तस्मिन् प्रतिप्रविष्टे लन्काम् तु कृत अर्थे रावण आत्मजे । राघवम् परिवार्य आर्ता ररक्षुर् वानर ऋषभाः ॥१॥
सप्तचत्वारिंशः सर्गः 6.47
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
हनूमान् अन्गदो नीलह् सुषेणह् कुमुदो नलः । गजो गव अक्षो गवयह् शरभो गन्ध मादनः ॥२॥
जाम्बवान् ऋषभह् सुन्दो रम्भह् शत बलिह् पृथुः । व्यूढ अनीकाश् च यत्ताश् च द्रुमान् आदाय सर्वतः ॥३॥
वीक्षमाणा दिशह् सर्वास् तिर्यग् ऊर्ध्वम् च वानराः । तृणेष्व् अपि च चेष्टत्सु राक्षसा;इति मेनिरे ॥४॥
रावणश् च अपि सम्हृष्टो विसृज्य इन्द्रजितम् सुतम् । आजुहाव ततह् सीता रक्षणी राक्षसीस् तदा ॥५॥
राक्षस्यस् त्रिजटा च अपि शासनात् तम् उपस्थिताः । ता उवाच ततो हृष्टो राक्षसी राक्षस ईश्वरः ॥६॥
हताव् इन्द्रजिता आख्यात वैदेह्या राम लक्ष्मणौ । पुष्पकम् च समारोप्य दर्शयध्वम् हतौ रणे ॥७॥
यद् आश्रयाद् अवष्टब्धो न इयम् माम् उपतिष्ठति । सो अस्या भर्ता सह भ्रात्रा निरस्तो रण मूर्धनि ॥८॥
निर्विशन्का निरुद्विग्ना निरपेक्षा च मैथिली । माम् उपस्थास्यते सीता सर्व आभरण भूषिता ॥९॥
अद्य काल वशम् प्राप्तम् रणे रामम् सलक्ष्मणम् । अवेक्ष्य विनिवृत्त आशा न अन्याम् गतिम् अपश्यती ॥१०॥
अनपेक्षा विशालाक्षी मामुपस्थस्यते स्वयम् । तस्य तद् वचनम् श्रुत्वा रावणस्य दुरात्मनः ॥११॥
राक्षस्यस् तास् तथा इत्य् उक्त्वा प्रजग्मुर् यत्र पुष्पकम् । ततः पुष्पकम् आदय राक्षस्यो रावण आज्नया ॥१२॥
अशोक वनिकास्थाम् ताम् मैथिलीम् समुपानयन् । ताम् आदाय तु राक्षस्यो भर्तृ शोक परायणाम् ॥१३॥
सीताम् आरोपयाम् आसुर् विमानम् पुष्पकम् तदा । ततः पुष्पकम् आरोप्य सीताम् त्रिजटया सह ॥१४॥
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ । रावणो अकारयल् लन्काम् पताका ध्वज मालिनीम् ॥१५॥
प्राघोषयत हृष्टश् च लन्कायाम् राक्षस ईश्वरः । राघवो लक्ष्मणश् चैव हताव् इन्द्रजिता रणे ॥१६॥
विमानेन अपि सीता तु गत्वा त्रिजटया सह । ददर्श वानराणाम् तु सर्वम् सिन्यम् निपातितम् ॥१७॥
प्रहृष्ट मनसश् च अपि ददर्श पिशित अशनान् । वानरांश् च अपि दुह्ख आर्तान् राम लक्ष्मण पार्श्वतः ॥१८॥
ततः सीता ददर्श उभौ शयानौ शत तल्पयोः । लक्ष्मणम् चैव रामम् च विसम्ज्नौ शर पीडितौ ॥१९॥
विध्वस्त कवचौ वीरौ विप्रविद्ध शर आसनौ । सायकैश् चिन्न सर्व अन्गौ शर स्तम्भमयौ क्षितौ ॥२०॥
तौ दृष्ट्वा भ्रातरौ तत्र प्रवीरौ पुरुष ऋषभौ । शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥२१॥
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ । दुह्ख आर्ता सुभृशम् सीता करुणम् विललाप ह ॥२२॥
भर्तारमनवद्याङ्गी लक्ष्मणम् चासितेक्षणा । प्रेक्ष्य पांसुषु चेष्टन्तौ रुरोद जनकात्मजा ॥२३॥
सा बाष्प शोक अभिहता समीक्ष्य । तौ भ्रातरौ देव सम प्रभावौ । वितर्कयन्ती निधनम् तयोह् सा । दुह्ख अन्विता वाक्यम् इदम् जगाद ॥२४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्तचत्वारिंशः सर्गः ॥