तासां विलपमानानां तथा राक्षसयोषिताम् । ज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥१॥
एकादशाधिकशततमः सर्गः 6.111
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
दशग्रीवन् हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । पतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥२॥
ननु नाम महाबाहो तव वैश्रवणानुज । क्रुद्धस्य प्रमुखे स्थातुन् त्रस्यत्यपि पुरन्दरः ॥३॥
ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः । ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥४॥
स त्वं मानुषमात्रेण रामेण युधि निर्जितः । न व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ॥५॥
कथन् त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । अविषह्यन् जघान त्वं मानुषो वनगोचरः ॥६॥
मानुषाणामविषये चरतः कामरूपिणः । विनाशस्तव रामेण सन्युगे नोपपद्यते ॥७॥
न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे । सर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥८॥
यदैव च जनस्थाने राक्षनैर्बहुभिर्वृतः । खरस्तव हतो भ्राता तदैवानौ न मानुषः ॥९॥
यदिअव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि । प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥१०॥
यदिअव वानरैर्घोरैर्बद्दः सेतुर्महार्णवे । तदैव हृदयेनाहं शङ्के रामममानुषम् ॥११॥
अथवा रामरूपेण कृतान्तः स्वयमागतः । मायां तव विनाशाय विधायाप्रतितर्किताम् ॥१२॥
अथवा वासवेन त्वं धर्षितोऽसि महाबल । वासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे ॥१३॥
व्यक्तमेष महायोगी परमात्मा सनातनः । अनादिमध्यनिधनो महतः परमो महान् ॥१४॥
तमसः परमो धाता शङ्खचक्रगदाधरः । श्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥१५॥
मानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः । सर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥१६॥
सर्वलोकेश्वरः श्रीमान् लोकानां हितकाम्यया । सराक्षस परीवारम् हतवांस्त्वां महाद्युतिः ॥१७॥
इन्द्रियाणि पुरा जित्वा जितन् त्रिभुवणं त्वया । स्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥१८॥
यदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः । खरस्तव हतो भ्राता तदैवासौ न मानुषः ॥१९॥
यदैव नगरीन् लङ्कान् दुष्प्रवेषां सुरैरपि । प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥२०॥
क्रियतामविरोधश्च राघवेणेति यन्मया । उच्यमानो न गृह्णासि तस्येयन् व्युष्टिरागता ॥२१॥
अकस्माच्चाभिकामोअसि सीतान् राक्षसपुङ्गव । ऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥२२॥
अरुन्धत्या विशिष्टान् तान् रोहिण्याश्चापि दुर्मते । सीतान् धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥२३॥
वसुधाया हि वसुधां श्रियः श्रीं भर्तृवत्सलाम् । सीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥२४॥
आनयित्वा तु तां दीनां चद्मनात्मस्वदूषण । अप्राप्य तं चैव कामं मैथिलीसंगमे कृतम् ॥२५॥
पतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो । तदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् ॥२६॥
देवा बिभ्यत ते सर्वे सेन्द्राः साग्निपुरोगमाः । अवश्यमेव लभते फलं पापस्य कर्मणः । घोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥२७॥
शुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते । विभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥२८॥
सन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः । अनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥२९॥
न कुलेन न रूपेण न दाक्षिण्येन मैथिली । मयाधिका वा तुल्या वा त्वन् तु मोहान्न बुध्यसे ॥३०॥
सर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः । तव तावदयं मृत्युर्मैथिलीकृतलक्षणः ॥३१॥
सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः । मैथिली सह रामेण विशोका विहरिष्यति ॥३२॥
अल्पपुण्या त्वहन् घोरे पतिता शोकसागरे । कैलासे मन्दरे मेरौ तथा चैत्ररथे वने ॥३३॥
देवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया । विमानेनानुरूपेण या याम्यतुलया श्रिया ॥३४॥
पश्यन्ती विविधान्देशान्स्तान्स्तांश्चित्रस्रगम्बरा । भ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव ॥३५॥
हा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् ॥३६॥
कान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः । किरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ॥३७॥
मदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु । विविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ॥३८॥
तदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो । रामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः ॥३९॥
वीशीर्णमेदोमस्तिष्कं रूक्षम् स्यन्दनरेणुभिः । हा पश्चिमा मे संप्राप्त दशा वैधव्यदायिनी ॥४०॥
या मयासीन्न संबुद्धा कदाचिदपि मन्दया । पिता दानवराजो मे भर्ता मे राक्षसेश्वरः ॥४१॥
पुत्रो मे शक्रनि र्जेता इत्यहं गर्विता भृशम् । दृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः ॥४२॥
अकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्दृढा । तेषामेवंप्रभावाणां युष्माकं राक्षसर्षभाः ॥४३॥
कथं भयमसंबुद्धं मानुषादिदमागतम् । स्निग्देन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ॥४४॥
केयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम् । कान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु ॥४५॥
भात्यभरणभाभिर्यद्विद्युद्भिरिव तोयदः । तदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम् ॥४६॥
पुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते । श्वाविधः शलकैर्यद्वद्बाणैर्लग्नैर्निरन्तरम् ॥४७॥
स्वर्पितैर्मर्मसु भृशं संचिन्नस्नायुबन्धनम् । क्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि ॥४८॥
व्ज्रप्रहाराभिहतो विकीर्ण इव पर्वतः । हा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ॥४९॥
त्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः । त्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ॥५०॥
जेतारं लोकपालानां क्षेप्तारं शंकरस्य च । दृप्तानां निग्रहीतारमाविष्कृतपराक्रमम् ॥५१॥
लोकक्षोभयितारं च नादैर्भूतविराविणम् । ओजसा दृप्तवाक्यानां वक्तारं रिपुसंनिधौ ॥५२॥
स्वयूथभृत्यगोप्तारं हन्तारंभीमकर्मणाम् । हन्तारं दानवेन्द्राणाम् यक्षाणां च सहस्रशः ॥५३॥
निवातकवचानां च संग्रहीतारमाहवे । नैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ॥५४॥
धर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे । देवासुरनृकन्यानामाहर्तारं ततस्ततः ॥५५॥
शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च । लङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ॥५६॥
अस्माकं कामभोगानां दातारं रथिनां वरम् । एवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ॥५७॥
स्थिरास्मि या देहमिमं धारयामि हतप्रिया । शयनेषु महार्हेषु शयित्वा राक्षसेश्वर ॥५८॥
इह कस्मात्प्रासुप्तोऽसि धरण्यां रेणुगुण्ठितः । यदा ते तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि ॥५९॥
तदा त्वभिहता तीच्रमद्य त्वस्मि निपातिता । साहं बन्धुजनैर्हीना हीना नाथेन च त्वया ॥६०॥
विहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः । प्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम् ॥६१॥
नय मामपि दुःखार्तां न वर्तिष्ये त्वया विना । कस्मात्त्वं मां विहायेह कृपणाम् गन्तुमिच्छसि ॥६२॥
दीनां विलपतीं मन्दां किं वा मां नाभिभाषसे । दृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम् ॥६३॥
निर्गतां नगरद्वारात्पद्भ्यामेवागतां प्रभो । पश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान् ॥६४॥
बहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि । अयम् क्रीडासहायस्तेऽनाथो लालप्यते जनः ॥६५॥
न चैनमाश्वासयसि किं वा न बहुमन्यसे । यास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः ॥६६॥
पतिव्रता धर्मरता गुरुशुश्रूषणे रताः । ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥६७॥
त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् । प्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप ॥६८॥
पतिव्रतानां नाकस्मात्पतन्त्यश्रूनि भूतले । कथं च नाम ते राजन् लोकानाक्रम्य तेजसा ॥६९॥
नारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना । अपनीयाश्रमाद्रामं यन्मृगच्चद्मना त्वया ॥७०॥
आनीता रामपत्नी स तत्ते कातर्यलक्षणम् । कातर्यं न च ते युद्धे कदाचित्संस्मराम्यहम् ॥७१॥
तत्तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम् । अतीतानागतार्थज्ञो वर्तमानविचक्षणः ॥७२॥
मैथिलीमाहृताम् दृष्ट्वा ध्यात्वा निःश्वस्य चायतम् । सत्यवाक्स महाबाहो देवरो मे यदब्रवीत् ॥७३॥
अयन् राक्षसमुख्यानां विनाशः पर्युपस्थितः । कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥७४॥
निर्वृत्तस्त्वत्कृतेऽनर्थः सोऽयं मूलहरो महान् । त्वया कृतमिदन् सर्वमनाथं रक्षसान् कुलम् ॥७५॥
न हि त्वन् शोचितव्यो मे प्रख्यातबलपौरुषः । स्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥७६॥
सुकृतन् दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः । आत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् ॥७७॥
सुहृदां हितकामानां न श्रुतं वचनं त्वया । भ्रातृइणां चैव कार्त्स्न्येन हितमुक्तं दशानन ॥७८॥
हेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् । विभीषणेनाभिहितं न कृतं हेतुमत्त्वया ॥७९॥
मारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा । न श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥८०॥
नीलजीमूतसंकाश पीताम्भर शुभाङ्गद । स्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः ॥८१॥
प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे । महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ॥८२॥
यातुधानस्य दौहित्र किं मां न प्रतिभाषसे । उत्तिष्ठोत्तिष्ट किं शेषे नवे परिभवे कृते ॥८३॥
अद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः । येन सूदयसे शत्रून् समरे सूर्यवर्चसा ॥८४॥
वज्रं वज्रधरस्येव सोऽयं ते सततार्चितः । रणे बहुप्रहरणो हेमजालपरिष्कृतः ॥८५॥
परिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा । प्रियामिवोपसंगृह्य किम् शेषे रणमेदिनीम् ॥८६॥
अप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् । धिगस्तु हृदयन् यस्या ममेदं न सहस्रधा ॥८७॥
त्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् । इत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा ॥८८॥
स्नेहोपस्कन्नहृदया तदा मोहमुपागमत् । कश्मलाभिहता सन्ना बभौ सा रावणोरसि ॥८९॥
संध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला । तथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः ॥९०॥
पर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् । किं ते न विदिता देवि लोकानां स्थितिरध्रुवा ॥९१॥
दशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः । इत्येवमुच्यमाना सा सशब्दं प्ररुदोद ह ॥९२॥
स्नापयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम् । एतस्मिन्नन्तरे रामो विभीषणमुवाच ह ॥९३॥
सन्स्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय । तमुवाच ततो धीमान् विभीषण इदं वचः ॥९४॥
विमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं हितम् । त्यक्तधर्मव्रतन् क्रूरं नृशन्समनृतं तथा ॥९५॥
नाहमर्होअस्मि सन्स्कर्तुं परदाराभिमर्शकम् । भ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ॥९६॥
रावणो नार्हते पूजां पूज्योअपि गुरुगौरवात् । नृशन्स इति मान् राम वक्ष्यन्ति मनुजा भुवि ॥९७॥
श्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः । तच्छ्रुत्वा परमप्रीतो रामो धर्मभृतान् वरः ॥९८॥
विभीषणमुवाचेदन् वाक्यज्ञो वाक्यकोविदम् । तवापि मे प्रियन् कार्यं त्वत्प्रभवाच्च मे जितम् ॥९९॥
अवश्यन् तु क्षमन् वाच्यो मया त्वं राक्षसेश्वर । अधर्मानृतसन्युक्तः काममेष निशाचरः ॥१००॥
तेजस्वी बलवाञ्शूरः सङ्ग्रामेषु च नित्यशः । शतक्रतुमुखैर्देवैः श्रूयते न पराजितः ॥१०१॥
महात्मा बलसम्पन्नो रावणो लोकरावणः । मरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ॥१०२॥
क्रियतामस्य सन्स्कारो ममाप्येष यथा तव । त्वत्सकाशान्महाबाहो सन्स्कारन् विधिपूर्वकम् ॥१०३॥
पाप्तु मर्हति धर्मेण त्वं यशोभाग्भविष्यसि । राघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ॥१०४॥
सन्स्कारेणानुरूपेण भ्रातरं रावणम् हतम् । स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः ॥१०५॥
रावनस्याग्निहोत्रं तु निर्यापयति सत्वरम् । शकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा ॥१०६॥
तथा चन्दनकाष्ठानि काष्ठानि विविधानि च । अगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा ॥१०७॥
मणिमुक्ताप्रवाळानि निर्यापयति राक्षसः । आ जगाम मुहूर्तेन राक्षसैः परिवारितः ॥१०८॥
ततो माल्यवता सार्धं क्रियामेव चकार सः । सौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम् ॥१०९॥
रावणं राक्षसाधिशमश्रुपूर्णमुखा द्विजाः । तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ॥११०॥
पताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम् । उत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः ॥१११॥
दक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे । अग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः ॥११२॥
शरणाभिगताह् सर्वे पुरस्तत्तस्य ते ययुः । अन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् ॥११३॥
पृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः । रावणम् प्रयते देशे स्थाप्य ते भृशदुःखिताः ॥११४॥
चितां चन्दनकाष्ठैश्च पद्मकोशीरसंवृताम् । ब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम् ॥११५॥
वर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः । प्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम् ॥११६॥
वेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम् । पृषदाज्येन संपूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः ॥११७॥
पादयोः शकटं प्रादुरूर्वोश्चोलूखलं तदा । दारुपात्रानि सर्वाणि अरणिं चोत्तरारणिम् ॥११८॥
दत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥११९॥
तत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः । परिस्तरणीकां राज्ञोघृताक्तां समवेशयन् ॥१२०॥
गन्धैर्माल्यैरलंकृत्य रावणं दीनामानसाः ॥१२१॥
विभीषणसहायास्ते वस्त्त्रैश्च विविधैरपि । लाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा ॥१२२॥
स ददौ पावकन् तस्य विधियुक्तन् विभीषणः । स्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान् ॥१२३॥
उदकेन च संमिश्रान् प्रदाय विधिपूर्वकम् । प्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च ॥१२४॥
ताः स्त्रियोअनुनयामास सान्त्वमुक्त्वा पुनः पुनः । गम्यतामिति ताः सर्वा विविशुर्नगरं ततः ॥१२५॥
प्रविष्टासु च सर्वासु राक्षसीषु विभीषणः । रामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ॥१२६॥
रामोअपि सह सैन्येन ससुग्रीवः सलक्ष्मणः । हर्षन् लेभे रिपुं हत्वा यथा वृत्रं वज्रधरो यथा ॥१२७॥
ततो विमुक्त्वा सशरं शरासनं । महेन्द्रदत्तं कवचं च तन्महत् । विमुच्य रोषं रिपुनिग्रहात्ततो । रामः सुसौम्यत्वमुपागतोऽरिह ॥१२८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकादशाधिकशततमः सर्गः ॥