रामायणम्

पञ्चशः सर्गः 6.50

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अथ उवाच महा तेजा हरि राजो महा बलः । किम् इयम् व्यथिता सेना मूढ वाता इव नौर् जले ॥१॥

सुग्रीवस्य वचह् श्रुत्वा वालि पुत्रो अन्गदो अब्रवीत् । न त्वम् पश्यसि रामम् च लक्ष्मणम् च महा बलम् ॥२॥

शर जाल आचितौ वीराव् उभौ दशरथ आत्मजौ । शर तल्पे महात्मानौ शयानाउ रुधिर उक्षितौ ॥३॥

अथ अब्रवीद् वानर इन्द्रह् सुग्रीवह् पुत्रम् अन्गदम् । न अनिमित्तम् इदम् मन्ये भवितव्यम् भयेन तु ॥४॥

विषण्ण वदना ह्य् एते त्यक्त प्रहरणा दिशः । प्रपलायन्ति हरयस् त्रासाद् उत्फुल्ल लोचनाः ॥५॥

अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः । विप्रकर्षन्ति च अन्योन्यम् पतितम् लन्घयन्ति च ॥६॥

एतस्मिन्न् अन्तरे वीरो गदा पाणिर् विभीषणः । सुग्रीवम् वर्धयाम् आस राघवम् च निरैक्षत ॥७॥

विभीषणम् तम् सुग्रीवो दृष्ट्वा वानर भीषणम् । ऋक्ष राजम् समीपस्थम् जाम्बवन्तम् उवाच ह ॥८॥

विभीषणो अयम् सम्प्राप्तो यम् दृष्ट्वा वानर ऋषभाः । विद्रवन्ति परित्रस्ता रावण आत्मज शन्कया ॥९॥

शीघ्रम् एतान् सुवित्रस्तान् बहुधा विप्रधावितान् । पर्यवस्थापय आख्याहि विभीषणम् उपस्थितम् ॥१०॥

सुग्रीवेण एवम् उक्तस् तु जाम्बवान् ऋक्ष पार्थिवः । वानरान् सान्त्वयाम् आस सम्निवर्त्य प्रहावतः ॥११॥

ते निवृत्ताह् पुनह् सर्वे वानरास् त्यक्त सम्भ्रमाः । ऋक्ष राज वचह् श्रुत्वा तम् च दृष्ट्वा विभीषणम् ॥१२॥

विभीषणस् तु रामस्य दृष्ट्वा गात्रम् शरैश् चितम् । लक्ष्मणस्य च धर्म आत्मा बभूव व्यथित इन्द्रियः ॥१३॥

जल क्लिन्नेन हस्तेन तयोर् नेत्रे प्रमृज्य च । शोक सम्पीडित मना रुरोद विललाप च ॥१४॥

इमौ तौ सत्त्व सम्पन्नौ विक्रान्तौ प्रिय सम्युगौ । इमाम् अवस्थाम् गमितौ राकसैह् कूट योधिभिः ॥१५॥

भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना । राक्षस्या जिह्मया बुद्ध्या चलिताव् ऋजु विक्रमौ ॥१६॥

शरैर् इमाव् अलम् विद्धौ रुधिरेण समुक्षितौ । वसुधायाम् इम सुप्तौ दृश्येते शल्यकाव् इव ॥१७॥

ययोर् वीर्यम् उपाश्रित्य प्रतिष्ठा कान्क्षिता मया । ताव् उभौ देह नाशाय प्रसुप्तौ पुरुष ऋषभौ ॥१८॥

जीवन्न् अद्य विपन्नो अस्मि नष्ट राज्य मनो रथः । प्राप्त प्रतिज्नश् च रिपुह् सकामो रावणह् कृतः ॥१९॥

एवम् विलपमानम् तम् परिष्वज्य विभीषणम् । सुग्रीवः सत्त्व सम्पन्नो हरि राजो अब्रवीद् इदम् ॥२०॥

राज्यम् प्राप्स्यसि धर्मज्न लन्कायाम् न अत्र संशयः । रावणः सह पुत्रेण स राज्यम् न इह लप्स्यते ॥२१॥

न रुजापीडिताव् एताव् उभौ राघव लक्ष्मणौ । त्यक्त्वा मोहम् वधिष्येते सगणम् रावणम् रणे ॥२२॥

तम् एवम् सान्त्वयित्वा तु समाश्वास्य च राक्षसम् । सुषेणम् श्वशुरम् पार्श्वे सुग्रीवस् तम् उवाच ह ॥२३॥

सह शूरैर् हरि गणैर् लब्ध सम्ज्नाव् अरिम् दमौ । गच्च त्वम् भ्रातरौ गृह्य किष्किन्धाम् राम लक्ष्मणौ ॥२४॥

अहम् तु रावणम् हत्वा सपुत्रम् सह बान्धवम् । मैथिलीम् आनयिष्यामि शक्रो नष्टाम् इव श्रियम् ॥२५॥

श्रुत्वा एतद् वानर इन्द्रस्य सुषेणो वाक्यम् अब्रवीत् । देव असुरम् महा युद्धम् अनुभूतम् सुदारुणम् ॥२६॥

तदा स्म दानवा देवान् शर संस्पर्श कोविदाः । निजघ्नुः शस्त्र विदुषश् चादयन्तो मुहुर् मुहुः ॥२७॥

तान् आर्तान् नष्ट सम्ज्नांश् च पर असूंश् च बृहस्पतिः । विध्याभिर् मन्त्र युक्ताभिर् ओषधीभिश् चिकित्सति ॥२८॥

तान्य् औषधान्य् आनयितुम् क्षीर उदम् यान्तु सागरम् । जवेन वानराह् शीघ्रम् सम्पाति पनस आदयः ॥२९॥

हरयस् तु विजानन्ति पार्वती ते महा ओषधी । सम्जीव करणीम् दिव्याम् विशल्याम् देव निर्मिताम् ॥३०॥

चन्द्रसः च नाम द्रोणश् च पर्वतौ सागर उत्तमे । अमृतम् यत्र मथितम् तत्र ते परम ओषधी ॥३१॥

तौ तत्र निहिते देवैः पर्वते परम ओषधी । अयम् वायु सुतो राजन् हनूमांस् तत्र गच्चतु ॥३२॥

एतस्मिन्न् अन्तरे वायुर् मेघांश् च अपि सविद्युतः । पर्यस्यन् सागरे तोयम् कम्पयन्न् इव पर्वतान् ॥३३॥

महता पक्ष वातेन सर्वे द्वीप महा द्रुमाः । निपेतुर् भग्न विटपाः समूला लवण अम्भसि ॥३४॥

अभवन् पन्नगास् त्रस्ता भोगिनस् तत्र वासिनः । शीघ्रम् सर्वाणि यादांसि जग्मुश् च लवण अर्णवम् ॥३५॥

ततो मुहूर्तद् गरुडम् वैनतेयम् महा बलम् । वानरा ददृशुः सर्वे ज्वलन्तम् इव पावकम् ॥३६॥

तम् आगतम् अभिप्रेक्ष्य नागास् ते विप्रदुद्रुवुः । यैस् तौ सत् पुरुषौ बद्धौ शर भूतैर् महा बलौ ॥३७॥

ततः सुपर्णह् काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च । विममर्श च पाणिभ्याम् मुखे चन्द्र सम प्रभे ॥३८॥

वैनतेयेन संस्पृष्टास् तयोह् सम्रुरुहुर् व्रणाः । सुवर्णे च तनू स्निग्धे तयोर् आशु बभूवतुः ॥३९॥

तेजो वीर्यम् बलम् च ओज;उत्साहश् च महा गुणाः । प्रदर्शनम् च बुद्धिश् च स्मृतिश् च द्विगुणम् तयोः ॥४०॥

ताव् उत्थाप्य महा वीर्यौ गरुडो वासव उपमौ । उभौ तौ सस्वजे हृष्टौ रामश् च एनम् उवाच ह ॥४१॥

भवत् प्रसादाद् व्यसनम् रावणि प्रभवम् महत् । आवाम् इह व्यतिक्रान्तौ शीघ्रम् च बलिनौ कृतौ ॥४२॥

यथा तातम् दशरथम् यथा अजम् च पितामहम् । तथा भवन्तम् आसाद्य हृषयम् मे प्रसीदति ॥४३॥

को भवान् रूप सम्पन्नो दिव्य स्रग् अनुलेपनः । वसानो विरजे वस्त्रे दिव्य आभरण भूषितः ॥४४॥

तम् उवाच महा तेजा वैनतेयो महा बलः । पतत्रि राजह् प्रीत आत्मा हर्ष पर्याकुल ईक्षणः ॥४५॥

अहम् सखा ते काकुत्स्थ प्रियह् प्राणो बहिश् चरः । गरुत्मान् इह सम्प्राप्तो युवयोह् साह्य कारणात् ॥४६॥

असुरा वा महा वीर्या दानवा वा महा बलाः । सुरासः च अपि सगन्धर्वाह् पुरस् कृत्य शत क्रतुम् ॥४७॥

नेमम् मोक्षयितुम् शक्ताह् शर बन्धम् सुदारुणम् । माया बलाद् इन्द्रजिता निर्मितम् क्रूर कर्मणा ॥४८॥

एते नागाह् काद्रवेयास् तीक्ष्ण दम्ष्ट्रा विष उल्बणाः । रक्षो माया प्रभावेन शरा भूत्वा त्वद् आश्रिताः ॥४९॥

सभाग्यसः च असि धर्मज्न राम सत्य पराक्रम । लक्ष्मणेन सह भ्रात्रा समरे रिपु घातिना ॥५०॥

इमम् श्रुत्वा तु वृत्त अन्तम् त्वरमाणो अहम् आगतः । सहसा युवयोह् स्नेहात् सखित्वम् अनुपालयन् ॥५१॥

मोक्षितौ च महा घोराद् अस्मात् सायक बन्धनात् । अप्रमादसः च कर्तव्यो युवाभ्याम् नित्यम् एव हि ॥५२॥

प्रकृत्या राक्षसाह् सर्वे सम्ग्रामे कूट योधिनः । शूराणाम् शुद्ध भावानाम् भवताम् आर्जवम् बलम् ॥५३॥

तन् न विश्वसितव्यम् वो राक्षसानाम् रण अजिरे । एतेन एव उपमानेन नित्य जिह्मा हि राक्षसाः ॥५४॥

एवम् उक्त्वा ततो रामम् सुपर्णह् सुमहा बलः । परिष्वज्य सुहृत् स्निग्धम् आप्रष्टुम् उपचक्रमे ॥५५॥

सखे राघव धर्मज्न रिपूणाम् अपि वत्सल । अभ्यनुज्नातुम् इच्चामि गमिष्यामि यथा आगतम् ॥५६॥

न च कौतूहलम् कार्यम् सखित्वम् प्रति काङ्क्षिणा । कृतकर्मा रणे वीर सखित्वम् प्रतिवेत्स्यसि ॥५७॥

बाल वृद्ध अवशेषाम् तु लन्काम् कृत्वा शर ऊर्मिभिः । रावणम् च रिपुम् हत्वा सीताम् समुपलप्स्यसे ॥५८॥

इत्य् एवम् उक्त्वा वचनम् सुपर्णह् शीघ्र विक्रमः । रामम् च विरुजम् कृत्वा मध्ये तेषाम् वन ओकसाम् ॥५९॥

प्रदक्षिणम् ततह् कृत्वा परिष्वज्य च वीर्यवान् । जगाम आकाशम् आविश्य सुपर्णह् पवनो यथा ॥६०॥

निरुजौ राघवौ दृष्ट्वा ततो वानर यूथपाः । सिम्ह नादांस् तदा नेदुर् लान्गूलम् दुधुवुश् च ते ॥६१॥

ततो भेरीः समाजघ्नुर् मृदन्गांश् च व्यनादयन् । दध्मुः शन्खान् सम्प्रहृष्टाह् क्ष्वेलन्त्य् अपि यथा पुरम् ॥६२॥

आपरे आस्फोट्य विक्रान्ता वानरा नग योधिनः । द्रुमान् उत्पाट्य विविधांस् तस्थुह् शत सहस्रशः ॥६३॥

विसृजन्तो महा नादांस् त्रासयन्तो निशा चरान् । लन्का द्वाराण्य् उपाजग्मुर् योद्धु कामाह् प्लवम् गमाः ॥६४॥

ततस् तु भीमस् तुमुलो निनादो ततस् तु भीमस् तुमुलो निनादो । बभूव शाखा मृग यूथपानाम् । क्षये निदाघस्य यथा घनानाम् । नादह् सुभीमो नदताम् निशीथे ॥६५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चशः सर्गः ॥

Listen to the sarga
0:00