ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः । जग्मुः स्वैः स्वै र्विमानैस्ते कथयन्तः शुभाः कथाः ॥१॥
द्वादशाधिकशततमः सर्गः 6.112
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥२॥
अनुरागं च वीर्यं च सौमित्रे र्लक्ष्मणस्य च । पतिव्रतात्वम् सीताया हनूमति पराक्रमम् ॥३॥
कथयन्तो महाभागा जग्मुर्हृष्ट यथागतम् । राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ॥४॥
अनुज्ञाय महाबाहुर्मातलिं प्रत्यपूजयत् । राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ॥५॥
दिव्यं तं तथमास्थाय दिवमेवोत्पपात ह । तस्मिंस्तु दिवमारुढे सरथे रथिनां वरः ॥६॥
राघवः परमप्रीतः सुग्रीवं परिषस्वजे । पर्ष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ॥७॥
पूज्यमानो हरिगणैराजगाम बलालयम् । अथोवाच स काकुत्स्थः समीपपरिवर्तिनम् ॥८॥
सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं शुभलक्षणम् । विभीषणमिमं सौम्य लङ्कायामभिषेचय ॥९॥
अनुरक्तं च भक्तं च तथा पूर्वोपकारिणम् । एष मे परमः कामो यदिमं रावणानुजम् ॥१०॥
लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् । एवमुक्तस्तु सौमित्री राघवेण महात्मना ॥११॥
तथेत्युक्त्वा सुसंहृष्टः सौवर्णम् घटमाददे । तं घटं वानरेन्द्राणाम् हस्ते दत्त्वा मनोजवान् ॥१२॥
व्यादिदेश महासत्त्वः समुद्रसलिलं तदा । अतिशीघ्रम् ततो गत्वा वानरास्ते मनोजवाः ॥१३॥
आगतास्तु जलं गृह्य समुद्राद्वानरोत्तमाः । ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ॥१४॥
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् । लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ॥१५॥
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतः । अभ्यषिञ्चंस्तदा सर्वे राक्षसा वानरास्तथा ॥१६॥
प्रहर्षमतुलं गत्वा तुष्टुवू राममेव ह । तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥१७॥
दृष्ट्वाभिष्क्तं लङ्कायां राक्षसेन्द्रं विभीषणम् । राघवः प्रमां प्रीतिं जगाम सहलक्ष्मणः ॥१८॥
स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः । प्रकृतीः सान्त्ययित्वा च ततो राममुपागमत् ॥१९॥
दध्यक्षतान् मोदकांश्च लाजाः सुमनसस्तथा । आजह्रुरथ संतुष्टाः पौरास्तस्मै निशाचराः ॥२०॥
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ॥२१॥
माङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् । कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ॥२२॥
प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया । ततह् शैलोपमं वीरं प्राञ्जलिं प्रणतं स्थितम् ॥२३॥
उवाचेदं वचो रामो हनूमन्तं प्लवङ्गमम् । अनुज्ज़्नाप्य महाराजमिमं सौम्य विभीषणम् ॥२४॥
प्रविश्य नगरीं लङ्कां कौशलं ब्रूहिमैथिलीम् । वैदेह्यै मां कुशलिनं सुग्रीवं च सलक्ष्मणम् ॥२५॥
अचक्ष्व वदतां श्रेष्ठ रावणं च हतं रणे । प्रियमेतदुदाहृत्य वैदेह्यस्त्वं हरीश्वर ॥२६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्वादशाधिकशततमः सर्गः ॥