धूम्राक्षं निहतम् दृष्ट्वा रावणो राक्षसेश्वरः । क्रोधेन महताविष्टो निःश्वसन्नुरगो यथा ॥१॥
त्रिपञ्चशः सर्गः 6.53
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
दीर्घमुष्टं विनिःश्वस्य क्रोधेन कलुषीकृतः । अब्रवीदाक्षसं क्रूरं वज्रदंष्ट्रं महाबलम् ॥२॥
गच्छत्वं वीर निर्याहि राक्षनैः परिवारितः । जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥३॥
तथेत्युक्त्वा क्रुततरं मायावी राक्षसेश्वरः । निर्जगाम बलैः सार्थं बहुभिः परिवारितः ॥४॥
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः । पताकाध्वजचित्रैश्च रथैश्च समलंकृतः ॥५॥
ततो विचित्रकेयूरमुकुटेन विभूषितः । तनुत्रं च समावृत्य सधनुर्निर्ययौ द्रुतम् ॥६॥
पताकालंकृतं दीप्तं तप्तकाञ्चनभूषितम् । रथम् प्रदक्षिणम् कृत्वा समारोहच्चमूपतिः ॥७॥
यष्टिभिस्तोमरैश्चित्रैः श्लक्ष्लैश्च मुसलैरपि । भिन्दिपालैश्च चापैश्च शक्तिभिः पट्टिशैरपि ॥८॥
खड्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः । पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥९॥
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः । गज मदोत्कटाः शूराश्चलन्त इव पर्वता ॥१०॥
ते युद्धकुशला रूढास्तोमराङ्कुवाः । अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ॥११॥
तद्राक्षसबलं सर्वं विप्रस्थितमशोभत । प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥१२॥
निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः । तेषां निष्क्रममाणानामशुभं समजायत ॥१३॥
आकाशाद्विघनात्तीव्रादुल्मुका न्यपतंस्तदा । वमन्तः पावकज्वालाः शिवा घोरा ववाशिरे ॥१४॥
व्याहरन्त मृगा घोरा रक्षसां निधनं तदा । समापतन्तो योधास्तु प्रास्खलंस्तत्र दारुणम् ॥१५॥
एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः । धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥१६॥
तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः । प्रणेदुः सुमहानादान् पूरयंश्च दिशो दशः ॥१७॥
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह । घोराणाम् भीमरूपाणामन्योन्यवधकान्क्षिणाम् ॥१८॥
निष्पतन्तो महोत्साहा भिन्नदेहशोरोधराः । रुधिरोक्षितसर्वाङ्गा न्यपतन्धरणीतले ॥१९॥
केचिदन्योन्यमासाद्य शूराः परिघपाणयः । चिक्षिपुर्विविधान् शस्त्रान्समरेष्वनिवर्तिनः ॥२०॥
द्रुमाणां च शिलानां च शस्त्राणां चापि निःस्वनः । श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥२१॥
रथनेमि स्वनस्तत्र धनुषश्चापि घोरवत् ॥२२॥
शङ्खभेरीमृदङ्गनां बभूव तुमुलः स्वनः । केचिदस्त्राणि संत्यज्य बाहुयुद्धमकुर्वत ॥२३॥
तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि । जानुभिश्च हताः केचिद्भग्नदेहाश्च राक्षसाः ॥२४॥
शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः । वज्रदंष्ट्रो भृशं बानै रणे वित्रासयन् हरीन् ॥२५॥
च्चार लोकसम्हारे पाशहस्त इवान्तकः । बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे ॥२६॥
जघ्नर्वानरसैन्यानि राक्षसाः क्रोधमूर्चिताः । जघ्ने तान् राक्षसान् सर्वान् धृष्टो वालिसुतो रणे ॥२७॥
क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः । तान् राक्षसगणान् सर्वान्वऋक्षमुद्यम्य वीर्यवान् ॥२८॥
अङ्गदह् क्रोधताम्राक्षः सिम्हह् क्षुद्रमृगानिव । चकार कदनम् घोरम् शक्रतुल्यपराक्रमः ॥२९॥
अङ्गदाभिहतास्तत्त राक्षसा भीमविक्रमाः । विभिन्नशिरसः पेतुर्निकृत्ता इव पादपाः ॥३०॥
रथैश्चित्रैर्ध्यजैरश्वैः शरीर्हैररिरक्षसाम् । रुधिरौघेण संचन्ना भूमिर्भयकरा तदा ॥३१॥
हारकेयूरवस्त्रैश्च चत्रैश्च समलम्कृता । भूमिर्भाति रणे तत्र शारदीव यथा निशा ॥३२॥
अङ्गदस्य च वेगेन तद्राक्षसबलम् महत् । प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥३३॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्ध काण्डे त्रिपञ्चशः सर्गः ॥