अथ सस्मारयामास मातली राघवं तदा । अजानन्निव किं वीर त्वमेनमनुवर्तसे ॥१॥
अष्टोत्तरशरतमः सर्गः 6.108
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो । विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ॥२॥
ततः संस्मारितो रामस्तेन वाक्येन मातलेः । जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम् ॥३॥
यं तस्मैन् प्रथमं प्रादादगस्त्यो भगवानृषिः । ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥४॥
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा । दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥५॥
यस्य वाजेषु पवनः फले पावकबास्करौ । शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥६॥
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् । तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥७॥
सधूममिव कालाग्निं दीप्तमाशीविषोपमम् । नरनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥८॥
द्वाराणां परिघाणां च गिरीणां चापि भेदनम् । नानारुधिरदिग्धाङ्गं मेदोदिग्धं सुदारुणम् ॥९॥
वज्रसारं महानादं नानासमितिदारणम् । सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥१०॥
कङ्कगृध्रबकानां च गोमायुगणरक्षसाम् । नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम् ॥११॥
नन्दनं वानरेन्द्राणां रक्षसामवसादनम् । वाजितं विविधर्वाजैश्चारुचित्रैर्गरुत्मतः ॥१२॥
तमुत्तमेषुम् लोकानामिक्ष्वाकुभयनाशनम् । द्विषतां कीर्तिहरणम् प्रहर्षकरमात्मनः ॥१३॥
अभिमन्त्र्य ततो रामस्तं महेषुं महाबलः । वेदप्रोक्तेन विधिना संदधे कार्मुके बली ॥१४॥
तस्मिन् संधीयमाने तु राघवेण शरोत्तमे । सर्वभूतानि संत्रेसुश्चचाल च वसुंधरा ॥१५॥
स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् । चिक्षेप परमायत्तः शरं मर्मविदारणम् ॥१६॥
स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः । कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥१७॥
स विसृष्तो महावेगह् शरीरान्तकरः शरः । च्छेद हृदयं तस्य रावणस्य दुरात्मनः ॥१८॥
रुधिराक्तह् स वेगेन शरीरान्तकरः शरः । रावणस्य हरन् प्राणान् विवेश धरणीतलम् ॥१९॥
स शरो रावणं हत्वा रुधिरार्रीकृतच्छविः । कृतकर्मा निभृतवत्स्वतूणीं पुनराविशत् ॥२०॥
तस्य हस्तद्धतस्याशु कार्मुकं च ससायकम् । विपपात सह प्राणैर्भ्रुश्यमानस्य जीवितात् ॥२१॥
गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः । पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥२२॥
तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः । हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः ॥२३॥
सर्वतश्चाभिपेतुस्तान् वानरा द्रुमयोधिनः । दशग्रीववधं दृष्ट्वा वानरा जितकाशिनः ॥२४॥
अत्दिता वानरैर्भ्रष्टा लङ्कामभ्यपतन् भयात् । हताश्रयत्वात्करुणैर्बाष्पप्रस्रवणैर्मुखैः ॥२५॥
ततो विनेदुः संहृष्टा वानरा जितकाशिनः । वदन्तो राघवजयं रावणस्य च तद्वधम् ॥२६॥
अथान्तरिक्षे व्यनदत्सौम्य्स्त्रिदशदुन्दुभिः । दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥२७॥
निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि । किरन्ती रघवरथं दुरवापा मनोहरा ॥२८॥
राघवस्तवसंयुक्ता गगने च विशुश्रुवे । साधु साध्विति वागग्य्रा देवतानां महात्मनाम् ॥२९॥
आविवेश महान् हर्षो देवानां चारणैः सह । रावने निहते रौद्रे सर्वलोकभयंकरे ॥३०॥
ततः सकामं सुग्रीवमङ्गदं च विभीषणम् । चकार राघवः प्रीतो हत्वा राक्षसपुंगवम् ॥३१॥
ततः प्रजग्मुः प्रशमं मरुद्गणा । दिशः प्रसेदुर्विमलं नभोऽभवत् । मही चकम्पे न च मारुतो ववौ । स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥३२॥
ततस्तु सुग्रीवविभीषणाङ्गदाः । सुहृद्विशिष्टाः सहलक्ष्मणास्तदा । समेत्य हृष्टा विजयेन राघवं । रणेऽभिरामं विधिनाभ्यपूजयन् ॥३३॥
स तु निहररिपुह् स्थिरप्रतिज्ञः । स्वजनबलाभिवृतो रणे रराज । रघुकुलनृपनन्दनो महुजा । स्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥३४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टोत्तरशरतमः सर्गः ॥