रामायणम्

दशाधिकशततमः सर्गः 6.110

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

रावणम् निहतं दृष्ट्वा राघवेण महात्मना । अन्तःपुराद्विनिष्पेतू राक्षस्यः शोककर्शिताः ॥१॥

वार्यमाणः सुबहुशो वेष्टन्त्यः क्षितिपांसुषु । विमुक्तकेश्यः शोकार्ता गावो वत्सहता यथा ॥२॥

उत्तरेण विनिष्क्रम्य द्वारेण सह राक्षसैः । प्रविश्यायोधनं घोरं विचिन्वन्त्यो हतं पतिम् ॥३॥

आर्यपुत्रेति वादिन्यो हा नाथेति च सर्वशः । परिपेतुः कबन्धाङ्कां महीं शोणितकर्दमाम् ॥४॥

ता बाष्पपरिपूर्णाक्ष्यो भर्तृशोकपराजिताः । करेण्व इव नर्दन्त्यो विनेदुर्हतयूथपाः ॥५॥

ददृशुस्ता महाकायं महावीर्यं महद्युतिम् । रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥६॥

ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु । निपेतुस्तस्य गात्रेषु छिन्ना वनलता इव ॥७॥

बहुमानात्परिष्वज्व काचिदेवं रुरोद ह । चरणौ काचिदालम्ब्य काचित्कण्ठेऽवलम्ब्य च ॥८॥

उत्क्षिप्य च भुजौ काचिद् भूमौ सुपरिवर्तते । हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥९॥

काचिदङ्के शिरः कृत्वा रुरोद मुखमीक्षती । स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥१०॥

एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि । चुक्रुशुर्बहुधा शोकाद्भूयस्ताः पर्यदेवयन् ॥११॥

येन वित्रासितः शक्रो येन वित्रासितो यमः । येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥१२॥

गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् । भयं येन रणे दत्तं सोऽयं शेते रणे हतः ॥१३॥

असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योऽपि वा तथा । भयं यो न विजानाति तस्येदं मानुषाद् भयम् ॥१४॥

अवध्यो देवतानां यस्तथा दानवरक्षसाम् । हतः सोऽयं रणे शेते मानुषेण पदातिना ॥१५॥

यो न शक्यः सुरैर्हन्तुं न यक्षैर्नासुरैस्तथा । सोऽयं कश्चिदिवासत्त्वो मृत्युं मर्येन लम्भितः ॥१६॥

एवं वदन्त्यो रुरुदस्तस्य ता दुःखिताः स्त्रियः । भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥१७॥

अशृण्वता तु सुहृदां सततं हितवादिनाम् । मरणायाहृता सीता राक्षसाश्च निपातिताः ॥१८॥

एताः सममिदानीं ते वयमात्मा च पातितः । ब्रुवाणोऽपि हितं वाक्यमिष्टो भ्राता विभीषणः ॥१९॥

धृष्टं परुषितो मोहात्त्वयात्मवधकाङिक्ष्णा । यदि निर्यातिता ते स्वात्सीता रामाय मैथिली ॥२०॥

न नः स्याद्व्यसनं घोरमिदं मूलहरं महत् । वृत्तकामो भवेद्भ्राता रामो मित्रकुलं भवेत् ॥२१॥

वयं चाविधवाः सर्वाः सकामा न च शत्रवः । त्वया पुनर्नृशंसेन सीतां संरुन्धता बलात् ॥२२॥

राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् । न कामकारः कामं वा तव राक्षसपुंगव| दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥२३॥

वानराणाम् विनाशोऽयं राक्षसानां च ते रणे । तव चैव महाबाहो दैवयोगादुपाग्तः ॥२४॥

नै वार्थेन न कामेन विक्रमेण न चाज्ञया । शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥२५॥

विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः । कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः ॥२६॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे दशाधिकशततमः सर्गः ॥

Listen to the sarga
0:00