रामायणम्

षट्चत्वारिंशः सर्गः 6.46

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततो द्याम् पृथिवीम् चैव वीक्षमाणा वन ओकसः । ददृशुः सम्ततौ बाणैर् भ्रातरौ राम लक्ष्मणौ ॥१॥

वृष्ट्वा इव उपरते देवे कृत कर्मणि राक्षसे । आजगाम अथ तम् देशम् ससुग्रीवो विभीषणः ॥२॥

नील द्विविद मैन्दाश् च सुषेण सुमुख अन्गदाः । तूर्णम् हनुमता सार्धम् अन्वशोचन्त राघवौ ॥३॥

अचेष्टौ मन्द निह्श्वासौ शोणित ओघ परिप्लुतौ । शर जाल आचितौ स्तब्धौ शयानौ शर तल्पयोः ॥४॥

निह्श्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्द विक्रमौ । रुधिर स्राव दिग्ध अन्गौ तापनीयाव् इव ध्वजौ ॥५॥

तौ वीर शयने वीरौ शयानौ मन्द चेष्टितौ । यूथपैस् तैह् परिवृतौ बाष्प व्याकुल लोचनैः ॥६॥

राघवौ पतितौ दृष्ट्वा शर जाल समावृतौ । बभूवुर् व्यथिताह् सर्वे वानराह् सविभीषणाः ॥७॥

अन्तरिक्षम् निरीक्षन्तो दिशह् सर्वाश् च वानराः । न च एनम् मायया चन्नम् ददृशू रावणिम् रणे ॥८॥

तम् तु माया प्रतिच्चिन्नम् मायया एव विभीषणः । वीक्षमाणो ददर्श अथ भ्रातुह् पुत्रम् अवस्थितम् ॥९॥

तम् अप्रतिम कर्माणम् अप्रतिद्वन्द्वम् आहवे । ददर्श अन्तर्हितम् वीरम् वर दानाद् विभीषणः ॥१०॥

तेजसा यशसा चैव विक्रमेण च सम्युतः । इन्द्रजित् त्व् आत्मनह् कर्म तौ शयानौ समीक्ष्य च ॥११॥

उवाच परम प्रीतो हर्षयन् सर्व नैरृतान् । दूषणस्य च हन्तारौ खरस्य च महा बलौ ॥१२॥

सादितौ मामकैर् बाणैर् भ्रातरौ राम लक्ष्मणौ । न इमौ मोक्षयितुम् शक्याव् एतस्माद् इषु बन्धनात् । सर्वैर् अपि समागम्य सर्षि सन्घैह् सुर असुरैः ॥१३॥

यत् कृते चिन्तयानस्य शोक आर्तस्य पितुर् मम ॥१४॥

अस्पृष्ट्वा शयनम् गात्रैस् त्रि यामा याति शर्वती । कृत्स्ना इयम् यत् कृते लन्का नदी वर्षास्व् इव आकुला ॥१५॥

सो अयम् मूल हरो अनर्थह् सर्वेषाम् निहतो मया । रामस्य लक्ष्मणस्य एव सर्वेषाम् च वन ओकसाम् ॥१६॥

विक्रमा निष्फलाह् सर्वे यथा शरदि तोयदाः । एवम् उक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वगान् ॥१७॥

यूथपान् अपि तान् सर्वांस् ताडयाम् आस रावणिः । नीलं नवभिराहत्य मैन्दं सद्विविदम् तथा ॥१८॥

त्रिभिस्त्रिभिरमित्रघ्नस्तताअ परमेषुभिः । जाम्बवन्तम् महेष्वासो विद्ध्वा बाणेन वक्षसि ॥१९॥

हनूमतो वेगवतो विससर्ज शरान्दश । गवाक्षम् शरभम् चैव तावप्यमितविक्रमौ ॥२०॥

द्वाभ्याम् द्वाभ्याम् महावेगो विव्याध युधि रावणिः । गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम् ॥२१॥

विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः । तान्वानरवरान् भित्त्वा शरैरग्निशिखोपमैः ॥२२॥

ननाद बलवांस्तत्र महासत्त्वः स रावणिः । तान् अर्दयित्वा बाण ओघैस् त्रासयित्वा च वानरान् ॥२३॥

प्रजहास महा बाहुर् वचनम् च इदम् अब्रवीत् । शर बन्धेन घोरेण मया बद्धौ चमू मुखे ॥२४॥

सहितौ भ्रातराव् एतौ निशामयत राक्षसाः । एवम् उक्तास् तु ते सर्वे राक्षसाह् कूट योधिनः ॥२५॥

परम् विस्मयम् आजग्मुह् कर्मणा तेन तोषिताः । विनेदुश् च महा नादान् सर्वे ते जलद उपमाः ॥२६॥

हतो राम;इति ज्नात्वा रावणिम् समपूजयन् । निष्पन्दौ तु तदा दृष्ट्वा ताव् उभौ राम लक्ष्मणौ ॥२७॥

वसुधायाम् निरुच्च्वासौ हताव् इत्य् अन्वमन्यत । हर्षेण तु समाविष्ट;इन्द्रजित् समितिम् जयः ॥२८॥

प्रविवेश पुरीम् लन्काम् हर्षयन् सर्व नैरृतान् । राम लक्ष्मणयोर् दृष्ट्वा शरीरे सायकैश् चिते ॥२९॥

सर्वाणि च अन्ग उपान्गानि सुग्रीवम् भयम् आविशत् । तम् उवाच परित्रस्तम् वानर इन्द्रम् विभीषणः ॥३०॥

सबाष्प वदनम् दीनम् शोक व्याकुल लोचनम् । अलम् त्रासेन सुग्रीव बाष्प वेगो निगृह्यताम् ॥३१॥

एवम् प्रायाणि युद्धानि विजयो न अस्ति नैष्ठिकः । सशेष भाग्यता अस्माकम् यदि वीर भविष्यति ॥३२॥

मोहम् एतौ प्रहास्येते भ्रातरौ राम लक्ष्मणौ । पर्यवस्थापय आत्मानम् अनाथम् माम् च वानर ॥३३॥

सत्य धर्म अनुरक्तानाम् न अस्ति मृत्यु कृतम् भयम् । एवम् उक्त्वा ततस् तस्य जल क्लिन्नेन पाणिना ॥३४॥

सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः । ततः सलिलमादाय विद्यया परिजप्य च ॥३५॥

सुग्रीवनेत्रे धर्मात्मा प्रममार्ज विभीषणः । विमृज्य वदनम् तस्य कपि राजस्य धीमतः ॥३६॥

अब्रवीत् काल सम्प्रातम् असम्भ्रान्तम् इदम् वचः । न कालः कपि राज इन्द्र वैक्लव्यम् अनुवर्तितुम् ॥३७॥

अतिस्नेहो अप्य् अकाले अस्मिन् मरणाय उपपद्यते । तस्माद् उत्सृज्य वैक्लव्यम् सर्व कार्य विनाशनम् ॥३८॥

हितम् राम पुरोगाणाम् सैन्यानाम् अनुचिन्त्यताम् । अथ वा रक्ष्यताम् रामो यावत् सम्ज्ना विपर्ययः ॥३९॥

लब्ध सम्ज्नौ तु काकुत्स्थौ भयम् नो व्यपनेष्यतः । न एतत् किंचन रामस्य न च रामो मुमूर्षति ॥४०॥

न ह्य् एनम् हास्यते लक्ष्मीर् दुर्लभा या गत आयुषाम् । तस्माद् आश्वासय अत्मानम् बलम् च आश्वासय स्वकम् ॥४१॥

यावत् सर्वाणि सैन्यानि पुनह् संस्थापयाम्य् अहम् । एते हि उत्फुल्ल नयनास् त्रासाद् आगत साध्वसाः ॥४२॥

कर्णे कर्णे प्रकथिता हरयो हरि पुम्गव । माम् तु दृष्ट्वा प्रधावन्तम् अनीकम् सम्प्रहर्षितुम् ॥४३॥

त्यजन्तु हरयस् त्रासम् भुक्त पूर्वाम् इव स्रजम् । समाश्वास्य तु सुग्रीवम् राक्षस इन्द्रो विभीषणः ॥४४॥

विद्रुतम् वानर अनीकम् तत् समाश्वासयत् पुनः । इन्द्रजित् तु महा मायह् सर्व सैन्य समावृतः ॥४५॥

विवेश नगरीम् लन्काम् पितरम् च अभ्युपागमत् । तत्र रावणम् आसीनम् अभिवाद्य कृत अन्जलिः ॥४६॥

आचचक्षे प्रियम् पित्रे निहतौ राम लक्ष्मणौ । उत्पपात ततो हृष्टह् पुत्रम् च परिषस्वजे ॥४७॥

रावणो रक्षसाम् मध्ये श्रुत्वा शत्रू निपातितौ । उपाघ्राय स मूर्ध्न्य् एनम् पप्रच्च प्रीत मानसः ॥४८॥

पृच्चते च यथा वृत्तम् पित्रे सर्वम् न्यवेदयत् । यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥४९॥

स हर्ष वेग अनुगत अन्तर आत्मा । श्रुत्वा वचस् तस्य महा रथस्य । जहौ ज्वरम् दाशरथेह् समुत्थितम् । प्रहृष्य वाचा अभिननन्द पुत्रम् ॥५०॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षट्चत्वारिंशः सर्गः ॥

Listen to the sarga
0:00