रामायणम्

चतुःपचाशः सर्गः 6.54

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

स्वबलस्य च घातेन अङ्गदस्य बलेन च । राषसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥१॥

विस्फार्य च धनुर्घोरं शक्राशनिसमप्रभम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥२॥

राक्षसाश्चापि मुख्यास्ते रथैश्च समवस्थिताः । नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥३॥

वानराणाम् च शूरास्तु ते सर्वे प्लवगर्षभाः । आयुध्यन्त शिलाहस्तः समवेताः समन्ततः ॥४॥

तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् । राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥५॥

वानराश्चैव रक्षसु गिरिवृक्षान् महाशिलाः । प्रवीराः पातयामासुर्मत्तवारणसम्निभाः ॥६॥

शूराणाम् युध्यमानानाम् समरेष्वनिवर्त्नाम् । तद्रक्षसगणानाम् च स्युद्धं समवर्तत ॥७॥

प्रभग्नशिरसः केचिछिन्नैः पादैश्च बाहुभिः । सस्त्रैरर्दितदेहास्तु रुधिरेण समुक्षिताः ॥८॥

हरयो राक्षसाश्चैन शेरते गाम् समाश्रिताः । कङ्कगृध्राबलाढ्यश्च गोमायुकुलसंकुलाः ॥९॥

कबन्धानि समुत्पेतुर्भीमाणाम् भीषणानि वै । भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ॥१०॥

वानरा राक्षसाश्चापि निपेतुस्तत्र भूतले । ततो वानरसैन्येन हन्यमानम् निशाचरम् ॥११॥

प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यत । राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः ॥१२॥

दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् । प्रविवेश धनुष्पाणि स्त्रासयन् हरिवाहिनीम् ॥१३॥

शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः । बिभेद वानरांस्तत्र सप्तष्टौ नव पञ्च च ॥१४॥

विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् । त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तदेहिनः ॥१५॥

अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः । ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा ॥१६॥

क्रोधेन वज्रदंष्ट्रम् त मुदीक्षन्तमुदैक्षत । वज्रदम्ष्ट्रोऽङ्गदस्चोभौ योयुध्येते परस्परम् ॥१७॥

चेरतुः परमक्रुद्धौ हरिमत्तगजाविव । ततः शतसहस्रेण हरिपुत्रं महाबलम् ॥१८॥

जघान मर्मदेशेषु शरैरग्निशिखोपमैः । रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः ॥१९॥

चिक्षेप वज्रदंष्ट्रय वृक्षं भीमपराक्रमः । दृष्ट्वापतन्तं तम् वृक्षमसंभ्रान्तश्च राक्षसः ॥२०॥

चिछेद बहुधा सोऽपि मथितः प्रापतद्भुवि । तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान् ॥२१॥

गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत । तमापतन्तं दृष्ट्वा स रथादाप्लुत्य वीर्यवान् ॥२२॥

गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत । अङ्गदेन शिला क्षिप्ता गत्वा तु रणमूर्धनि ॥२३॥

सचक्रकूबरं साश्वं प्रममाथ रथं तदा । ततोऽन्यच्छिखरं गृह्य विपुलं द्रुमभूषितम् ॥२४॥

वज्रदंष्ट्रस्य शिरसि पातयामास वानरः । अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्छितः ॥२५॥

मूहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् । संलब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ॥२६॥

जघान परमक्रुद्धो वक्षोदेशे निशाचरः । गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमकुर्वत ॥२७॥

अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ । रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितशमौ ॥२८॥

बभूवतुः सुविक्रन्तावङ्गारक बुधाविव । ततः परमतेजस्वी अङ्गदः प्लवगर्षभः ॥२९॥

उत्पाट्य वृक्षं स्थितवान् बहुपुष्प फलाचितम् । जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ॥३०॥

किङ्किणाजालसंभन्नम् चर्मणा च परिष्कृतम् । चित्रांश्च रुचिरान्मार्गांश्चेरतुः कपिराक्षसौ ॥३१॥

जघ्नतुश्च तदान्योन्यम् नर्दन्तौ जयाकाङिक्षिणौ । व्रणैः समुथैः शोभेतां पुष्पिताविव किंशुकौ ॥३२॥

युध्यमानौ परिश्रानौ जानुभ्यामवनीम् गतौ । निमेषान्तरमात्रेण अङ्गदह् कपिकुञ्जरः ॥३३॥

उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः । निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ॥३४॥

जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः । रुधिरोक्षितगात्रस्य बभूव पतितम् द्विधा ॥३५॥

तच्च तस्य परीताक्षं शुभम् खड्गहतम् शिरः । वज्रदंष्ट्रम् हतम् दृष्ट्वा राक्षसा भयमोहिताः ॥३६॥

त्रस्तह्यभ्यद्रवन् लङ्काम् वध्यमानाः प्लवङ्गमैः । विषण्ळवदना दीना ह्रिया किंचिदवाङ्मुखाः ॥३७॥

निहत्य तम् वज्रधरप्रतापः । स वालिसूनुः कपिसैन्यमध्ये । जगाम हर्षम् महितो महाबलः । सहस्रनेत्रस्त्रिदशैरिवावृतः ॥३८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुःपचाशः सर्गः ॥

Listen to the sarga
0:00