स तस्य गतिम् अन्विच्चन् राज पुत्रह् प्रतापवान् । दिदेश अतिबलो रामो दश वानर यूथपान् ॥१॥
पञ्चचत्वारिंशः सर्गः 6.45
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
द्वौ सुषेणस्य दायादौ नीलम् च प्लवग ऋषभम् । अन्गदम् वालि पुत्रम् च शरभम् च तरस्विनम् ॥२॥
द्विनतम् जाम्बवन्तम् च सानुप्रस्थम् महा बलम् । ऋषभम् च ऋषभ स्कन्धम् आदिदेश परम् तपः ॥३॥
ते सम्प्रहृष्टा हरयो भीमान् उद्यम्य पादपान् । आकाशम् विविशुह् सर्वे मार्गामाणा दिशो दश ॥४॥
तेषाम् वेगवताम् वेगम् इषुभिर् वेगवत्तरैः । अस्त्रवित् परम अस्त्रेण वारयाम् आस रावणिः ॥५॥
तम् भीम वेगा हरयो नाराचैह् क्षत विक्षताः । अन्ध कारे न ददृशुर् मेघैह् सूर्यम् इव आवृतम् ॥६॥
राम लक्ष्मणयोर् एव सर्व मर्म भिदह् शरान् । भृशम् आवेशयाम् आस रावणिह् समितिम् जयः ॥७॥
निरन्तर शरीरौ तु भ्रातरौ राम लक्ष्मणौ । क्रुद्धेन इन्द्रजोता वीरौ पन्नगैह् शरताम् गतैः ॥८॥
तयोह् क्षतज मार्गेण सुस्राव रुधिरम् बहु । ताव् उभौ च प्रकाशेते पुष्पिताव् इव किंशुकौ ॥९॥
ततः पर्यन्त रक्त अक्षो भिन्न अन्जन चय उपमः । रावणिर् भ्रातरौ वाक्यम् अन्तर्धान गतो अब्रवीत् ॥१०॥
युध्यमानम् अनालक्ष्यम् शक्रो अपि त्रिदश ईश्वरः । द्रष्टुम् आसादितुम् वा अपि न शक्तह् किम् पुनर् युवाम् ॥११॥
प्रावृताव् इषु जालेन राघवौकन्क पत्रिणा । एष रोष परीत आत्मा नयामि यम सादनम् ॥१२॥
एवम् उक्त्वा तु धर्मज्नौ भ्रातरौ राम लक्ष्मणौ । निर्बिभेद शितैर् बाणैह् प्रजहर्ष ननाद च ॥१३॥
भिन्न अन्जन चय श्यामो विस्फार्य विपुलम् धनुः । भूयो भूयह् शरान् घोरान् विससर्ज महा मृधे ॥१४॥
ततो मर्मसु मर्मज्नो मज्जयन् निशितान् शरान् । राम लक्ष्मणयोर् वीरो ननाद च मुहुर् मुहुः ॥१५॥
बद्धौ तु शर बन्धेन ताव् उभौ रण मूर्धनि । निमेष अन्तर मात्रेण न शेकतुर् उदीक्षितुम् ॥१६॥
ततो विभिन्न सर्व अन्गौ शर शल्य आचिताव् उभौ । ध्वजाव् इव महा इन्द्रस्य रज्जु मुक्तौ प्रकम्पितौ ॥१७॥
तौ सम्प्रचलितौ वीरौ मर्म भेदेन कर्शितौ । निपेततुर् महा इष्वासौ जगत्याम् जगती पती ॥१८॥
तौ वीर शयने वीरौ शयानौ रुधिर उक्षितौ । शर वेष्टित सर्व अन्गाव् आर्तौ परम पीडितौ ॥१९॥
न ह्य् अविद्धम् तयोर् गात्रम् बभूव अन्गुलम् अन्तरम् । न अनिर्भिन्नम् न च अस्तब्धम् आ कर अग्राद् अजिह्मगैः ॥२०॥
तौ तु क्रूरेण निहतौ रक्षसा काम रूपिणा । असृक् सुस्रुवतुस् तीव्रम् जलम् प्रस्रवणाव् इव ॥२१॥
पपात प्रथमम् रामो विद्धो मर्मसु मार्गणैः । क्रोधाद् इन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥२२॥
रुक्मपुङ्खेः प्रसन्नाग्रैरधोगतिभिराशुगैः । नारचैर् अर्ध नाराचैर् भल्लैर् अन्जलिकैर् अपि ॥२३॥
विव्याध वत्स दन्तैश् च सिम्ह दम्ष्ट्रैह् क्षुरैस् तथा । स वीर शयने शिश्ये विज्यम् आदाय कार्मुकम् ॥२४॥
भिन्न मुष्टि परीणाहम् त्रिणतम् रुक्म भूषितम् । बाण पात अन्तरे रामम् पतितम् पुरुष ऋषभम् ॥२५॥
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीविते अभवत् । रामम् कमलपत्राक्षं शरबन्धपरिक्षतम् ॥२६॥
शुशोच भ्रातरं दृष्ट्वा पतितम् धरणीतले । हरयश्चापि तम् दृष्ट्वा सम्तापम् परमं गताः ॥२७॥
शोकार्ताश्चुक्रुशुर्घोरमश्रुपूरितलोचनाः । बद्धौ तु वीरौ पतितौ शयानौ । तौ वानराह् सम्परिवार्य तस्थुह् । समागता वायु सुत प्रमुख्या । विषदम् आर्ताह् परमम् च जग्मुह् ॥२८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चचत्वारिंशः सर्गः ॥