वज्रदम्र अक्षम् निहतम् श्रुत्वा रावणो राक्षस ईश्वरः । बल अध्यक्षम् उवाच इदम् कृत अन्जलिम् उपस्थितम् ॥१॥
पञ्चपञ्चशः सर्गः 6.55
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
शीघ्रम् निर्यान्तु दुर्धर्षा राक्षसा भीम विक्रमाः । अकम्पनम् पुरस् कृत्य सर्व शस्त्र प्रकोविदम् ॥२॥
एष शास्ता च गोप्ता च नेता च युधि सत्तमः । भूतिकामश्च मे नित्यं नित्यम् च समरप्रियः ॥३॥
एष जेष्यति काकत्थ्सौ सुग्रीवं च महाबलम् । वानरांश्चापरान् घोरान् हनिष्यति न संशयः ॥४॥
परिगृह्य स तामाज्ञाम् रावणस्य महाबलः । बलं सम्प्रेरयामास तदा लघुपराक्रमः ॥५॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः । निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः ॥६॥
रथमास्थाय विपुलं तप्तकाञ्चनभूषणम् । मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ॥७॥
न हि कम्पयितुम् शक्यह् सुरैऋअपि महा मृधे ॥८॥
अकम्पनस् ततस् तेषाम् आदित्य;इव तेजसा । तस्य निधावमानस्य सम्रब्धस्य युयुत्सया ॥९॥
अकस्माद् दैन्यम् आगच्चद्द् हयानाम् रथ वाहिनाम् । व्यस्फुरन् नयनम् च अस्य सव्यम् युद्ध अभिनन्दिनः ॥१०॥
विवर्णो मुख वर्णश् च गद्गदश् च अभवत् स्वरः । अभवत् सुदिने च अपि दुर्दिने रूक्ष मारुतम् ॥११॥
ऊचुह् खगा मृगाह् सर्वे वाचह् क्रूरा भय आवहाः । स सिम्ह उपचित स्कन्धह् शार्दूल सम विक्रमः ॥१२॥
तान् उत्पातान् अचिन्त्य एव निर्जगाम रण आजिरम् । तदा निर्गच्चतस् तस्य रक्षसह् सह राक्षसैः ॥१३॥
बभूव सुमहान् नादह् क्षोभयन्न् इव सागरम् । तेन शब्देन वित्रस्ता वानराणाम् महा चमूः ॥१४॥
द्रुम शैल प्रहरणा योद्धुम् समवतिष्ठत । तेषाम् युद्धम् महा रौद्रम् सम्जज्ने कपि रक्षसाम् ॥१५॥
राम रावणयोऋअर्थे समभित्यक्त जीविनाम् । सर्वे ह्य् अतिबलाह् शूराह् सर्वे पर्वत सम्निभाः ॥१६॥
हरयो राक्षसाश् चैव परस्पर जिघंसवः । तेषाम् विनर्दाताम् शब्दह् सम्युगे अतितरस्विनाम् ॥१७॥
शुश्रुवे सुमहान् क्रोधाद् अन्योन्यम् अभिगर्जताम् । रजसः च अरुण वर्ण आभम् सुभीमम् अभवद् भृशम् ॥१८॥
उद्धूतम् हरि रक्षोभिः सम्रुरोध दिशो दश । अन्योन्यम् रजसा तेन कौशेय उद्धूत पाण्डुना ॥१९॥
सम्वृतानि च भूतानि ददृशुऋन रण अजिरे । न ध्वजो न पताका वा वर्म वा तुरगो अपि वा ॥२०॥
आयुधम् स्यन्दनम् वा अपि ददृशे तेन रेणुना । शब्दसः च सुमहांस् तेषाम् नर्दताम् अभिधावताम् ॥२१॥
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे । हरीन् एव सुसम्क्रुद्धा हरयो जघ्नुऋआहवे ॥२२॥
राक्षसाश् च अपि रक्षांसि निजघ्नुस् तिमिरे तदा । ते परांश्च विनिघ्नन्तः स्वांश्च वानरराक्षसाः ॥२३॥
रुधिरार्द्राम् तदा चक्रुर्म हीं पङ्कानुलेपनाम् । ततस् तु रुधिर ओघेण सिक्तम् व्यपगतम् रजः ॥२४॥
शरीर शव सम्कीर्णा बभूव च वसुम् धरा । द्रुम शक्ति शिला प्रासैऋगदा परिघ तोमरैः ॥२५॥
हरयो राक्षसास् तूर्णम् जघ्नुऋअन्योन्यम् ओजसा । बाहुभिः परिघा आकारैऋयुध्यन्तह् पर्वत उपमाः ॥२६॥
हरयो भीम कर्माणो राक्षसान् जघ्नुऋआहवे । राक्षसासः च अपि सम्क्रुद्धाह् प्रास तोमर पाणयः ॥२७॥
कपीन् निजघ्निरे तत्र शस्त्रैह् परम दारुणैः । अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः ॥२८॥
संहर्षयति तान्सर्वान्राक्षसान् भीमविक्रमान् । हरयस् त्व् अपि रक्षांसि महा द्रुम महा अश्मभिः ॥२९॥
विदारयन्त्य् अभिक्रम्य शस्त्राण्य् आच्चिद्य वीर्यतः । एतस्मिन्न् अन्तरे वीरा हरयह् कुमुदो नलः ॥३०॥
मैन्दसः च परम क्रुद्धश् चक्रुऋवेगम् अनुत्तमम् । ते तु वृक्षैऋमहा वेगा राक्षसानाम् चमू मुखे ॥३१॥
कदनम् सुमह चक्रुर् लीलया हरि यूथपाः । ममन्थू राक्षसान् सर्वे नानाप्रहरणैर्भृशम् ॥३२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चपञ्चशः सर्गः ॥