घोरेण शर बन्धेन बद्धौ दशरथ आत्मजौ । निश्वसन्तौ यथा नागौ शयानौ रुधिर उक्षितौ ॥१॥
एकोनपञ्चाशः सर्गः 6.49
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सर्वे ते वानर श्रेष्ठाह् ससुग्रीवा महा बलाः । परिवार्य महात्मानौ तस्थुह् शोक परिप्लुताः ॥२॥
एतस्मिन्न् अन्तेरे रामह् प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात् सत्त्व योगाच् च शरैह् संदानितो अपि सन् ॥३॥
ततो दृष्ट्वा सरुधिरम् विषण्णम् गाढम् अर्पितम् । भ्रातरम् दीन वदनम् पर्यदेवयद् आतुरः ॥४॥
किम् नु मे सीतया कार्यम् किम् कार्यम् जीवितेन वा । शयानम् यो अद्य पश्यामि भ्रातरम् युधि निर्जितम् ॥५॥
शक्या सीता समा नारी प्राप्तुम् लोके विचिन्वता । न लक्ष्मण समो भ्राता सचिवह् साम्परायिकः ॥६॥
परित्यक्ष्याम्य् अहम् प्राणान् वानराणाम् तु पश्यताम् । यदि पन्चत्वम् आपन्नह् सुमित्र आनन्द वर्धनः ॥७॥
किम् नु वक्ष्यामि कौसल्याम् मातरम् किम् नु कैकयीम् । कथम् अम्बाम् सुमित्रांच पुत्र दर्शन लालसाम् ॥८॥
विवत्साम् वेपमानाम् च क्रोशन्तीम् कुररीम् इव । कथम् आश्वासयिष्यामि यदि यास्यामि तम् विना ॥९॥
कथम् वक्ष्यामि शत्रुघ्नम् भरतम् च यशस्विनम् । मया सह वनम् यातो विना तेन आगतह् पुनः ॥१०॥
उपालम्भम् न शक्ष्यामि सोढुम् बत सुमित्रया । इह एव देहम् त्यक्ष्यामि न हि जीवितुम् उत्सहे ॥११॥
धिग् माम् दुष्कृत कर्माणम् अनार्यम् यत् कृते ह्य् असौ । लक्ष्मणह् पतितह् शेते शर तल्पे गत असुवत् ॥१२॥
त्वम् नित्यम् सुविषण्णम् माम् आश्वासयसि लक्ष्मण । गत असुर् न अद्य शक्नोषि माम् आर्तम् अभिभाषितुम् ॥१३॥
येन अद्य बहवो युद्धे राक्षसा निहताह् क्षितौ । तस्याम् एव क्षितौ वीरह् स शेते निहतह् परैः ॥१४॥
शयानह् शर तल्पे अस्मिन् स्व शोणित परिप्लुतः । शर जालैश् चितो भाति भास्करो अस्तम् इव व्रजन् ॥१५॥
बाण अभिहत मर्मत्वान् न शक्नोत्य् अभिवीक्षितुम् । रुजा च अब्रुवतो ह्य् अस्य दृष्टि रागेण सूच्यते ॥१६॥
यथा एव माम् वनम् यान्तम् अनुयातो महा द्युतिः । अहम् अप्य् अनुयास्यामि तथैव एनम् यम क्षयम् ॥१७॥
इष्ट बन्धु जनो नित्यम् माम् च नित्यम् अनुव्रतः । इमाम् अद्य गतो अवस्थाम् मम अनार्यस्य दुर्नयैः ॥१८॥
सुरुष्टेन अपि वीरेण लक्ष्मणेना न संस्मरे । परुषम् विप्रियम् वा अपि श्रावितम् न कदाचन ॥१९॥
विससर्ज एक वेगेन पन्च बाण शतानि यः । इष्व् अस्त्रेष्व् अधिकस् तस्मात् कार्तवीर्याच् च लक्ष्मणः ॥२०॥
अस्त्रैर् अस्त्राणि यो हन्यात् शक्रस्य अपि महात्मनः । सो अयम् उर्व्याम्हतह् शेते महा अर्ह शयन उचितः ॥२१॥
तच् च मिथ्या प्रलप्तम् माम् प्रधक्ष्यति न संशयः । यन् मया न कृतो राजा राक्षसानाम् विभीषणः ॥२२॥
अस्मिन् मुहूर्ते सुग्रीव प्रतियातुम् इतो अर्हसि । मत्वा हीनम् मया राजन् रावणो अभिद्रवेद् बली ॥२३॥
अन्गदम् तु पुरस् कृत्य ससैन्यह् ससुहृज् जनः । सागरम् तर सुग्रीव पुनस् तेन एव सेतुना ॥२४॥
कृतम् हनुमता कार्यम् यद् अन्यैर् दुष्करम् रणे । ऋक्ष राजेन तुष्यामि गो लान्गूल अधिपेन च ॥२५॥
अन्गदेन कृतम् कर्म मैन्देन द्विविदेन च । युद्धम् केसरिणा सम्ख्ये घोरम् सम्पातिना कृतम् ॥२६॥
गवयेन गव अक्षेण शरभेण गजेन च । अन्यैश् च हरिभिर् युद्धम् मद् आर्थे त्यक्त जीवितैः ॥२७॥
न च अतिक्रमितुम् शक्यम् दैवम् सुग्रीव मानुषैः । यत् तु शक्यम् वयस्येन सुहृदा वा परम् तप ॥२८॥
कृतम् सुग्रीव तत् सर्वम् भवता अधर्म भीरुणा । मित्र कार्यम् कृतम् इदम् भवद्भिर् वानर ऋषभाः ॥२९॥
अनुज्नाता मया सर्वे यथा इष्टम् गन्तुम् अर्हथ । शुश्रुवुस् तस्य ते सर्वे वानराह् परिदेवितम् ॥३०॥
वर्तयाम् चक्रुर् अश्रूणि नेत्रैह् कृष्ण इतर ईक्षणाः । ततः सर्वाण्य् अनीकानि स्थापयित्वा विभीषणः ॥३१॥
आजगाम गदा पाणिस् त्वरितो यत्र राघवः । तम् दृष्ट्वा त्वरितम् यान्तम् नील अन्जन चय उपमम् ॥३२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोनपञ्चाशः सर्गः ॥