रामायणम्

सप्तोत्तरशततमः सर्गः 6.107

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा । सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ॥१॥

ततो राक्षससैन्यं च हरीणां च महद्बलम् । प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ॥२॥

सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥३॥

नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः । तस्थुः प्रेक्ष्य च सङ्ग्रामं नाभिजघ्नुः परस्परम् ॥४॥

रक्षसां रावणं चापि वानराणां च राघवम् । पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥५॥

ते तु तत्र निमित्तानि दृष्ट्वा राघवरावणौ । कृतबुद्धी स्थिरामर्षौ युयुधाते अभीतवत् ॥६॥

जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः । धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥७॥

ततः क्रोधाद्दशग्रीवः शरान्सन्धाय वीर्यवान् । मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥८॥

ते शरास्तमनासाद्य पुरन्दररथध्वजम् । रक्तशक्तिं परामृश्य निपेतुर्धरणीतले ॥९॥

ततो रामोऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् । कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ॥१०॥

रावणध्वजमुद्दिश्य मुमोच निशितं शरम् । महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥११॥

रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम् । जगाम स महीं भित्त्वा दशग्रीवध्वजं शरः ॥१२॥

स निकृत्तोऽपतद्भूमौ रावणस्य रथध्वजः । ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ॥१३॥

क्रोधजेनाग्निना सङ्ख्ये प्रदीप्त इव चाभवत् । स रोषवशमापन्नः शरवर्षं महद्वमन् ॥१४॥

6.107.14 #331ea0cdee1b timing uncertain

रामस्य तुरगान्दिव्याञ्शरैर्विव्याध रावणः । ते विद्धा हरयस्तस्य नास्खलन्नापि बभ्रमुः ॥१५॥

बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः । तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ॥१६॥

भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह । गदाश्च परिघांश्चैव चक्राणि मुसलानि च ॥१७॥

गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् । माया विहितमेतत्तु शस्त्रवर्षमपातयत् ॥१८॥

सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः । तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥१९॥

दुर्धर्षमभवद्युद्धे नैकशस्त्रमयं महत् । विमुच्य राघवरथं समन्ताद्वानरे बले ॥२०॥

सायकैरन्तरिक्षं च चकाराशु निरन्तरम् । मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना ॥२१॥

व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे । प्रहसन्निव काकुत्स्थः सन्दधे निशितान् शरान् ॥२२॥

स मुमोच ततो बाणान्रणे शतसहस्रशः । तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥२३॥

ततस्ताभ्यां प्रयुक्तेन शरवर्षेण भास्वता । शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ॥२४॥

नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः । अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ॥२५॥

तथा विसृजतोर्बाणान्रामरावणयोर्मृधे । प्रायुध्येतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ॥२६॥

चक्रतुस्तौ शरौघैस्तु निरुच्छ्वासमिवाम्बरम् । रावणस्य हयान्रामो हयान्रामस्य रावणः ॥२७॥

6.107.27 #032e773fd437 timing uncertain

जघ्नतुस्तौ तदान्योन्यं कृतानुकृतकारिणौ । एवं तु तौ सुसंक्रुद्धौ चक्रतुर्युद्धमुत्तमम् ॥२८॥

मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् । प्रयुध्यमानौ समरे महाबलौ । शितैः शरै रावणलक्ष्मणाग्रजौ । ध्वजावपातेन स राक्षसाधिपो । भृशं प्रचुक्रोध तदा रघूत्तमे ॥२९॥

6.107.29 #56e0cc1235df timing uncertain

तौ तथा युध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतान्नि विस्मितेनान्तरात्मना ॥३०॥

6.107.30 #73b8da9f5236 timing uncertain

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ । परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥३१॥

परस्परवधे युक्तौ घोररूपौ बभूवतुः । मण्डलानि च वीथीश्च गतप्रत्यागतानि च ॥३२॥

दर्शयन्तौ बहुविधां सूतसामर्थ्यजां गतिम् । अर्दयन् रावणं रामो राघवं चापि रावणः ॥३३॥

गतिवेगं समापन्नौ प्रतिवेगप्रवर्तने । क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ॥३४॥

चेरतुह् संयुगमहीं सासारौ जलदाविव । दर्शयित्वा तदा तौ तु गतिं बहुविधां रणे ॥३५॥

परस्परस्याभिमुखौ पुनरेव च तस्थतुः । धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ॥३६॥

पताकाश्च पताकाभिः समीयुः स्थितयोस्तद । रावणस्य ततो रामो धनुर्मुकैः शितैः शरैः ॥३७॥

चतुर्भिश्चतुरो दीप्तान् हयान् प्रत्यपसर्पयत् । स क्रोधवशमापन्नो हयानामपसर्पणे ॥३८॥

मुमोच निशितान् बाणान् राघवाय दशाननः । सोऽतिविद्धो बलवता दशग्रीवेण राघवः ॥३९॥

जगाम न विकारम् च न चापि व्यथितोऽभवत् । चिक्षेप च पुनर्बाणान् वज्रपातसमस्वनान् ॥४०॥

सारथिं वज्रहस्तस्य समुद्दिश्य दशाननः । मातलेस्तु महावेगाः सरीरे पतिताः शराः ॥४१॥

न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि । तया धर्षणया क्रुद्धो मातलेर्न तथात्मनः ॥४२॥

चकार शरजालेन राघवो विमुखं रिपुम् । विंशतिं त्रिंशतिं षष्टिं शतशोऽथ सहस्रशः ॥४३॥

मुमोच राघवो वीरः सायकान् स्यन्दने रपोः । रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः ॥४४॥

गदामुसलवर्षेण रामं प्रत्यर्दयरणे । तत्प्रयुक्तं पुनर्युद्धं तु मुलं रोमहर्षणम् ॥४५॥

गदानां मुसलानां च परिघाणां च निःस्वनैः । शरणां पुङ्खवातैश्च क्षुभिताः सप्त सागराः ॥४६॥

क्षुब्धानां सागराणां च पातालतलवासिनः । व्यथिता दानवाः सर्वे पन्नगाश्च सहस्रशः ॥४७॥

चकम्पे मेदिनी कृत्स्ना सशैलवनकानना । भास्करो निष्प्रभश्चासीन्न ववौ चापि मारुतः ॥४८॥

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । चिन्तामापेदिरे सर्वे सकिंनरमहोरगाः ॥४९॥

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकास्तिष्ठन्तु शाश्वताः । जयतां राघवः संख्ये रावणं राक्षसेश्वरम् ॥५०॥

एवं जपन्तोऽपश्यंस्ते देवाः सर्षिगणास्तदा । रामरावणयोर्युद्धं सुघोरं रोमहर्षणम् ॥५१॥

गन्धर्वाप्सरसां संघा दृष्ट्वा युद्धमनूपमम् । गगनं गगनाकारं सागरः सागरोपमः ॥५२॥

रामरावणयोर्युद्धं रामरावणयोरिव । एवं ब्रुवन्तो ददृशुस्तद्युद्धं रामरावणम् ॥५३॥

ततः क्रोधान्महाबाहू रघूणां कीर्तिवर्धनः । संधाय धनुषा रामः शरमाशीविषोपमम् ॥५४॥

रावणस्य शोरोऽच्छिन्दच्छ्रीमज्ज्वलितकुण्डलम् । तच्छिरः पतितं भूमौ दृष्टं लोकैस्त्रिभिस्तदा ॥५५॥

तस्यैव सदृशं चान्यद्रावणस्योत्थितं शिरः । तत् क्षिप्तं क्षिप्रहस्तेन रामेण क्षिप्रकारिणा ॥५६॥

द्वितीयं रावणशिरश्चिन्नं संयति सायकैः । चिन्नमात्रं च तच्छीर्षं पुनरेव प्रद्श्यते ॥५७॥

तदप्यशनिसंकाशैश्छिन्नं रामस्य सायकैः । एवमेव शतं चिन्नं शिरसां तुल्यवर्चसाम् ॥५८॥

न चैव रावणस्यान्तो दृश्यते जीवितक्षये । ततः सर्वास्त्रविद्वीरः करुसल्यानन्दवर्धनः ॥५९॥

मार्गणैर्बहुभिर्युक्तश्चिन्तयामास राघवः । मारीचो निहतो यैस्तु खरो यैस्तु सदूषणः । क्रौञ्चावने विराधस्तु कबन्दो दण्डके वने । यैः साला गिरयो भग्ना वाली च क्षुभितोऽम्बुधिः ॥६०॥

त इमे सायकाः सर्वे युद्धे प्रात्ययिका मम । किं नु तत्कारणं येन रावणे मन्दतेजसः ॥६१॥

इति चिन्तापरश्चासी दप्रमत्तश्च संयुगे । ववर्ष शरवर्षाणि राघवो रावणोरसि ॥६२॥

रावणोऽपि ततः क्रुद्धो रथस्थो राक्षसेश्वरः । गदामुसलवर्षेण रामं प्रत्यर्दयद्रणे ॥६३॥

तत्प्रवृत्तं महद्युद्धं तुमुलं रोमहर्षणम् । अन्तरिक्षे च भूमौ च पुनश्च गिरिमूर्धनि ॥६४॥

देवदानवयक्षाणां पिशाचोरगरक्षसाम् । पश्यतां तन्महायुद्धं सप्तरात्रमवर्तत ॥६५॥

नैव रात्रिं न दिवसं न मुहूर्तं न च क्षणम् । रामरावणयोर्युद्धं विराममुपगच्छति ॥६६॥

दशरथसुतराक्षसेन्द्रयो । र्जयमनवेक्ष्य रणे स राघवस्य । सुरवररथसारथिर्महात्मा । रणरतराममुवाच वाक्यमाशु ॥६७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्तोत्तरशततमः सर्गः ॥

Listen to the sarga
0:00