तेषाम् सुतुमुलम् शब्दम् वानराणाम् तरस्विनाम् । नर्दताम् राक्षसैह् सार्धम् तदा शुश्राव रावणः ॥१॥
एकपञ्चशः सर्गः 6.51
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स्निग्ध गम्भीर निर्घोषम् श्रुत्वा स निनदम् भृशम् । सचिवानाम् ततस् तेषाम् मध्ये वचनम् अब्रवीत् ॥२॥
यथा असौ सम्प्रहृष्टानाम् वानराणाम् समुत्थितः । बहूनाम् सुमहान् नादो मेघानाम् इव गर्जताम् ॥३॥
व्यक्तम् सुमहती प्रीतिर् एतेषाम् न अत्र संशयः । तथा हि विपुलैर् नादैश् चुक्षुभे वरुण आलयः ॥४॥
तौ तु बद्धौ शरैस् तीष्क्णैर् भ्रातरौ राम लक्ष्मणौ । अयम् च सुमहान् नादह् शन्काम् जनयति इव मे ॥५॥
एवम् च वचनम् च उक्त्वा मन्त्रिणो राक्षस ईश्वरः । उवाच नैरृतांस् तत्र समीप परिवर्तिनः ॥६॥
ज्नायताम् तूर्णम् एतषाम् सर्वेषाम् वन चारिणाम् । शोक काले समुत्पन्ने हर्ष कारणम् उत्थितम् ॥७॥
तथा उक्तास् तेन सम्भ्रान्ताह् प्राकारम् अधिरुह्य ते । ददृशुह् पालिताम् सेनाम् सुग्रीवेण महात्मना ॥८॥
तौ च मुक्तौ सुघोरेण शर बन्धेन राघवौ । समुत्थितौ महा भागौ विषेदुह् प्रेक्ष्य राक्षसाः ॥९॥
सम्त्रस्त हृदया सर्वे प्राकाराद् अवरुह्य ते । विवर्ण रक्षनाः घोरा राक्षस इन्द्रम् उपस्थिताः ॥१०॥
तद् अप्रियम् दीन मुखा रावणस्य निशा चराः । कृत्स्नम् निवेदयाम् आसुर् यथावद् वाक्य कोविदाः ॥११॥
यौ ताव् इन्द्रजिता युद्धे भ्रातरौ राम लक्ष्मणौ । निबद्धौ शर बन्धेन निष्प्रकम्प भुजौ कृतौ ॥१२॥
विमुक्तौ शर बन्धेन तौ दृश्येते रण अजिरे । पाशान् इव गजाउ चित्त्वा गज इन्द्र सम विक्रमौ ॥१३॥
तत् श्रुत्वा वचनम् तेषाम् राक्षस इन्द्रो महा बलः । चिन्ता शोक समाक्रान्तो विषण्ण वदनो अब्रवीत् ॥१४॥
घोरैर् दत्त वरैर् बद्धौ शरैर् आशी विष उमपैः । अमोघैह् सूर्य सम्काशैह् प्रमथ्य इन्द्रजिता युधि ॥१५॥
तम् अस्त्र बन्धम् आसाद्य यदि मुक्तौ रिपू मम । संशयस्थम् इदम् सर्वम् अनुपश्याम्य् अहम् बलम् ॥१६॥
निष्फलाह् खलु सम्वृत्ताह् शरा वासुकि तेजसः । आदत्तम् यैस् तु सम्ग्रामे रिपूणाम् मम जीवितम् ॥१७॥
एवम् उक्त्वा तु सम्क्रुद्धो निश्वसन्न् उरगो यथा । अब्रवीद् रक्षसाम् मध्ये धूम्र अक्षम् नाम राकसम् ॥१८॥
बलेन महता युक्तो रक्षसाम् भीम कर्मणाम् । त्वम् वधाय अभिनिर्याहि रामस्य सह वानरैः ॥१९॥
एवम् उक्तस् तु धूम्र अक्षो राक्षस इन्द्रेण धीमता । कृत्वा प्रणामम् सम्हृष्टो निर्जगाम नृप आलयात् ॥२०॥
अभिनिष्क्रम्य तद् द्वारम् बल अध्यक्षम् उवाच ह । त्वरयस्व बलम् तूर्णम् किम् चिरेण युयुत्सतः ॥२१॥
धूम्र अक्षस्य वचह् श्रुत्वा बल अध्यक्षो बल अनुगः । बलम् उद्योजयाम् आस रावणस्य आज्नया द्रुतम् ॥२२॥
ते बद्ध घण्टा बलिनो घोर रूपा निशा चराः । विनर्दमानाह् सम्हृष्टा धूम्र अक्षम् पर्यवारयन् ॥२३॥
विविध आयुध हस्ताश् च शूल मुद्गर पाणयः । गदाभिह् पट्टसैर् दण्डैर् आयसैर् मुसलैर् भृशम् ॥२४॥
परिघैर् भिण्डि पालैश् च भल्लैह् प्रासैह् परश्वधैः । निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा ॥२५॥
रथैह् कवचिनस् त्व् अन्ये ध्वजैश् च समलम्कृतैः । सुवर्ण जाल विहितैह् खरैश् च विविध आननैः ॥२६॥
हयैः परम शीघ्रैश् च गज इन्द्रैश् च मद उत्कटैः । निर्ययू राक्षस व्याघ्रा व्याघ्रा;इव दुरासदाः ॥२७॥
मृग सिम्ह मुखैर् युक्तम् खरैह् कनक भूषणैः । आरुरोह रथम् दिव्यम् धूम्र अक्षह् खर निस्वनः ॥२८॥
स निर्यातो महा वीर्यो धूम्र अक्षो राक्षसैर् वृतः । प्रहसन् पश्चिम द्वारम् हनूमान् यत्र यूथपः ॥२९॥
रथप्रवरमास्थाय खरयुक्तं खरस्वनम् । प्रयान्तम् तु महा घोरम् राक्षसम् भीम दर्शनम् ॥३०॥
अन्तरिक्ष गताह् क्रूराह् शकुनाह् प्रत्यवारयन् । रथ शीर्षे महा भीमो गृध्रश् च निपपात ह ॥३१॥
ध्वज अग्रे ग्रथिताश् चैव निपेतुह् कुणप अशनाः । रुधिर आर्द्रो महान् श्वेतह् कबन्धह् पतितो भुवि ॥३२॥
विस्वरम् च उत्सृजन् नादम् धूम्र अक्षस्य समीपतः । ववर्ष रुधिरम् देवह् संचचाल च मेदिनी ॥३३॥
प्रतिलोमम् ववौ वायुर् निर्घात सम निस्वनः । तिमिर ओघ आवृतास् तत्र दिशश् च न चकाशिरे ॥३४॥
स तु उत्पातांस् ततो दृष्ट्वा राक्षसानाम् भय आवहान् । प्रादुर् भूतान् सुघोरांश् च धूम्र अक्षो व्यथितो अभवत् ॥३५॥
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः । ततः सुभीमो बहुभिर् निशा चरैर् । र्वृतो अभिनिष्क्रम्य रण उत्सुको बली । ददर्श ताम् राघव बाहु पालिताम् । समुद्र कल्पाम् बहु वानरीम् चमूम् ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकपञ्चशः सर्गः ॥