रामायणम्

एकोनषष्टितमः सर्गः 6.59

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तस्मिन् हते राक्षस सैन्य पाले । प्लवम् गमानाम् ऋषभेण युद्धे । भीम आयुधम् सागर तुल्य वेगम् । विदुद्रुवे राक्षस राज सैन्यम् ॥१॥

गत्वा तु रक्षो अधिपतेह् शशंसुह् । सेना पतिम् पावक सूनु शस्तम् । तच् च अपि तेषाम् वचनम् निशम्य । रक्षो अधिपह् क्रोध वशम् जगाम ॥२॥

सम्ख्ये प्रहस्तम् निहतम् निशम्य । शोक अर्दितह् क्रोध परीत चेताह् । उवाच तान् नैरृत योध मुख्यान् । इन्द्रो यथा च अमर योध मुख्यान् ॥३॥

6.59.3 #7e26e22c4392 timing uncertain

न अवज्ना रिपवे कार्या यैर् इन्द्र बल सूदनह् । सूदितह् सैन्य पालो मे सानुयात्रह् सकुन्जरह् ॥४॥

सो अहम् रिपु विनाशाय विजयाय अविचारयन् । स्वयम् एव गमिष्यामि रण शीर्षम् तद् अद्भुतम् ॥५॥

अद्य तद् वानर अनीकम् रामम् च सह लक्ष्मणम् । निर्दहिष्यामि बाण ओघैर् वनम् दीप्तैर् इव अग्निभिह् ॥६॥

अद्य सम्तर्पयिष्यामि पृथिवीम् कपिशोणितैः । स;एवम् उक्त्वा ज्वलन प्रकाशम् । रथम् तुरम्ग उत्तम राजि युक्तम् । प्रकाशमानम् वपुषा ज्वलन्तम् । समारुरोह अमर राज शत्रुह् ॥७॥

स शन्ख भेरी पटह प्रणादैर् । आस्फोटित क्ष्वेडित सिम्ह नादैह् । पुण्यैह् स्तवैश् च अप्य् अभिपूज्यमानस् । स्तदा ययौ राक्षस राज मुख्यह् ॥८॥

स नीलजीमूतनिकाशरूपै । र्मांस अशनैह् पावक दीप्त नेत्रैह् । बभौ वृतो राक्षस राज मुख्यैर् । भूतैर् वृतो रुद्र;इव अमर ईशह् ॥९॥

ततो नगर्याह् सहसा महा ओजा । निष्क्रम्य तद् वानर सैन्यम् उग्रम् । महा अर्णव अभ्र स्तनितम् ददर्श । समुद्यतम् पादप शैल हस्तम् ॥१०॥

तद् राक्षस अनीकम् अतिप्रचण्डम् । आलोक्य रामो भुजग इन्द्र बाहुह् । विभीषणम् शस्त्रभृताम् वरिष्ठम् । उवाच सेना अनुगतह् पृथु श्रीह् ॥११॥

नाना पताका ध्वज शस्त्र जुष्टम् । प्रास असि शूल आयुध चक्र जुष्टम् । सैन्यम् नग इन्द्र उपम नाग जुष्टम् । कस्य इदम् अक्षोभ्यम् अभीरु जुष्टम् ॥१२॥

ततस् तु रामस्य निशम्य वाक्यम् । विभीषणह् शक्र समान वीर्यह् । शशंस रामस्य बल प्रवेकम् । महात्मनाम् राक्षस पुम्गवानाम् ॥१३॥

यो असौ गज स्कन्ध गतो महात्मा । नव उदित अर्क उपम ताम्र वक्त्रह् । प्रकम्पयन् नाग शिरो अभ्युपैति ह्य् । अकम्पनम् त्व् एनम् अवेहि राजन् ॥१४॥

यो असौ रथस्थो मृग राज केतुर् । धून्वन् धनुह् शक्र धनुह् प्रकाशम् । करी इव भात्य् उग्र विवृत्त दम्ष्ट्रह् । स;इन्द्रजिन् नाम वर प्रधानह् ॥१५॥

यश् च एष विन्ध्य अस्त महा इन्द्र कल्पो । धन्वी रथस्थो अतिरथो अतिवीर्यह् । विस्फारयंश् चापम् अतुल्य मानम् । नाम्ना अतिकायो अतिविवृद्ध कायह् ॥१६॥

यो असौ नव अर्क उदित ताम्र चक्षुर् । आरुह्य घण्टा निनद प्रणादम् । गजम् खरम् गर्जति वै महात्मा । महा उदरो नाम स;एष वीरह् ॥१७॥

यो असौ हयम् कान्चन चित्र भाण्डम् । आरुह्य संध्या अभ्र गिरि प्रकाशम् । प्रासम् समुद्यम्य मरीचि नद्धम् । पिशाच;एष अशनि तुल्य वेगह् ॥१८॥

यश् च एष शूलम् निशितम् प्रगृह्य । विद्युत् प्रभम् किम्कर वज्र वेगम् । वृष इन्द्रम् आस्थाय गिरि प्रकाशम् । आयाति सो असौ त्रिशिरा यशस्वी ॥१९॥

असौ च जीमूत निकाश रूपह् । कुम्भह् पृथु व्यूढ सुजात वक्षाह् । समाहितह् पन्नग राज केतुर् । विस्फारयन् भाति धनुर् विधून्वन् ॥२०॥

यश् च एष जाम्बू नद वज्र जुष्टम् । दीप्तम् सधूमम् परिघम् प्रगृह्य । आयाति रक्षो बल केतु भूतह् । सो असौ निकुम्भो अद्भुत घोर कर्मा ॥२१॥

यश् च एष चाप असि शर ओघ जुष्टम् । पताकिनम् पावक दीप्त रूपम् । रथम् समास्थाय विभात्य् उदग्रो । नर अन्तको असौ नग शृन्ग योधी ॥२२॥

यश् च एष नाना विध घोर रूपैर् । व्याघ्र उष्ट्र नाग इन्द्र मृग इन्द्र वक्त्रैह् । भूतैर् वृतो भाति विवृत्त नेत्रैह् । सो असौ सुराणाम् अपि दर्प हन्ता ॥२३॥

यत्र एतद् इन्दु प्रतिमम् विभातिच् । चत्त्रम् सितम् सूक्ष्म शलाकम् अग्र्यम् । अत्र एष रक्षो अधिपतिर् महात्मा । भूतैर् वृतो रुद्र;इव अवभाति ॥२४॥

असौ किरीटी चल कुण्डल आस्यो । नाग इन्द्र विन्ध्य उपम भीम कायह् । महा इन्द्र वैवस्वत दर्प हन्ता । रक्षो अधिपह् सूर्य;इव अवभाति ॥२५॥

प्रत्युवाच ततो रामो विभीषणम् अरिम् दमम् । अहो दीप्तो महा तेजा रावणो राक्षस ईश्वरह् ॥२६॥

आदित्य;इव दुष्प्रेक्ष्यो रश्मिभिर् भाति रावणह् । सुव्यक्तम् लक्षये ह्य् अस्य रूपम् तेजह् समावृतम् ॥२७॥

देव दानव वीराणाम् वपुर् न एवम् विधम् भवेत् । यादृशम् राक्षस इन्द्रस्य वपुर् एतत् प्रकाशते ॥२८॥

सर्वे पर्वत सम्काशाह् सर्वे पर्वत योधिनह् । सर्वे दीप्त आयुध धरा योधश् च अस्य महा ओजसह् ॥२९॥

भाति राक्षस राजो असौ प्रदीप्तैर् भीम विक्रमैह् । भूतैह् परिवृतस् तीक्ष्णैर् देहवद्भिर् इव अन्तकह् ॥३०॥

दिष्ट्यायमद्य पापात्मा मम दृष्टिपथम् गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥३१॥

एवम् उक्त्वा ततो रामो धनुर् आदाय वीर्यवान् । लक्ष्मण अनुचरस् तस्थौ समुद्धृत्य शर उत्तमम् ॥३२॥

ततह् स रक्षो अधिपतिर् महात्मा । रक्षांसि तान्य् आह महा बलानि । द्वारेषु चर्या गृह गोपुरेषु । सुनिर्वृतास् तिष्ठत निर्विशन्काह् ॥३३॥

इहागतम् माम् सहितम् भवद्भि । र्वनौकसश्चिद्रमित्दम् विदित्वा । शून्याम् पुरीम् दुष्प्रसहाम् प्रमथ्य । प्रधर्षयेयुः सहसा समेताः ॥३४॥

विसर्जयित्वा सहसा ततस् तान् । गतेषु रक्षह्सु यथानियोगम् । व्यदारयद् वानर सागर ओघम् । महा झषह् पूर्मम् इव अर्णव ओघम् ॥३५॥

तम् आपतन्तम् सहसा समीक्ष्य । दीप्त इषु चापम् युधि राक्षस इन्द्रम् । महत् समुत्पाट्य मही धर अग्रम् । दुद्राव रक्षो अधिपतिम् हरि ईशह् ॥३६॥

तत् शैल शृन्गम् बहु वृक्ष सानुम् । प्रगृह्य चिक्षेप निशा चराय । तम् आपतन्तम् सहसा समीक्ष्य । बिभेद बाणैस् तपनीय पुन्खैह् ॥३७॥

तस्मिन् प्रवृद्ध उत्तम सानु वृक्षे । शृन्गे विकीर्णे पतिते पृथिव्याम् । महा अहि कल्पम् शरम् अन्तक आभम् । समाददे राक्षस लोक नाथह् ॥३८॥

स तम् गृहीत्वा अनिल तुल्य वेगम् । सविस्फुलिन्ग ज्वलन प्रकाशम् । बाणम् महा इन्द्र अशनि तुल्य वेगम् । चिक्षेप सुग्रीव वधाय रुष्टह् ॥३९॥

स सायको रावण बाहु मुक्तह् । शक्र अशनि प्रख्य वपुह् शित अग्रह् । सुग्रीवम् आसाद्य बिभेद वेगाद् । गुह ईरिता क्रौचम् इव उग्र शक्तिह् ॥४०॥

स सायक आर्तो विपरीत चेताह् । कूजन् पृथिव्याम् निपपात वीरह् । तम् प्रेक्ष्य भूमौ पतितम् विसम्ज्मम् । नेदुह् प्रहृष्टा युधि यातु धानाह् ॥४१॥

ततो गव अक्षो गवयह् सुदम्ष्ट्रस् । तथा ऋषभो ज्योति मुखो नलश् च । शैलान् समुद्यम्य विवृद्ध कायाह् । प्रदुद्रुवुस् तम् प्रति राक्षस इन्द्रम् ॥४२॥

तेषाम् प्रहारान् स चकार मेघान् । रक्षो अधिपो बाण गणैह् शित अग्रैह् । तान् वानर इन्द्रान् अपि बाण जालैर् । बिभेद जाम्बू नद चित्र पुन्खैह् ॥४३॥

ते वानर इन्द्रास् त्रिदश अरि बाणैर् । भिन्ना निपेतुर् भुवि भीम रूपाह् । ततस् तु तद् वानर सैन्यम् उग्रम् । प्रच्चादयाम् आस स बाण जालैह् ॥४४॥

ते वध्यमानाह् पतित अग्र्य वीरा । नानद्यमाना भय शल्य विद्धाह् । शाखा मृगा रावण सायक आर्ता । जग्मुह् शरण्यम् शरणम् स्म रामम् ॥४५॥

ततो महात्मा स धनुर् धनुष्मान् । आदाय रामह् सहरा जगाम । तम् लक्ष्मणह् प्रान्जलिर् अभ्युपेत्य । उवाच वाक्यम् परम अर्थ युक्तम् ॥४६॥

कामम् आर्यह् सुपर्याप्तो वधाय अस्य दुरात्मनह् । विधमिष्याम्य् अहम् नीचम् अनुजानीहि माम् विभो ॥४७॥

तम् अब्रवीन् महा तेजा रामह् सत्य पराक्रमह् । गच्च यत्न परश् च अपि भव लक्ष्मण सम्युगे ॥४८॥

रावणो हि महा वीर्यो रणे अद्भुत पराक्रमह् । त्रैलोक्येन अपि सम्क्रुद्धो दुष्प्रसह्यो न संशयह् ॥४९॥

तस्य चिद्राणि मार्गस्व स्वच् चिद्राणि च गोपय । चक्षुषा धनुषा यत्नाद् रक्ष आत्मानम् समाहितह् ॥५०॥

राघवस्य वचह् श्रुत्वा सम्परिष्वज्य पूज्य च । अभिवाद्य ततो रामम् ययौ सौमित्रिर् आहवम् ॥५१॥

स रावणम् वारण हस्त बाहुर् । ददर्श दीप्त उद्यत भीम चापम् । प्रच्चादयन्तम् शरवृष्टि जालैस् । तान् वानरान् भिन्न विकीर्ण देहान् ॥५२॥

तम् आलोक्य महा तेजा हनूमान् मारुत आत्मजा । निवार्य शर जालानि प्रदुद्राव स रावणम् ॥५३॥

रथम् तस्य समासाद्य भुजम् उद्यम्य दक्षिणम् । त्रासयन् रावणम् धीमान् हनूमान् वाक्यम् अब्रवीत् ॥५४॥

देव दानव गन्धर्वा यक्षाश् च सह राक्षसैह् । अवध्यत्वात् त्वया भग्ना वानरेभ्यस् तु ते भयम् ॥५५॥

एष मे दक्षिणो बाहुह् पन्च शाखह् समुद्यतह् । विधमिष्यति ते देहाद् भूत आत्मानम् चिर उषितम् ॥५६॥

श्रुत्वा हनूमतो वाक्यम् रावणो भीम विक्रमह् । सम्रक्त नयनह् क्रोधाद् इदम् वचनम् अब्रवीत् ॥५७॥

क्षिप्रम् प्रहर निह्शन्कम् स्थिराम् कीर्तिम् अवाप्नुहि । ततस् त्वाम् ज्नाति विक्रान्तम् नाशयिष्यामि वानर ॥५८॥

रावणस्य वचह् श्रुत्वा वायु सूनुर् वचो अब्रवीत् । प्रहृतम् हि मया पूर्वम् अक्षम् स्मर सुतम् तव ॥५९॥

एवम् उक्तो महा तेजा रावणो राक्षस ईश्वरह् । आजघान अनिल सुतम् तलेन उरसि वीर्यवान् ॥६०॥

स तल अभिहतस् तेन चचाल च मुहुर् मुहुह् । आजघान अभिसम्क्रुद्धस् तलेन एव अमर द्विषम् ॥६१॥

आजघान च सम्क्रुद्धस्तलेनैवामरद्विषम् । ततस् तलेन अभिहतो वानरेण महात्मना ॥६२॥

दशग्रीवह् समाधूतो यथा भूमि चले अचलह् । सम्ग्रामे तम् तथा दृष्ट्व रावणम् तल ताडितम् ॥६३॥

ऋषयो वानराह् सिद्धा नेदुर् देवाह् सह असुराह् । अथ आश्वस्य महा तेजा रावणो वाक्यम् अब्रवीत् ॥६४॥

साधु वानर वीर्येण श्लाघनीयो असि मे रिपुह् । रावणेन एवम् उक्तस् तु मारुतिर् वाक्यम् अब्रवीत् ॥६५॥

धिग् अस्तु मम वीर्यम् तु यत् त्वम् जीवसि रावण । सकृत् तु प्रहर इदानीम् दुर्बुद्धे किम् विकत्थसे ॥६६॥

ततस् त्वाम् मामको मुष्टिर् नयिष्यामि यथा क्षयम् । ततो मारुति वाक्येन क्रोधस् तस्य तदा अज्वलत् ॥६७॥

सम्रक्त नयनो यत्नान् मुष्टिम् उद्यम्य दक्षिणम् । पातयाम् आस वेगेन वानर उरसि वीर्यवान् ॥६८॥

हनूमान् वक्षसि व्यूधे संचचाल हतह् पुनह् । विह्वलम् तम् तदा दृष्ट्वा हनूमन्तम् महा बलम् ॥६९॥

रथेन अतिरथह् शीघ्रम् नीलम् प्रति समभ्यगात् । राक्षसानामधिपतिर्दशग्रीवः ॥७०॥

पन्नग प्रतिमैर् भीमैह् पर मर्म अतिभेदिभिह् । शरैर् आदीपयाम् आस नीलम् हरि चमू पतिम् ॥७१॥

स शर ओघ समायस्तो नीलह् कपि चमू पतिह् । करेण एकेन शैल अग्रम् रक्षो अधिपतये असृजत् ॥७२॥

हनूमान् अपि तेजस्वी समाश्वस्तो महा मनाह् । विप्रेक्षमाणो युद्ध ईप्सुह् सरोषम् इदम् अब्रवीत् ॥७३॥

नीलेन सह सम्युक्तम् रावणम् राक्षस ईश्वरम् । अन्येन युध्यमानस्य न युक्तम् अभिधावनम् ॥७४॥

रावणो अपि महा तेजास् तत् शृन्गम् सप्तभिह् शरैह् । आजघान सुतीक्ष्ण अग्रैस् तद् विकीर्णम् पपात ह ॥७५॥

तद् विकीर्णम् गिरेह् शृन्गम् दृष्ट्वा हरि चमू पतिह् । काल अग्निर् इव जज्वाल क्रोधेन पर वीरहा ॥७६॥

सो अश्व कर्णान् धवान् सालांश् चूतांश् च अपि सुपुष्पितान् । अन्यांश् च विविधान् वृक्षान् नीलश् चिक्षेप सम्युगे ॥७७॥

स तान् वृक्षान् समासाद्य प्रतिचिच्चेद रावणह् । अभ्यवर्षत् सुघोरेण शर वर्षेण पावकिम् ॥७८॥

अभिवृष्टह् शर ओघेण मेघेन इव महा अचलह् । ह्रस्वम् कृत्वा तदा रूपम् ध्वज अग्रे निपपात ह ॥७९॥

पावक आत्मजम् आलोक्य ध्वज अग्रे समवस्थितम् । जज्वाल रावणह् क्रोधात् ततो नीलो ननाद ह ॥८०॥

ध्वज अग्रे धनुषश् च अग्रे किरीट अग्रे च तम् हरिम् । लक्ष्मणो अथ हनूमांश् च दृष्ट्वा रामश् च विस्मिताह् ॥८१॥

रावणो अपि महा तेजाह् कपि लाघव विस्मितह् । अस्त्रम् आहारयाम् आस दीप्तम् आग्नेयम् अद्भुतम् ॥८२॥

ततस् ते चुक्रुशुर् हृष्टा लब्ध लक्ष्याह् प्लवम् गमाह् । नील लाघव सम्भ्रान्तम् दृष्ट्वा रावणम् आहवे ॥८३॥

वानराणाम् च नादेन सम्रब्धो रावणस् तदा । सम्भ्रम आविष्ट हृदयो न किंचित् प्रत्यपद्यत ॥८४॥

आग्नेयेन अथ सम्युक्तम् गृहीत्वा रावणह् शरम् । ध्वज शीर्ष स्थितम् नीलम् उदैक्षत निशा चरह् ॥८५॥

ततो अब्रवीन् महा तेजा रावणो राक्षस ईश्वरह् । कपे लाघव युक्तो असि मायया परया अनया ॥८६॥

जीवितम् खलु रक्षस्व यदि शक्नोषि वानर । तानि तान्य् आत्म रूपाणि सृजसे त्वम् अनेकशह् ॥८७॥

तथा अपि त्वाम् मया मुक्तह् सायको अस्त्र प्रयोजितह् । जीवितम् परिरक्षन्तम् जीविताद् भ्रंशयिष्यति ॥८८॥

एवम् उक्त्वा महा बाहू रावणो राक्षस ईश्वरह् । संधाय बाणम् अस्त्रेण चमू पतिम् अताडयत् ॥८९॥

सो अस्त्र युक्तेन बाणेन नीलो वक्षसि ताडितह् । निर्दह्यमानह् सहसा निपपात मही तले ॥९०॥

पितृ माहात्म्य सम्योगाद् आत्मनश् च अपि तेजसा । जानुभ्याम् अपतद् भूमौ न च प्राणैर् व्ययुज्यत ॥९१॥

विसम्ज्नम् वानरम् दृष्ट्वा दशग्रीवो रण उत्सुकह् । रथेन अम्बुद नादेन सौमित्रिम् अभिदुद्रुवे ॥९२॥

आसाद्य रणमध्ये तं वारैत्वा स्थितो ज्वलन् । धनुर्विष्फारयामास राक्षसेन्द्रः प्रतापवान् ॥९३॥

तम् आह सौमित्रिर् अदीन सत्त्वो । विस्फारयन्तम् धनुर् अप्रमेयम् । अभेहि माम् एव निशा चर इन्द्र । न वानरांस् त्वम् प्रति योद्धुम् अर्हसि ॥९४॥

स तस्य वाक्यम् परिपूर्ण घोषम् । ज्या शब्दम् उग्रम् च निशम्य राजा । आसाद्य सौमित्रिम् अवस्थितम् तम् । कोप अन्वितम् वाक्यम् उवाच रक्षह् ॥९५॥

दिष्ट्या असि मे राघव दृष्टि मार्गम् । प्राप्तो अन्त गामी विपरीत बुद्धिह् । अस्मिन् क्षणे यास्यसि मृत्यु देशम् । संसाद्यमानो मम बाण जालैह् ॥९६॥

तम् आह सौमित्रिर् अविस्मयानो । गर्जन्तम् उद्वृत्त सित अग्र दम्ष्ट्रम् । राजन् न गर्जन्ति महा प्रभावा । विकत्थसे पापकृताम् वरिष्ठ ॥९७॥

जानामि वीर्यम् तव राक्षस इन्द्र । बलम् प्रतापम् च पराक्रमम् च । अवस्थितो अहम् शर चाप पाणिर् । आगच्च किम् मोघ विकत्थनेन ॥९८॥

स;एवम् उक्तह् कुपितह् ससर्ज । रक्षो अधिपह् सप्त शरान् सुपुन्खान् । ताम्ल् लक्ष्मणह् कान्चन चित्र पुन्खैश् । चिच्चेद बाणैर् निशित अग्र धारैह् ॥९९॥

तान् प्रेक्षमाणह् सहसा निकृत्तान् । निकृत्त भोगान् इव पन्नग इन्द्रान् । लन्का ईश्वरह् क्रोध वशम् जगाम । ससर्ज च अन्यान् निशितान् पृषत्कान् ॥१००॥

स बाण वर्षम् तु ववर्ष तीव्रम् । राम अनुजह् कार्मुक सम्प्रयुक्तम् । क्षुर अर्ध चन्द्र उत्तम कर्णि भल्लैह् । शरांश् च चिच्चेद न चुक्षुभे च ॥१०१॥

स बाणजालान्यपि तानि तानि । मोघानि पश्यांस्त्रिदशारिराजः । विसिस्मिये लक्ष्मणलाघवेन । पुनश्च बाणान्निशितान्मुमोच ॥१०२॥

स लक्ष्मणश् च आशु शरान् शित अग्रान् । महा इन्द्र वज्र अशनि तुल्य वेगान् । संधाय चापे ज्वलन प्रकाशान् । ससर्ज रक्षो अधिपतेर् वधाय ॥१०३॥

स तान् प्रचिच्चेद हि राक्षस इन्द्रश् । चित्त्वा च ताम्ल् लक्ष्मणम् आजघान । शरेण काल अग्नि सम प्रभेण । स्वयम्भु दत्तेन ललाट देशे ॥१०४॥

स लक्ष्मणो रावण सायक आर्तश् । चचाल चापम् शिथिलम् प्रगृह्य । पुनश् च सम्ज्नाम् प्रतिलभ्य कृच्च्राच् । चिच्चेद चापम् त्रिदश इन्द्र शत्रोह् ॥१०५॥

निकृत्त चापम् त्रिभिर् आजघान । बाणैस् तदा दाशरथिह् शित अग्रैह् । स सायक आर्तो विचचाल राजा । कृच्च्राच् च सम्ज्नाम् पुनर् आससाद ॥१०६॥

स कृत्त चापह् शर ताडितश् च । स्वेद आर्द्र गात्रो रुधिर अवसिक्तह् । जग्राह शक्तिम् समुदग्र शक्तिह् । स्वयम्भु दत्ताम् युधि देव शत्रुह् ॥१०७॥

स ताम् विधूम अनल सम्निकाशाम् । वित्रासनीम् वानर वाहिनीनाम् । चिक्षेप शक्तिम् तरसा ज्वलन्तीम् । सौमित्रये राक्षस राष्ट्र नाथह् ॥१०८॥

ताम् आपतन्तीम् भरत अनुजो अस्त्रैर् । जघान बाणैश् च हुत अग्नि कल्पैह् । तथा अपि सा तस्य विवेश शक्तिर् । भुज अन्तरम् दाशरथेर् विशालम् ॥१०९॥

स शक्तिमान् शक्तिसमाहतः सन् । जज्वाल भूमौ स रघुप्रवीरः । तं विह्वलन्तं सहसाभुपेत्य । जग्राह राजा तरसा भुजाभ्याम् ॥११०॥

हिमवान् मन्दरो मेरुस्त्रैलोक्यम् वा सहामरैः । शक्यम् भुजाभ्यामुद्दर्तुम् न शक्यो भरतानुजः ॥१११॥

शक्त्याब्राह्म्या तु सौमित्रिस्ताडितोऽपि स्तनान्तरे । विष्णोरमीमांस्यभागमात्मानं प्रत्यनुस्मरत् ॥११२॥

ततो दानवदर्पघ्नं सौमित्रिम् देवकण्टकः । तं पीडयित्वा बाहुभ्यां न प्रभुर्णङ्घनेऽभवत् ॥११३॥

ततः क्रुद्धो वायुसुतो रावणं समभिद्रवत् । आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥११४॥

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः । जानुभ्यामगमद्भूमौ चचाल च पपात च ॥११५॥

आस्यैश्च नेत्रैः श्रवणैः पपात रुधिरं बहु । विघार्णमानो निश्चेष्टो रथोपस्थ उपाचिशत् ॥११६॥

विसंज्ञो मूर्चितश्चासीन्न च स्थानम् समालभत् । विसम्ज्ञम् रावणम् दृष्ट्वा समरे भीमविक्रमम् ॥११७॥

ऋषय् वानराश्चैव नेदुर्देवाश्च सासुराः । हनूमनथ तेजस्वी लक्ष्मणम् रावणार्दितम् ॥११८॥

अनयद्रघवाभ्याशं बाहुभ्याम् परिगृह्य तम् । वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ॥११९॥

शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः । तं समुत्सृज्य सा शक्तिः सौमित्रिम् युथि निर्जितम् ॥१२०॥

रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत् । रावणोऽपि महातेजाः प्राप्य सम्ज्ञां महाहवे ॥१२१॥

आददे निशितान् बाणान् जग्रह च महद्धनुः । अश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ॥१२२॥

विष्णोर्भागममीमांस्यमात्मानम् प्रत्यनुस्मरन् । निपातितमहावीराम् वानराणाम् महाचमूम् ॥१२३॥

राघवस्तु रणे दृष्ट्वा रावणम् समभिद्रवत् । अथैनमुपसम्गम्य हनूमान्वाक्यमब्रवीत् ॥१२४॥

मम पृष्ठों समारुह्य राक्षसम् शास्तुमर्हसि । विष्णुर्यथा गरुत्मन्तमारुह्यमरवैरिणम् ॥१२५॥

तच्छ्रुत्वा रागवो वाक्यम् वायुपुत्रेण भाषितम् । अथारुरोह सहसा हनूमन्तं महाकपिम् ॥१२६॥

रथस्थम् रावणम् सम्ख्ये ददर्श मनुजाधिपः । तमालोक्य महातेजाः प्रदुद्राव स रावणम् ॥१२७॥

वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः । ज्याशब्दमकरोत्तीव्रम् वज्रनिष्पेषनिष्ठुरम् ॥१२८॥

गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह । तिष्ठ तिष्ठ मम त्वम् हि कृत्वा विप्रियमीदृशम् ॥१२९॥

क्व नु राक्षसशार्दूल गत्वा मोक्षमवाप्स्यसि । यदीन्द्रवैवस्वतभास्करान्वा । स्वयमुभवैश्वानरशंकरान्वा । गमिष्यसि त्वं दशधा दिशो वा । तथापि मे नाद्य गतो विमोक्ष्यसे ॥१३०॥

यश्चैष शक्त्या निहतस्त्वयाद्य । गच्छन्विषादं सहसाभ्युपेत्य । स एष रक्षोगणराज मृत्युः । सपुत्रपौत्रस्य तवाद्य युद्धे ॥१३१॥

एतेन चात्यद्भुतदर्शनानि । शरैर्जनस्थानकृतालयानि । चतुर्दशान्यात्तवरायुधानि । रक्षः सहस्राणि निषूदितानि ॥१३२॥

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाबलः । वायुपुत्रम् महावेगम् वहन्तं राघवं रणे ॥१३३॥

रोषेण महताविष्टः पूर्ववैरमनुस्मरन् । आजघान शरैर्दीपैः कालानलशिखोपमैः ॥१३४॥

राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥१३५॥

ततो रामो महातेजा रावणेन कृतव्रणम् । दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयुवान् ॥१३६॥

तस्याभिसम्क्रम्य रथम् सचक्रम् । साश्वध्वजच्छत्रमहापताकम् । ससारथिम् साशनिशूलखड्गम् । रामः प्रचिच्छेद शितैः शराग्रैः ॥१३७॥

अथेन्द्रशत्रुम् तरसा जघान । बाणेन वज्राशनिसम्निभेन । भुजान्तरे व्यूढसुजातरूपे । वज्रेण मेरुं भगवानिवेन्द्रः ॥१३८॥

यो वज्रपाताशनिसंनिपाता । न्न चुक्षुभे नापि च्चाल राजा । स रामबाणाभिहतो भृशार्त । श्चचाल चापं च मुमोच वीरः ॥१३९॥

तम् विह्वलन्तं प्रसमीक्ष्य रामः । समाददे दीप्तमथार्धचन्द्रम् । तेनार्कवर्णं सहसा किरीटं । चिच्छेद रक्षोधिपतेर्महात्मा ॥१४०॥

तं निर्विषाशीविषसंनिकाशं । शान्तार्चिषं सूर्यमिवाप्रकाशम् । गतश्रियं कृत्तकिरीटकूट । मुवाच रामो युधि राक्षसेन्द्रम् ॥१४१॥

कृतं त्वया कर्म महत्सुभीमं । हतप्रवीरश्च कृतस्त्वयाहम् । तस्मात्परिश्रान्त इति व्यवस्य । न्न त्वां शरैर्मऋत्युवशम् नयामि ॥१४२॥

प्रयाहि जानामि रणार्दितस्त्वं । प्रविश्य रात्रिंचरराज लङ्काम् । अश्वस्य निर्याहि रथी च धन्वी । तदा बलम् प्रेक्ष्यसि मे रथस्थः ॥१४३॥

स एवमुक्तो हतदर्पहर्षो । निकृत्तचापः स हताश्वसूतः । शरार्दितो भग्नमहाकिरीटो । विवेश लङ्काम् सहसा स्म राजा ॥१४४॥

तस्मिन् प्रविष्टे रजनीचरेन्द्रे । महाबले दानवदेवशत्रौ । हरीन् विशल्यान् सह लक्ष्मणेन । चकार रामः परमाहवाग्रे ॥१४५॥

तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ । सुरासुरा भूतगणा दिशश्च । ससागराः सर्वमहोरगाश्च । तथैव भूम्यम्बुच राः प्रहृष्टाः ॥१४६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः ॥

Listen to the sarga
0:00