तद् दृष्ट्वा सुमहत् कर्म कृतम् वानर सत्तमैः । क्रोधम् आहारयाम् आस युधि तीव्रम् अकम्पनः ॥१॥
षट्पञ्चाशः सर्गः 6.56
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
क्रोध मूर्चित रूपस् तु ध्नुवन् परम कार्मुकम् । दृष्ट्वा तु कर्म शत्रूणाम् सारथिम् वाक्यम् अब्रवीत् ॥२॥
तत्र एव तावत् त्वरितम् रथम् प्रापय सारथे । एते अत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे ॥३॥
एते अत्र बलवन्तो हि भीम कायाश् च वानराः । द्रुम शैल प्रहरणास् तिष्ठन्ति प्रमुखे मम ॥४॥
एतान् निहन्तुम् इच्चामि समर श्लाघिनो ह्य् अहम् । एतैः प्रमथितम् सर्वम् दृश्यते राक्षसम् बलम् ॥५॥
ततः प्रजवित अश्वेन रथेन रथिनाम् वरः । हरीन् अभ्यहनत् क्रोधात् शर जालैर् अकम्पनः ॥६॥
न स्थातुम् वानराह् शेकुह् किम् पुनर् योद्धुम् आहवे । अकम्पन शरैर् भग्नाह् सर्व;एव प्रदुद्रुवुः ॥७॥
तान् मृत्यु वशम् आपन्नान् अकम्पन वशम् गतान् । समीक्ष्य हनुमान् ज्नातीन् उपतस्थे महा बलः ॥८॥
तम् महा प्लवगम् दृष्ट्वा सर्वे प्लवग यूथपाः । समेत्य समरे वीराह् सहिताह् पर्यवारयन् ॥९॥
व्यवस्थितम् हनूमन्तम् ते दृष्ट्वा हरि यूथपाः । बभूवुर् बलवन्तो हि बलवन्तम् उपाश्रिताः ॥१०॥
अकम्पनस् तु शैल आभम् हनूमन्तम् अवस्थितम् । महा इन्द्र;इव धाराभिह् शरैर् अभिववर्ष ह ॥११॥
अचिन्तयित्वा बाण ओघान् शरीरे पतितान् शितान् । अकम्पन वध अर्थाय मनो दध्रे महा बलः ॥१२॥
स प्रहस्य महा तेजा हनूमान् मारुत आत्मजः । अभिदुद्राव तद् रक्षह् कम्पयन्न् इव मेदिनीम् ॥१३॥
तस्य अभिनर्दमानस्य दीप्यमानस्य तेजसा । बभूव रूपम् दुर्धर्षम् दीप्तस्य इव विभावसोः ॥१४॥
आत्मानम् त्व् अप्रहरणम् ज्नात्वा क्रोध समन्वितः । शैलम् उत्पाटयाम् आस वेगेन हरि पुम्गवः ॥१५॥
तम् गृहीत्वा महा शैलम् पाणिना एकेन मारुतिः । विनद्य सुमहा नादम् भ्रामयाम् आस वीर्यवान् ॥१६॥
ततस् तम् अभिदुद्राव राक्षस इन्द्रम् अकम्पनम् । यथा हि नमुचिम् सम्ख्ये वज्रेण इव पुरम् दरः ॥१७॥
अकम्पनस् तु तद् दृष्ट्वा गिरि शृन्गम् समुद्यतम् । दूराद् एव महा बाणैर् अर्ध चन्द्रैर् व्यदारयत् ॥१८॥
तत् पर्वत अग्रम् आकाशे रक्षो बाण विदारितम् । विकीर्णम् पतितम् दृष्ट्वा हनूमान् क्रोध मूर्चितः ॥१९॥
सो अश्व कर्णम् समासाद्य रोष दर्प अन्वितो हरिः । तूर्णम् उत्पाटयाम् आस महा गिरिम् इव उच्च्रितम् ॥२०॥
तम् गृहीत्वा महा स्कन्धम् सो अश्व कर्णम् महा द्युतिः । प्रगृह्य परया प्रीत्या भ्रामयामास भूतले ॥२१॥
प्रधावन्न् उरु वेगेन प्रभन्जंस् तरसा द्रुमान् । हनूमान् परम क्रुद्धश् चरणैर् दारयत् क्षितिम् ॥२२॥
गजांसः च सगज आरोहान् सरथान् रथिनस् तथा । जघान हनुमान् धीमान् राक्षसांश् च पदातिकान् ॥२३॥
तम् अन्तकम् इव क्रुद्धम् समरे प्राण हारिणम् । हनूमन्तम् अभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥२४॥
तम् आपतन्तम् सम्क्रुद्धम् राक्षसानाम् भय आवहम् । ददर्श अकम्पनो वीरश् चुक्रोध च ननाद च ॥२५॥
स चतुर्दशभिर् बाणैह् शितैर् देह विदारणैः । निर्बिभेद हनूमन्तम् महा वीर्यम् अकम्पनः ॥२६॥
स तथा प्रतिविद्धस् तु बह्वीभिह् शर वृष्टिभिः । हनूमान् ददृशे वीरह् प्ररूढ;इव सानुमान् ॥२७॥
विरराज महावीर्यो महाकायो महाबलः । पुष्पिताशोकसम्काशो विधूम इव पावकः ॥२८॥
ततो अन्यम् वृक्षम् उत्पाट्य कृत्वा वेगम् अनुत्तमम् । शिरस्य् अभिजघान आशु राक्षस इन्द्रम् अकम्पनम् ॥२९॥
स वृक्षेण हतस् तेन सक्रोधेन महात्मना । राक्षसो वानर इन्द्रेण पपात स ममार च ॥३०॥
तम् दृष्ट्वा निहतम् भूमौ राक्षस इन्द्रम् अकम्पनम् । व्यथिता राक्षसाह् सर्वे क्षिति कम्प;इव द्रुमाः ॥३१॥
त्यक्त प्रहरणाह् सर्वे राक्षसास् ते पराजिताः । लङ्काम् अभिययुस् त्रस्ता वानरैस् तैर् अभिद्रुताः ॥३२॥
ते मुक्त केशाः सम्भ्रान्ता भग्न मानाह् पराजिताः । स्रवत् श्रम जलैर् अन्गैह् श्वसन्तो विप्रदुद्रुवुः ॥३३॥
अन्योन्यम् प्रममन्तुस् ते विविशुर् नगरम् भयात् । पृष्ठतस् ते सुसम्मूढाह् प्रेक्षमाणा मुहुर् मुहुः ॥३४॥
तेषु लन्काम् प्रविष्टेषु राक्षसेषु महा बलाः । समेत्य हरयह् सर्वे हनूमन्तम् अपूजयन् ॥३५॥
सो अपि प्रहृष्टस् तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । हनूमान् सत्त्व सम्पन्नो यथा अर्हम् अनुकूलतः ॥३६॥
विनेदुसः च यथा प्राणम् हरयो जित काशिनः । चकर्षुसः च पुनस् तत्र सप्राणान् एव राक्षसान् ॥३७॥
स वीर शोभाम् अभजन् महा कपिः । समेत्य रक्षांसि निहत्य मारुतिः । महा असुरम् भीमम् अमित्र नाशनम् । यथैव विष्णुर् बलिनम् चमू मुखे ॥३८॥
अपूजयन् देव गणास् तदा कपिम् । स्वयम् च रामो अतिबलश् च लक्ष्मणह् । तथैव सुग्रीव मुखाह् प्लवम् गमा । विभीषणश् चैव महा बलस् तदा ॥३९॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षट्पञ्चाशः सर्गः ॥