सारथिः स रथम् हृष्टं परसैन्यप्रधर्षणम् । गन्धर्वनगराकारं समुच्छ्रितपाताकिनम् ॥१॥
षडुत्तरशततमः सर्गः 6.106
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
युक्तं परमसंपन्नैर्वाइभिर्हेममालिभिः । युद्धोपकरणैः पूर्णं पताकाध्वजमालिनम् ॥२॥
ग्रसन्तमिव चाकाशं नादयन्तं वसुंधराम् । प्रणाशं परनैन्यानां स्वनैन्यस्य प्रहर्षणम् ॥३॥
रावणस्य रथं क्षिप्रं चोदयामास सारथिः । तमापतन्तन् सहसा स्वनवन्तं महाध्वजम् ॥४॥
रथन् राक्षसराजस्य नरराजो ददर्श ह । कृष्णवाजिसमायुक्तन् युक्तं रौद्रेण वर्चसा ॥५॥
दीप्यमानमिवाकाशे विमानं सूर्यवर्चसं । तडित्पताकागहनन् दर्शितेन्द्रायुधायुधम् ॥६॥
शरधारा विमुञ्चन्तन् धारासारमिवान्बुदम् । तन् दृष्ट्वा मेघसङ्काशमापतन्तन् रथं रिपोः ॥७॥
गिरेर्वज्राभिमृष्टस्य दीर्यतः सदृशस्वनम् । विस्पारयन्वै वेगेन बालचन्द्रानतं धनुः ॥८॥
उवाच मातलिन् रामः सहस्राक्षस्य मातलिम् । मातले पश्य सन्रब्धमापतन्तन् रथं रिपोः ॥९॥
यथापसव्यं पतता वेगेन महता पुनः । समरे हन्तुमात्मानन् तथानेन कृता मतिः ॥१०॥
तदप्रमादमातिष्ठ प्रत्युद्गच्छ रथन् रिपोः| विध्वन्सयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥११॥
अविक्लवमसम्भ्रान्तमव्यग्रहृदयेक्षणम् । रश्मिसञ्चारनियतं प्रचोदय रथन् द्रुतम् ॥१२॥
कामं न त्वन् समाधेयः पुरन्दररथोचितः । युयुत्सुरहमेकाग्रः स्मारये त्वां न शिक्षये ॥१३॥
परितुष्टः स रामस्य तेन वाक्येन मातलिः । प्रचोदयामास रथन् सुरसारथिसत्तमः ॥१४॥
अपसव्यन् ततः कुर्वन्रावणस्य महारथम् । चक्रोत्क्षिप्तेन रजसा रावणन् व्यवधूनयत् ॥१५॥
ततः क्रुद्धो दशग्रीवस्ताम्रविस्फारितेक्षणः । रथप्रतिमुखन् रामं सायकैरवधूनयत् ॥१६॥
धर्षणामर्षितो रामो धैर्यन् रोषेण लङ्घयन् । जग्राह सुमहावेगमैन्द्रन् युधि शरासनम् ॥१७॥
शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् । तदुपोढं महद्युद्धमन्योन्यवधकाङ्क्षिणोः ॥१८॥
परस्पराभिमुखयोर्दृप्तयोरिव सिन्हयोः । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥१९॥
समीयुर्द्वैरथन् द्रष्टुन् रावणक्षयकाङ्क्षिणः । समुत्पेतुरथोत्पाता दारुणा लोमहर्षणाः ॥२०॥
रावणस्य विनाशाय राघवस्य जयाय च । ववर्ष रुधिरन् देवो रावणस्य रथोपरि ॥२१॥
वाता मण्डलिनस्तीव्रा अपसव्यं प्रचक्रमुः । महद् गृध्रकुलन् चास्य भ्रममाणं नभस्तले ॥२२॥
येन येन रथो याति तेन तेन प्रधावति । सन्ध्यया चावृता लङ्का जपापुष्पनिकाशया ॥२३॥
दृश्यते सम्प्रदीतेव दिवसेअपि वसुन्धरा । सनिर्घाता महोल्काश्च सम्प्रचेतुर्महास्वनाः ॥२४॥
विषादयन्त्यो रक्षान्सि रावणस्य तदाहिताः । रावणश्च यतस्तत्र प्रचचाल वसुन्धरा ॥२५॥
रक्षसान् च प्रहरतां गृहीता इव बाहवः । ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः ॥२६॥
दृश्यन्ते रावणस्याङ्गे पर्वतस्येव धातवः । गृध्रैरनुगताश्चास्य वमन्त्यो ज्वलनं मुखैः ॥२७॥
प्रणेदुर्मुखमीक्षन्त्यः सन्रब्धमशिवन् शिवाः । प्रतिकूलन् ववौ वायू रणे पान्सून् समुत्किरन् ॥२८॥
तस्य राक्षसराजस्य कुर्वन्दृष्टिविलोपनम् । निपेतुरिन्द्राशनयः सैन्ये चास्य समन्ततः ॥२९॥
दुर्विषह्य स्वना घोरा विना जलधरस्वनम् । दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः ॥३०॥
पान्सुवर्षेण महता दुर्दर्शन् च नभोअभवत् । कुर्वन्त्यः कलहन् घोरन् सारिकास्तद्रथं प्रति ॥३१॥
निपेतुः शतशस्तत्र दारुणा दारुणस्वनाः । जघनेभ्यः स्फुलिङ्गांश्च नेत्रेभ्योअश्रूणि सन्ततम् ॥३२॥
मुमुचुस्तस्य तुरगास्तुल्यमग्निन् च वारि च । एवं प्रकारा बहवः समुत्पाता भयावहाः ॥३३॥
रावणस्य विनाशाय दारुणाः सम्प्रजजिञिरे । रामस्यापि निमित्तानि सौम्यानि च शिवानि च ॥३४॥
बभूवुर्जयशन्सीनि प्रादुर्भूतानि सर्वशः । निमित्तानि च सौम्यानि राघवः स्वजयाय वै ॥३५॥
दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् । ततो निरीक्ष्यात्मगतानि राघवो । रणे निमित्तानि निमित्तकोविदः । जगाम हर्षन् च परां च निर्वृतिं । चकार युद्धेअभ्यधिकन् च विक्रमम् ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षडुत्तरशततमः सर्गः ॥