भ्रातरं निहतं दृष्ट्वा शयानं निर्जितं रणे । शोकवेगपरीतात्मा विललाप विभीषणः ॥१॥
नवाधिकशततमः सर्गः 6.109
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
वीर विक्रान्त विख्यात प्रवीण नयकोविद । महार्हशयनोपेत किं शेषे निहतो भुवि ॥२॥
निक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ । मुकुटेनापवृत्तेन भास्कराकारवर्चसा ॥३॥
तदिदं वीर संप्राप्तं यन्मया पूर्वमीरितम् । काममोहपरीतस्य यत्त्न्न रुचितं तव ॥४॥
यन्न दर्पात् प्रहस्तो वा नेन्द्रजिन्नापरे जनाः । न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः ॥५॥
न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः । गतः सेतुः सुनीतीनां गतो धर्मस्य विग्रहः ॥६॥
गतः सत्त्वस्य संक्षेपह् प्रस्तावानां गतिर्गता । आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ॥७॥
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः । अस्मिन्निपतिते वीरे भूमौ शस्त्रभृतां वरे ॥८॥
किं शेषमिह लोकस्य गतस्त्त्वस्य संप्रति । रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ॥९॥
धृतिप्रवालः प्रसहाग्र्यपुष्प । स्तपोबलः शौर्यनिबद्धमूलः । रणे महान् राक्षसराजवृक्षः । संमर्दितो राघवमारुतेन ॥१०॥
तेजोविषाणः कुलवंशवंशः । कोपप्रसादापरगात्रहस्तः । इक्ष्वाकुसिंहावगृहीतदेहः । सुप्तः क्षितौ रावणगन्धहस्ती ॥११॥
पराक्रमोत्साहविजृम्भितार्चि । र्निःश्वासधूमः स्वबलप्रतापः । प्रतापवान् संयति राक्षसाग्नि । र्निर्वापितो रामपयोधरेण ॥१२॥
सिंहर्क्षलाङ्गूलककुद्विषाणः । पराभिजिद्गन्धनगन्धहस्ती । रक्षोवृषश्चापलकर्णचक्षुः । क्षितीश्वरव्याग्रहतोऽवसन्नः ॥१३॥
वदन्तं हेतुमद्वाक्यं परिदृष्टर्थनिश्चयम् । रामः शोकसमाविष्टमित्युवाच विभीषणम् ॥१४॥
नायं विनष्टो निश्चेष्टः समरे चण्डविक्रमः । अत्युन्नतमहोत्साहः पतितोऽयमशङ्कितः ॥१५॥
नैवं विनष्टाः शोच्यन्ते क्षत्रधर्मव्यवस्थिताः । वृद्धिमाशंसमाना ये निपतन्ति रणाजिरे ॥१६॥
येन सेन्द्रास्त्रयो लोकास्त्रासिता युधि धीमता । तस्मिन् कालसमायुक्ते न कालः परिशोचितुम् ॥१७॥
नैकान्तविजयो युद्धे भूतपूर्वः कदाचन । परैर्वा हन्यते वीरः परान्वा हन्ति संयुगे ॥१८॥
इयं हि पूर्वैः संदिष्टा गतिः क्षत्रियसंमता । क्षत्रियो निहतः संख्ये न शोच्य इति निश्चयः ॥१९॥
तदेवं निश्चयं दृष्ट्वा तत्त्वमास्थाय विज्वरः । यदिहानन्तरं कार्यं कल्प्यं तदनुचिन्तय ॥२०॥
योऽयं विमर्देष्वविभग्नपूर्वः । सुरैः समस्तैरपि वासवेन । भवन्तमासाद्य रणे विभग्नो । वेलामिवासाद्य यथा समुद्रः ॥२१॥
अनेन दत्तानि वनीपकेषु । भुक्ताश्च भोगा निभृताश्च भृत्याः । धनानि मित्रेषु समर्पितानि । वैराण्यमित्रेषु निपातितानि ॥२२॥
एषोहिताग्निश्च महातपाश्च । वेदन्तगः कर्मसु चाग्र्यशूरः । एतस्य यत्प्रेतगतस्य कृत्यं । तत्कर्तुमिच्छामि तव प्रसादात् ॥२३॥
स तस्य वाक्यैः करुणैर्महात्मा । संबोधितः साधु विभीषणेन । आज्ञापयामास नरेन्द्रसूनुः । स्वर्गीयमाधानमदीनसत्त्वः ॥२४॥
मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । क्रियतामस्य संस्कारो ममाप्येष यथा तव ॥२५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे नवाधिकशततमः सर्गः ॥