ततः प्रहस्तं निर्यान्तम् दृष्ट्वा रणकृतोद्यमम् । उवाच पस्मितं रामो विभीषणमरिंदमः ॥१॥
अष्टपञ्चाशः सर्गः 6.58
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
क एष सुमहाकायो बलेन महता वृतः । आगच्छति महावेगः किम्रूपबलपौरुषः ॥२॥
आचक्ष्व मे महाबाहो वीर्यवन्तम् निशाचरम् । राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥३॥
एष सेनापतिस्तस्य प्रहस्तो नाम राक्ससः । लङ्कायाम् राक्षसेन्द्रस्य त्रिभागबलसंवृतः ॥४॥
वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः । ततः प्रहस्तम् निर्यान्तम् भीमम् भीम पराक्रमम् ॥५॥
गर्जन्तम् सुमहा कायम् राक्षसैर् अभिसम्वृतम् । ददर्श महती सेना वानराणाम् बलीयसाम् ॥६॥
अभिसम्जात रोषाणाम् प्रहस्तम् अभिगर्जताम् । खड्ग शक्त्य् अष्टि बाणाश् च शूलानि मुसलानि च ॥७॥
गदाश्च परिघाह् प्रासा विविधाश् च परश्वधाः । धनूम्षि च विचित्राणि राक्षसानाम् जय एषिणाम् ॥८॥
प्रगृहीतान्य् अशोभन्त वानरान् अभिधावताम् । जगृहुः पादपांश् च अपि पुष्पितान् वानर ऋषभाः ॥९॥
शिलाश्च विपुला दीर्घा योद्धु कामाह् प्लवम् गमाः । तेषाम् अन्योन्यम् आसाद्य सम्ग्रामह् सुमहान् अभूत् ॥१०॥
बहूनाम् अश्म वृष्टिम् च शर वृष्टिम् च वर्षताम् । बहवो राक्षसा युद्धे बहून् वानर यूथपान् ॥११॥
वानरा राक्षसांश् च अपि निजघ्नुर् बहवो बहून् । शूलैः प्रमथिताह् केचित् केचित् तु परम आयुधैः ॥१२॥
परिघैर् आहताह् केचित् केचिच् चिन्नाह् परश्वधैः । निरुच्च्वासाह् पुनह् केचित् पतिता धरणी तले ॥१३॥
विभिन्न हृदयाह् केचिद् इषु सम्तान संदिताः । केचिद् द्विधा कृताह् खड्गैः स्फुरन्तः पतिता भुवि ॥१४॥
वानरा राक्षसैः शूलैः पार्श्वतश् च विदारिताः । वानरैसः च अपि सम्क्रुद्धै राक्षस ओघाः समन्ततः ॥१५॥
पादपैर् गिरि शृन्गैश् च सम्पिष्टा वसुधा तले । वज्र स्पर्श तलैर् हस्तैर् मुष्टिभिश् च हता भृशम् ॥१६॥
वमन् शोणितम् आस्येभ्यो विशीर्ण दशन ईक्षणः । आर्त स्वरम् च स्वनताम् सिम्ह नादम् च नर्दताम् ॥१७॥
बभूव तुमुलः शब्दो हरीणाम् रक्षसाम् युधि । वानरा राक्षसाह् क्रुद्धा वीर मार्गम् अनुव्रताः ॥१८॥
विवृत्त नयनाह् क्रूराश् चक्रुह् कर्माण्य् अभीतवत् । नर अन्तकः कुम्भ हनुर् महा नादह् समुन्नतः ॥१९॥
एते प्रहस्त सचिवाह् सर्वे जघ्नुर् वन ओकसः । तेषाम् आपतताम् शीघ्रम् निघ्नताम् च अपि वानरान् ॥२०॥
द्विविदो गिरि शृन्गेण जघान एकम् नर अन्तकम् । दुर्मुखः पुनर् उत्पाट्य कपिः स विपुल द्रुमम् ॥२१॥
राक्षसम् क्षिप्र हस्तस् तु समुन्नतम् अपोथयत् । जाम्बवांस् तु सुसम्क्रुद्धः प्रगृह्य महतीम् शिलाम् ॥२२॥
पातयाम् आस तेजस्वी महा नादस्य वक्षसि । अथ कुम्भ हनुस् तत्र तारेण आसाद्य वीर्यवान् ॥२३॥
वृक्षेण अभिहतो मूर्ध्नि प्राणांस् तत्याज राक्षसः । अमृष्यमाणस् तत् कर्म प्रहस्तो रथम् आस्थितः ॥२४॥
चकार कदनम् घोरम् धनुष् पाणिर् वन ओकसाम् । आवर्त;इव सम्जज्ने;उभयोह् सेनयोस् तदा ॥२५॥
क्षुभितस्य अप्रमेयस्य सागरस्य इव निस्वनः । महता हि शर ओघेण प्रहस्तो युद्ध कोविदः ॥२६॥
अर्दयाम् आस सम्क्रुद्धो वानरान् परम आहवे । वानराणाम् शरीरैस् तु राक्षसानाम् च मेदिनी ॥२७॥
बभूव निचिता घोरा पतितैर् इव पर्वतैः । सा मही रुधिर ओघेण प्रच्चन्ना सम्प्रकाशते ॥२८॥
संचन्ना माधवे मासि पलाशैर् इव पुष्पितैः । हरि वीर ओघ वप्राम् तु भग्न आयुध महा द्रुमाम् ॥२९॥
शोणित ओघ महा तोयाम् यम सागर गामिनीम् । यकृत् प्लीह महा पन्काम् विनिकीर्ण अन्त्र शैबलाम् ॥३०॥
भिन्न काय शिरो मीनाम् अन्ग अवयव शाड्वलाम् । गृध्र हंस गण आकीर्णाम् कन्क सारस सेविताम् ॥३१॥
मेधः फेन समाकीर्णाम् आर्त स्तनित निस्वनाम् । ताम् कापुरुष दुस्ताराम् युद्ध भूमिमयीम् नदीम् ॥३२॥
नदीम् इव घन अपाये हंस सारस सेविताम् । राक्षसाह् कपि मुख्याश् च तेरुस् ताम् दुस्तराम् नदीम् ॥३३॥
यथा पद्म रजो ध्वस्ताम् नलिनीम् गज यूथपाः । ततः सृजन्तम् बाण ओघान् प्रहस्तम् स्यन्दने स्थितम् ॥३४॥
ददर्श तरसा नीलो विनिघ्नन्तम् प्लवम् गमान् । उद्धूत इव वायुः खे महादभ्रबलं बलात् ॥३५॥
समीक्ष्याभिद्रुतम् युद्धे प्रहस्तो वाहिनीपतिः । रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥३६॥
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ॥३७॥
नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः । ते प्रेत्य निशिखा नीलं विनिर्भिद्य समाहिताः ॥३८॥
महीम् जग्मुर्महावेगा रोषिता इव पन्नगाः । नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ॥३९॥
स तम् परम दुर्धर्षम् आपतन्तम् महा कपिः । प्रहस्तम् ताडयाम् आस वृक्षम् उत्पाट्य वीर्यवान् ॥४०॥
तस्य बाणगणानेव राक्षसस्य दुरात्मनः । अपारयन् वारयितुम् प्रत्यगृह्णान् निमीलितः ॥४१॥
यथैव गो वृषो वर्षम् शारदम् शीघ्रमागतम् । एवम् एव प्रहस्तस्य शर वर्षम् दुरासदम् ॥४२॥
निमीलित अक्षः सहसा नीलः सेहे सुदारुणम् । रोषितः शर वर्षेण सालेन महता महान् । प्रजघान हयान् नीलह् प्रहस्तस्य मनो जवान् ॥४३॥
ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः । बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥४४॥
विधनुस् तु कृतस् तेन प्रहस्तो वाहिनी पतिः । प्रगृह्य मुसलम् घोरम् स्यन्दनाद् अवपुप्लुवे ॥४५॥
ताव् उभौ वाहिनी मुख्यौ जात रोषौ तरस्विनौ । स्थितौ क्षतज दिग्ध अन्गौ प्रभिन्नाव् इव कुन्जरौ ॥४६॥
उल्लिखन्तौ सुतीक्ष्णाभिर् दम्ष्ट्राभिर् इतरेतरम् । सिम्ह शार्दूल सदृशौ सिम्ह शार्दूल चेष्टितौ ॥४७॥
विक्रान्त विजयौ वीरौ समरेष्व् अनिवर्तिनौ । कान्क्षमाणौ यशः प्राप्तुम् वृत्र वासवयोः समौ ॥४८॥
आजघान तदा नीलम् ललाटे मुसलेन सः । प्रहस्तः परम् आयस्तस् तस्य सुस्राव शोणितम् ॥४९॥
ततः शोणित दिग्ध अन्गह् प्रगृह्य सुमहा तरुम् । प्रहस्तस्य उरसि क्रुद्धो विससर्ज महा कपिः ॥५०॥
तम् अचिन्त्य प्रहारम् स प्रगृह्य मुसलम् महत् । अभिदुद्राव बलिनम् बली नीलम् प्लवम् गमम् ॥५१॥
तम् उग्र वेगम् सम्रब्धम् आपतन्तम् महा कपिः । ततः सम्प्रेक्ष्य जग्राह महा वेगो महा शिलाम् ॥५२॥
तस्य युद्ध अभिकामस्य मृधे मुसल योधिनः । प्रहस्तस्य शिलाम् नीलो मूर्ध्नि तूर्णम् अपातयत् ॥५३॥
नीलेन कपिमुख्येन विमुक्ता महती शिला । बिभेद बहुधा घोरा प्रहस्तस्य शिरस् तदा ॥५४॥
स गत असुर् गत श्रीको गत सत्त्वो गत इन्द्रियः । पपात सहसा भूमौ चिन्न मूल;इव द्रुमः ॥५५॥
विभिन्न शिरसस् तस्य बहु सुस्राव शोणितम् । शरीराद् अपि सुस्राव गिरेह् प्रस्रवणम् यथा ॥५६॥
हते प्रहस्ते नीलेन तद् अकम्प्यम् महद् बलम् । रक्षसाम् अप्रहृष्टानाम् लन्काम् अभिजगाम ह ॥५७॥
न शेकुः समवस्थातुम् निहते वाहिनी पतौ । सेतु बन्धम् समासाद्य विशीर्णम् सलिलम् यथा ॥५८॥
हते तस्मिंसः चमू मुख्ये राक्षसस् ते निरुद्यमाः । रक्षः पति गृहम् गत्वा ध्यान मूकत्वम् आगताः ॥५९॥
प्रप्ताः शोकार्णावम् तीव्रम् विसम्ज्ञा इव ते.भवन् । ततस् तु नीलो विजयी महा बलः । प्रशस्यमानः स्वकृतेन कर्मणा । समेत्य रामेण सलक्ष्मणेन । प्रहृष्ट रूपस् तु बभूव यूथपः ॥६०॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥