसिम्हनादम् । दिशो द्रवन्तस्त्रिदिवम् किरन्तः । श्रुत्वा विहम्गाः सहसा निपेतुः ॥३७॥
यदा भृशम् तैर्निनदैर्महात्मा । न कम्भकर्णो बुबुधे प्रसुप्तः । ततो भुशुण्डीर्मुसलानि सर्वे । रक्षोगणास्तम् जगृहुर्गदाश्च ॥३८॥
तम् शैलशृङ्गेर्मुसलैर्गदाभि । र्वक्षःस्थले मुद्गरमुष्टिभिश्च । सुखप्रसुप्तम् भुवि कुम्भकर्णम् । रक्षांस्युदग्राणि तदा निजघ्नः ॥३९॥
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः । राक्षसा बलवन्तोऽपि स्थातुम् शेकुर्न चाग्रतः ॥४०॥
ततः परिहिता गाढम् राक्षसा भीमविक्रमाः । मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तथा ॥४१॥
दश राक्षससाहस्रम् युगपत्पर्यवारयत् । नीलञ्जनचयाकारम् ते तु तम् प्रत्य्बोधयन् ॥४२॥
अभिघ्नन्तो नदन्तश्च न च सम्बुबुधे तदा । यदा चैनम् न शेकुस्ते प्रतिबोधयितुम् तदा ॥४३॥
ततो गुरुतरम् यत्नम् दारुणम् समुपाक्रमन् । अश्वानुष्ट्रान् खरान्नागान् जघ्नर्दण्डकशाङ्कुशैः ॥४४॥
भेरीशङ्खेमृदङ्गांश्च सर्वप्राणैरवादयन् । निजघ्नश्चास्य गात्राणि महाकाष्ठकटम्करैः ॥४५॥
मुद्गरैर्मुसलैश्चापि सर्वप्राणसमुद्यतैः । तेन नादेन महाअ लङ्का समभिपूरिता ॥४६॥
सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते । ततः सहस्रम् भेरीणाम् युगपत्समहन्यत ॥४७॥
मृष्टकाञ्चनकोणाना मासक्तानाम् समन्ततः । एवनओततुबुद्रस्त्य् तदा बौव ओरव्य्द्ग्तत ॥४८॥
शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः । महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ॥४९॥
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् । अन्ये भेरीः समाजघ्नरन्ये चक्रुर्महास्वनम् ॥५०॥
केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च । उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ॥५१॥
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः । न कुम्भकर्णः पस्पन्दे महानिद्रावशम् गतः ॥५२॥
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् । रज्जुबन्धनबद्धाभिः शतग्नीभिश्च सर्वशः ॥५३॥
वध्यमानो महाकायो न प्राबुध्यत राक्षसः । वारणानाम् सहस्रम् च शरीरेऽस्य प्रधावितम् ॥५४॥
कुम्भकर्णस्तदा बुद्ध्वा स्पर्शम् परमबुध्यत । स पात्यमानैर्गिरिशृङ्गवृक्षै । रचिन्तयंस्तान्विपुलान् प्रहारान् । निद्राक्षयात् क्षुद्भयपीडितश्च । विजृम्भमाणः सहसोत्पपाप ॥५५॥
स नागभोगाचलशृङ्गकल्पौ । विक्षिप्य बाहू जितवज्रसारौ । विवृत्य वक्त्रम् वडवामुखाभम् । निशाचरोऽसौ विकृतम् जजृम्भे ॥५६॥
तस्य जाजृम्भमाणस्य वक्त्रम् पातालसम्निभम् । ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥५७॥
स जृम्भमाणोऽतिबलः प्रबुद्धस्तु निशाचरः । निःश्वासश्चास्य सम्जज्ञे पर्वदादिव मारुतः ॥५८॥
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद् बभौ । युगाने सर्वभूतानि कालस्येव दिधक्षतः ॥५९॥
तस्याग्निदीप्तिसदृशे विद्युत्सदृशवर्चसी । ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥६०॥
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून् । वराहान् महिषांश्चैव बभक्ष स महाबलः ॥६१॥
आदद्बुभुक्षितो मांसम् शोणितम् तृषितोऽपिबत् । मेदःकुम्भांश्च मद्यांश्च पपौ शक्ररिपुस्तदा ॥६२॥
ततस्तृप्त इति ज्ञात्वा समुत्पेरुर्निशाचराः । शिरोभिश्च प्रणम्यैनम् सर्वतः पर्यवारयन् ॥६३॥
निद्राविशदनेत्रस्तु कलुषीकृतलोचनः । चारयन् सर्वतो दृष्टिम् तानुवाच निशाचरान् ॥६४॥
स सर्वान् सान्त्वयामास नैरृतान् नैरृतर्षभः । बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत् ॥६५॥
किमर्थमहामादृत्य भवद्भिः प्रतिबोधितः । कच्चित्सुकुशलम् राज्ञो भयम् वा नेह किंचन् ॥६६॥
अथवा ध्रुवमन्येभ्यो भयम् परमुपस्थितम् । यदर्थमेव त्वरिरैर्भवद्भिः प्रतिबोधितः ॥६७॥
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम् । दारयिष्ये महेन्द्रम् वा शीतयिष्ये तथानलम् ॥६८॥
स ह्यल्पकारणे सुप्तम् बोधयिष्यति मादृशम् । तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥६९॥
एवम् ब्रुवाणम् सम्रब्धम् कुम्भकर्णमरिंदमम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरभाषत ॥७०॥
न नो देवकृतम् किंचिद्भयमस्ति कदाचन । मानुषान्नो भयम् राजंस्तुमुलम् सम्प्रबाधते ॥७१॥
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशम् मानुषम् राजन् भयमस्मानुपस्थितम् ॥७२॥
वानरैः पर्वताकारैर्लङ्केयम् परिवारिता । सीताहरणसम्तप्ताद्रामान्नस्तुमुलम् भयम् ॥७३॥
एकेन वानरेणेयम् पूर्वम् दग्धा महापुरी । कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥७४॥
स्वयम् रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः । व्रजेति सम्युगे मुक्तो रामेणादित्यवर्चसा ॥७५॥
यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः । कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥७६॥
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराभवम् । कुम्भक्र्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥७७॥
सर्वमद्यैव यूपाक्ष हरिसैन्यम् सलक्ष्मणम् । राघवम् च रणे जित्वा ततो द्रक्ष्यामि रावणम् ॥७८॥
राक्षसांस्तर्पयिष्यामि हरीणाम् मांसशोणितैः । रामलक्ष्मणयोश्चापि स्वयम् पास्यामि शोणितम् ॥७९॥
तत्तस्य वाक्यम् ब्रुवतो निशम्य । सगर्वितम् रोषविवृद्धदोषम् । महोदरो नैरृतयोधमुख्यः । कृताञ्जलिर्वाक्यमिदम् बभाषे ॥८०॥
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च । पश्चादपि महाबाहो शत्रून्युधि विजेष्यसि ॥८१॥
महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥८२॥
सुप्तमुत्थाप्य भीमाक्षम् भीमरूपपराक्रमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥८३॥
तेऽभिगम्य दशग्रीवमासीनम् परमासने । ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः ॥८४॥
कुम्भकर्णः प्रबुद्धोऽसौ भ्राता ते राक्षसेश्वर । कथम् तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम् ॥८५॥
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान् । द्रष्टुमेनमिहेच्छामि यथान्यायम् च पूज्यताम् ॥८६॥
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः । कुम्भकर्णमिदम् वाक्यमूचू रावणचोदिताः ॥८७॥
द्रष्टुम् त्वाम् काम्क्षते राजा सर्वराक्षसपुम्गवः । गमने क्रियताम् बुद्धिर्भ्रातरम् सम्प्रहर्षय ॥८८॥
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम् । तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह ॥८९॥
प्रक्षाल्य वदनम् हृष्टः स्नातः परमभूषितः । पिपासुस्त्वरयामास पानम् बलसमीरणम् ॥९०॥
ततस्ते त्वरितास्तत्र राक्षसा रावणाज्ञया । मद्यम् भक्ष्यांश्च विविधान् क्षिप्रमेवोपहारयन् ॥९१॥
पीत्वा घटसहस्रे द्वे गमनायोपचक्रमे । ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः ॥९२॥
कुम्भकर्णो बबौ रुष्टः कालान्तकयमोपमः । भ्रूतुः स भवनम् गच्छन् रक्षोबलसमन्वितः ॥९३॥
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् । स राजमार्गम् वपुषा प्रकाशयन् । सहस्ररस्मिर्धरणीमिवांशुभिः । जगाम तत्राञ्जलिमालया वृतः । शतक्रतुर्गेहमिव स्वयम्भुवः ॥९४॥
तम् राजमार्गस्थममित्रघातिनम् । वनौकसस्ते सहसा बहिःस्थिताः । दृष्ट्वाऽ प्रमेयम् गिरिशृङ्गकल्पम् । वितत्रसुस्ते सह यूथपालैः ॥९५॥
केचिछरण्यम् शरणम् स्म रामम् । व्रजन्ति केचिद्व्यथिताः पतन्ति । केचिद्दिशश्च व्यथिताः पतन्ति । केचिद्बयार्ताभुवि शेरते स्म ॥९६॥
तमद्रिशृङ्गप्रतिमम् किरीटिनम् । स्पृशन्तमादित्यमिवात्मतेजसा । वनौकसः प्रेक्ष्य विवृद्धमद्भुतम् । भयार्दिता दुद्रुविरे यतस्ततः ॥९७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकांडे षष्टितमः सर्गः ॥