भर्तारम् निहतम् दृष्ट्वा लक्ष्मणम् च महा बलम् । विललाप भृशम् सीता करुणम् शोक कर्शिता ॥१॥
अष्टचत्वारिंशः सर्गः 6.48
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
ऊचुर् लक्षणिका ये माम् पुत्रिण्य् अविधवा इति च । ते अस्य सर्वे हते रामे अज्नानिनो अनृत वादिनः ॥२॥
यज्वनो महिषीम् ये माम् ऊचुह् पत्नीम् च सत्रिणः । ते अद्य सर्वे हते रामे अज्नानिनो अनृत वादिनः ॥३॥
वीर पार्थिव पत्नी त्वम् ये धन्या इति च माम् विदुः । ते अद्य सर्वे हते रामे अज्नानिनो अनृत वादिनः ॥४॥
ऊचुः संश्रवणे ये माम् द्विजाह् कार्तान्तिकाह् शुभाम् । ते अद्य सर्वे हते रामे अज्नानिनो अनृत वादिनः ॥५॥
इमानि खलु पद्मानि पादयोर् यैह् किल स्त्रियः । अधिराज्ये अभिषिच्यन्ते नर इन्द्रैह् पतिभिह् सह ॥६॥
वैधव्यम् यान्ति यैर् नार्यो अलक्षणैर् भाग्य दुर्लभाः । न आत्मनस् तानि पश्यामि पश्यन्ती हत लक्षणा ॥७॥
सत्यानि इमानि पद्मानि स्त्रीणाम् उक्त्वानि लक्षणे । तान्य् अद्य निहते रामे वितथानि भवन्ति मे ॥८॥
केशाह् सूक्ष्माह् समा नीला भ्रुवौ च असम्गते मम । वृत्ते च अलोमशे जन्घे दन्ताश् च अविरला मम ॥९॥
शन्खे नेत्रे करौ पादौ गुल्फाव् ऊरू च मे चितौ । अनुवृत्ता नखाह् स्निग्धाह् समाश् च अन्गुलयो मम ॥१०॥
स्तनौ च अविरलौ पीनौ मम इमौ मग्न चूचुकौ । मग्ना च उत्सन्गिनी नाभिह् पार्श्व उरस्कम् च मे चितम् ॥११॥
मम वर्णो मणि निभो मृदून्य् अन्ग रुहाणि च । प्रतिष्ठिताम् द्वदशभिर् माम् ऊचुह् शुभ लक्षणाम् ॥१२॥
समग्र यवम् अच्चिद्रम् पाणि पादम् च वर्णवत् । मन्द स्मिता इत्य् एव च माम् कन्या लक्षणिका विदुः ॥१३॥
अधिराज्ये अभिषेको मे ब्राह्मणैह् पतिना सह । कृत अन्त कुशलैर् उक्तम् तत् सर्वम् वितथी कृतम् ॥१४॥
शोधयित्वा जन स्थानम् प्रवृत्तिम् उपलभ्य च । तीर्त्वा सागरम् अक्षोभ्यम् भ्रातरौ गोष्पदे हतौ ॥१५॥
ननु वारुणम् आग्नेयम् ऐन्द्रम् वायव्यम् एव च । अस्त्रम् ब्रह्म शिरश् चैव राघवौ प्रत्यपद्यताम् ॥१६॥
अदृश्यमानेन रणे मायया वासव उपमौ । मम नाथाव् अनाथाया निहतौ राम लक्ष्मणौ ॥१७॥
न हि दृष्टि पथम् प्राप्य राघवस्य रणे रिपुः । जीवन् प्रतिनिवर्तेत यद्य् अपि स्यान् मनो जवः ॥१८॥
न कालस्य अतिभारो अस्ति कृत अन्तश् च सुदुर्जयः । यत्र रामह् सह भ्रात्रा शेते युधि निपाथितः ॥१९॥
न अहम् शोचामि भर्तारम् निहतम् न च लक्ष्मणम् । न आत्मानम् जननी च अपि यथा श्वश्रूम् तपस्विनीम् ॥२०॥
सा हि चिन्तयते नित्यम् समाप्त व्रतम् आगतम् । कदा द्रक्ष्यामि सीताम् च रामम् च सह लक्ष्मणम् ॥२१॥
परिदेवयमानाम् ताम् राक्षसी त्रिजटा अब्रवीत् । मा विषादम् कृथा देवि भर्ता अयम् तव जीवति ॥२२॥
कारणानि च वक्ष्यामि महान्ति सदृशानि च । यथा इमौ जीवतो देवि भ्रातरौ राम लक्ष्मणौ ॥२३॥
न हि कोप परीतानि हर्ष पर्युत्सुकानि च । भवन्ति युधि योधानाम् मुखानि निहते पतौ ॥२४॥
इदम् विमानम् वैदेहि पुष्पकम् नाम नामतः । दिव्यम् त्वाम् धारयेन् न इदम् यद्य् एतौ गज जीवितौ ॥२५॥
हत वीर प्रधाना हि हत उत्साहा निरुद्यमा । सेना भ्रमति सम्ख्येषु हत कर्णा इव नौर् जले ॥२६॥
इयम् पुनर् असम्भ्रान्ता निरुद्विग्ना तरस्विनी । सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे ॥२७॥
सा त्वम् भव सुविस्रब्धा;अनुमानैह् सुख उदयैः । अहतौ पश्य काकुत्स्थौ स्नेहाद् एतद् ब्रवीमि ते ॥२८॥
अनृतम् न उक्त पूर्वम् मे न च वक्ष्ये कदाचन । चारित्र सुख शीलत्वात् प्रविष्टा असि मनो मम ॥२९॥
न इमौ शक्यौ रणे जेतुम् स इन्द्रैर् अपि सुर असुरैः । एतयोर् आननम् दृष्ट्वा मया च आवेदितम् तव ॥३०॥
इदम् च सुमहच् चिह्नम् शनैह् पश्यस्व मैथिलि । निह्सम्ज्नाव् अप्य् उभाव् एतौ न एव लक्ष्मीर् वियुज्यते ॥३१॥
प्रायेण गत सत्त्वानाम् पुरुषाणाम् गत आयुषाम् । दृश्यमानेषु वक्त्रेषु परम् भवति वैकृतम् ॥३२॥
त्यज शोकम् च दुह्खम् च मोहम् च जनक आत्मजे । राम लक्ष्मणयोर् अर्थे न अद्य शक्यम् अजीवितुम् ॥३३॥
श्रुत्वा तु वचनम् तस्याह् सीता सुर सुता उपमा । कृत अन्जलिर् उवाच इदम् एवम् अस्त्व् इति मैथिली ॥३४॥
विमानम् पुष्पकम् तत् तु समिवर्त्य मनो जवम् । दीना त्रिजटया सीता लन्काम् एव प्रवेशिता ॥३५॥
ततस् त्रिजटया सार्धम् पुष्पकाद् अवरुह्य सा । अशोक वनिकाम् एव रक्षसीभिह् प्रवेशिता ॥३६॥
प्रविश्य सीता बहु वृक्ष षण्डाम् । ताम् राक्षस इन्द्रस्य विहार भूमिम् |सम्प्रेक्ष्य संचिन्त्य च राज पुत्रौ । परम् विषादम् समुपाजगाम ॥३७॥
इत्यार्षे श्रीमद्रामायने आदिकाव्ये युद्धकाण्डे अष्टचत्वारिंशः सर्गः ॥