रामायणम्

द्विपञ्चशः सर्गः 6.52

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

धूम्र अक्षम् प्रेक्ष्य निर्यान्तम् राक्षसम् भीम निस्वनम् । विनेदुर् वानराह् सर्वे प्रहृष्टा युद्ध कान्क्षिणः ॥१॥

तेषाम् तु तुमुलम् युद्धम् सम्जज्ने हरि रक्षसाम् । अन्योन्यम् पादपैर् घोरैर् निघ्नतम् शूल मुद्गरैः ॥२॥

राक्षसैर् वानरा घोरा विनिकृत्ताह् समन्ततः । वानरै राक्षसाश् च अपि द्रुमैर् भूमौ समी कृताः ॥३॥

राक्षसाश् च अपि सम्क्रुद्धा वानरान् निशितैह् शरैः । विव्यधुर् घोर सम्काशैह् कन्क पत्रैर् अजिह्मगैः ॥४॥

ते गदाभिसः च भीमाभिह् पट्टसैह् कूट मुद्गरैः । घोरैसः च परिघैसः चित्रैस् त्रिशूलैसः च अपि संशितैः ॥५॥

विदार्यमाणा रक्षोभिर् वानरास् ते महा बलाः । अमर्षाज् जनित उद्धर्षासः चक्रुः कर्माण्य् अभीतवत् ॥६॥

शर निर्भिन्न गात्रास् ते शूल निर्भिन्न देहिनः । जगृहुस् ते द्रुमांस् तत्र शिलाश् च हरि यूथपाः ॥७॥

ते भीम वेगा हरयो नर्दमानास् ततस् ततः । ममन्थू राक्षसान् भीमान् नामानि च बभाषिरे ॥८॥

तद् बभूव अद्भुतम् घोरम् युद्धम् वानर रक्षसाम् । शिलाभिर् विविधाभिश् च बहु शाखैश् च पादपैः ॥९॥

राक्षसा मथिताह् केचिद् वानरैर् जित काशिभिः । ववर्षू रुधिरम् केचिन् मुखै रुधिर भोजनाः ॥१०॥

पार्श्वेषु दारिताह् केचित् केचिद् राशी कृता द्रुमैः । शिलाभिसः चूर्णिताः केचित् केचिद् दन्तैर् विदारिताः ॥११॥

ध्वजैर् विमथितैर् भग्नैः खरैश् च विनिपातितैः । रथैर् विध्वंसितैसः च अपि पतितै रजनी चरैः ॥१२॥

गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् । मथितैर्वाजिभिः कीर्णम् सारोहैर्वसुधातलम् ॥१३॥

वानरैर् भीम विक्रान्तैर् आप्लुत्य आप्लुत्य वेगितैः । राक्षसाः करजैस् तीक्ष्णैर् मुखेषु विनिकर्तिताः ॥१४॥

विवर्ण वदना भूयो विप्रकीर्ण शिरो रुहाः । मूढाः शोणित गन्धेन निपेतुर् धरणी तले ॥१५॥

नये तु परम क्रुद्धा राक्षसा भीम विक्रमाः । तलैर् एव अभिधावन्ति वज्र स्पर्श समैर् हरीन् ॥१६॥

वनरैर् आपतन्तस् ते वेगिता वेगवत्तरैः । मुष्टिभिसः चरणैर् दन्तैः पादपैसः चाप पोथिताः ॥१७॥

सन्यम् तु विद्रुतम् दृष्ट्वा धूम्र अक्षो राक्षस ऋषभः । रोषेण कदनम् चक्रे वानराणाम् युयुत्सताम् ॥१८॥

प्रासैः प्रमथिताः केचिद् वानराः शोणित स्रवाः । मुद्गरैर् आहताः केचित् पतिता धरणी तले ॥१९॥

परिघैर् मथितह् केचिद् भिण्डि पालैर् विदारिताः । पट्टसैर् आहताह् केचिद् विह्वलन्तो गत असवः ॥२०॥

केचिद् विनिहता भूमौ रुधिर आर्द्रा वन ओकसः । केचिद् विद्राविता नष्टाह् सम्क्रुद्धै राक्षसैर् युधि ॥२१॥

विभिन्न हृदयाः केचिद् एक पार्श्वेन शायिताः । विदारित अस्त्र शूलै च केचिद् आन्त्रैर् विनिस्रुताः ॥२२॥

तत् सुभीमम् महद् युद्धम् हरि राकस सम्कुलम् । प्रबभौ शस्त्र बहुलम् शिला पादप सम्कुलम् ॥२३॥

धनुर् ज्या तन्त्रि मधुरम् हिक्का ताल समन्वितम् । मन्द्र स्तनित सम्गीतम् युद्ध गान्धर्वम् आबभौ ॥२४॥

धूम्र अक्षस् तु धनुष् पाणिर् वानरान् रण मूर्धनि । हसन् विद्रावयाम् आस दिशस् तान् शर वृष्टिभिः ॥२५॥

धूम्र अक्षेण अर्दितम् सैन्यम् व्यथितम् दृश्य मारुतिः । अभ्यवर्तत सम्क्रुद्धह् प्रगृह्य विपुलाम् शिलाम् ॥२६॥

क्रोधाद् द्विगुण ताम्र अक्षह् पितृ तुल्य पराक्रमः । शिलाम् ताम् पातयाम् आस धूम्र अक्षस्य रथम् प्रति ॥२७॥

आपतन्तीम् शिलाम् दृष्ट्वा गदाम् उद्यम्य सम्भ्रमात् । रथाद् आप्लुत्य वेगेन वसुधायाम् व्यतिष्ठत ॥२८॥

सा प्रमथ्य रथम् तस्य निपपात शिला भुवि । सचक्र कूबरम् साश्वम् सध्वजम् सशर आसनम् ॥२९॥

स भन्क्त्वा तु रथम् तस्य हनूमान् मारुत आत्मजः । रक्षसाम् कदनम् चक्रे सस्कन्ध विटपैर् द्रुमैः ॥३०॥

विभिन्न शिरसो भूत्वा राक्षसाह् शोणित उक्षिताः । द्रुमैः प्रमथितासः च अन्ये निपेतुर् धरणी तले ॥३१॥

विद्राव्य राक्षसम् सैन्यम् हनूमान् मारुत आत्मजः । गिरेः शिखरम् आदाय धूम्र अक्षम् अभिदुद्रुवे ॥३२॥

तम् आपतन्तम् धूम्र अक्षो गदाम् उद्यम्य वीर्यवान् । विनर्दमानः सहसा हनूमन्तम् अभिद्रवत् ॥३३॥

ततः क्रुद्धस् तु वेगेन गदाम् ताम् बहु कण्टकाम् । पातयाम् आस धूम्र अक्षो मस्तके तु हनूमतः ॥३४॥

ताडितह् स तया तत्र गदया भीम रूपया । स कपिर् मारुत बलस् तम् प्रहारम् अचिन्तयन् ॥३५॥

धूम्र अक्षस्य शिरो मध्ये गिरि शृन्गम् अपातयत् । स विह्वलित सर्व अन्गो गिरि शृन्गेण ताडितः ॥३६॥

पपात सहसा भूमौ विकीर्ण;इव पर्वतः । धूम्र अक्षम् निहतम् दृष्ट्वा हत शेषा निशा चराः ॥३७॥

त्रस्ताः प्रविविशुर् लन्काम् वध्यमानाः प्लवम् गमैः । स तु पवन सुतो निहत्य शत्रुम् । क्षतज वहाह् सरितश् च सम्विकीर्य । रिपु वध जनित श्रमो महात्मा । मुदम् अगमत् कपिभिश् च पूज्यमानः ॥३८॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्विपञ्चशः सर्गः ॥

Listen to the sarga
0:00