अकम्पन वधम् श्रुत्वा क्रुद्धो वै राक्षस ईश्वरः । किंचिद् दीन मुखश् च अपि सचिवांस् तान् उदैक्षत ॥१॥
सप्तपञ्चाशः सर्गः 6.57
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स तु ध्यात्वा मुहूर्तम् तु मन्त्रिभिह् सम्विचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः ॥२॥
पुरीम् परिययौ लन्काम् सर्वान् गुल्मान् अवेक्षितुम् । ताम् राक्षस गणैर् गुप्ताम् गुल्मैर् बहुभिर् आवृताम् ॥३॥
ददर्श नगरीम् लन्काम् पताका ध्वज मालिनीम् । रुद्धाम् तु नगरीम् दृष्ट्वा रावणो राक्षस ईश्वरः ॥४॥
उवाच अमर्षितह् काले प्रहस्तम् युद्ध कोविदम् । पुरस्य उपनिविष्टस्य सहसा पीडितस्य ह ॥५॥
न अन्यम् युद्धात् प्रपश्यामि मोक्षम् युद्ध विशारद । अहम् वा कुम्भ कर्णो वा त्वम् वा सेना पतिर् मम ॥६॥
इन्द्रजिद् वा निकुम्भो वा वहेयुर् भारम् ईदृशम् । स त्वम् बलम् इतह् शीघ्रम् आदाय परिगृह्य च ॥७॥
विजयाय अभिनिर्याहि यत्र सर्वे वन ओकसः । निर्याणाद् एव ते नूनम् चपला हरि वाहिनी ॥८॥
नर्दताम् राक्षस इन्द्राणाम् श्रुत्वा नादम् द्रविष्यति । चपला ह्य् अविनीताश् च चल चित्ताश् च वानराः ॥९॥
न सहिष्यन्ति ते नादम् सिम्ह नादम् इव द्विपाः । विद्रुते च बले तस्मिन् रामह् सौमित्रिणा सह ॥१०॥
अवशस्ते निरालम्बह् प्रहस्त वशम् एष्यति । आपत् संशयिता श्रेयो न अत्र निह्संशयी कृता ॥११॥
प्रतिलोम अनुलोमम् वा यद् वा नो मन्यसे हितम् । रावणेन एवम् उक्तस् तु प्रहस्तो वाहिनी पतिः ॥१२॥
राक्षस इन्द्रम् उवाच इदम् असुर इन्द्रम् इव उशना । राजन् मन्त्रित पूर्वम् नह् कुशलैह् सह मन्त्रिभिः ॥१३॥
विवादसः च अपि नो वृत्तह् समवेक्ष्य परस्परम् । प्रदानेन तु सीतायाह् श्रेयो व्यवसितम् मया ॥१४॥
अप्रदाने पुनर् युद्धम् दृष्टम् एतत् तथैव नः । सो अहम् दानैश् च मानैश् च सततम् पूजितस् त्वया ॥१५॥
सान्त्वैसः च विविधैह् काले किम् न कुर्याम् प्रियम् तव । न हि मे जीवितम् रक्ष्यम् पुत्र दार धनानि वा ॥१६॥
त्वम् पश्य माम् जुहूषन्तम् त्वद् अर्थे जीवितम् युधि । एवम् उक्त्वा तु भर्तारम् रावणम् वाहिनी पतिः ॥१७॥
उवाचेदम् बलाध्यक्षान् प्रहस्तह् पुरतः स्थितान् । समानयत मे शीघ्रम् राक्षसानाम् महद् बलम् ॥१८॥
मद् बाण अशनि वेगेन हतानाम् तु रण अजिरे । अद्य तृप्यन्तु मांसेन पक्षिणह् कानन ओकसाम् ॥१९॥
तस्य तद्वचनम् श्रुत्वा बलाध्यक्षा महाबलाः । बलम् उद्योजयाम् आसुस् तस्मिन् राक्षस मन्दिरे ॥२०॥
सा बभूव मुहूर्तेन तिग्म नाना विध आयुधैः । लन्का राक्षस वीरैस् तैर् गजैर् इव समाकुला ॥२१॥
हुत अशनम् तर्पयताम् ब्राह्मणांश् च नमस्यताम् । आज्य गन्ध प्रतिवहह् सुरभिर् मारुतो ववौ ॥२२॥
स्रजसः च विविध आकारा जगृहुस् त्व् अभिमन्त्रिताः । सम्ग्राम सज्जाः सम्हृष्टा धारयन् राक्षसास् तदा ॥२३॥
सधनुष्काह् कवचिनो वेगाद् आप्लुत्य राक्षसाः । रावणम् प्रेक्ष्य राजानम् प्रहस्तम् पर्यवारयन् ॥२४॥
अथ आमन्त्र्य च राजानम् भेरीम् आहत्य भैरवाम् । आरुरोह रथम् दिव्यम् प्रहस्तह् सज्ज कल्पितम् ॥२५॥
हयैर् महा जवैर् युक्तम् सम्यक् सूत सुसम्युतम् । महा जलद निर्घोषम् साक्षाच् चन्द्र अर्क भास्वरम् ॥२६॥
उरग ध्वज दुर्धर्षम् सुवरूथम् स्वपस्करम् । सुवर्ण जाल सम्युक्तम् प्रहसन्तम् इव श्रिया ॥२७॥
ततस् तम् रथम् आस्थाय रावण अर्पित शासनः । लन्काया निर्ययौ तूर्णम् बलेन महता वृतः ॥२८॥
ततो दुंदुभि निर्घोषह् पर्जन्य निनद उपमः ॥२९॥
शुश्रुवे शन्ख शब्दश् च प्रयाते वाहिनी पतौ । निनदन्तः स्वरान् घोरान् राक्षसा जग्मुर् अग्रतः ॥३०॥
भीम रूपा महा कायाह् प्रहस्तस्य पुरह् सराः । नरान्तकः कुम्भहनुर्महानादः समुन्नतः ॥३१॥
प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् । व्यूढेन एव सुघोरेण पूर्व द्वारात् स निर्ययौ ॥३२॥
गज यूथ निकाशेन बलेन महता वृतः । सागर प्रतिम ओघेन वृतस् तेन बलेन सः ॥३३॥
प्रहस्तो निर्ययौ तूर्णम् क्रुद्धह् काल अन्तक उपमः । तस्य निर्याण घोषेण राक्षसानाम् च नर्दताम् ॥३४॥
लन्कायाम् सर्व भूतानि विनेदुर् विकृतैह् स्वरैः । व्यभ्रम् आकाशम् आविश्य मांस शोणित भोजनाः ॥३५॥
मण्डलान्य् अपसव्यानि खगाश् चक्रू रथम् प्रति । वमन्त्यह् पावक ज्वालाह् शिवा घोरा ववाशिरे ॥३६॥
अन्तरिक्षात् पपात उल्का वायुश् च परुषो ववौ । अन्योन्यम् अभिसम्रब्धा ग्रहाश् च न चकाशिरे ॥३७॥
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः । ववर्षू रुधिरम् च अस्य सिषिचुश् च पुरह् सरान् ॥३८॥
केतु मूर्धनि गृध्रो अस्य विलीनो दक्षिणा मुखः । नदन्नुभयतः पार्श्वं समग्रामहरत्प्रभाम् ॥३९॥
सारथेर् बहुशसः च अस्य सम्ग्रामम् अवगाहतः । प्रतोदो न्यपतद्द् हस्तात् सूतस्य हय सादिनः ॥४०॥
निर्याण श्रीश् च या अस्य आसीद् भास्वरा च सुदुर्लभा । सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥४१॥
प्रहस्तम् त्व् अभिनिर्यान्तम् प्रख्यात बल पौरुषम् । युधि नाना प्रहरणा कपि सेना अभ्यवर्तत ॥४२॥
अथ घोषह् सुतुमुलो हरीणाम् समजायत । वृक्षान् आरुजताम् चैव गुर्वीश् च अगृह्णताम् शिलाः ॥४३॥
नदताम् राक्षसानां च वानराणाम् च गर्जताम् । उभे प्रमुदिते सैन्ये रक्षो गण वन ओकसाम् ॥४४॥
वेगितानाम् समर्थानाम् अन्योन्य वध कान्क्षिणाम् । परस्परम् च आह्वयताम् निनादह् श्रूयते महान् ॥४५॥
ततः प्रहस्तः कपि राज वाहिनीम् । अभि प्रतस्थे विजयाय दुर्मतिः । विवृद्ध वेगाम् च विवेश ताम् चमूम् । यथा मुमूर्षुह् शलभो विभावसुम् ॥४६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः ॥