इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः । प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥१॥
त्रयोदशाधिकशततमः सर्गः 6.113
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
प्रविश्य च पुरीं लङ्कामनुङ्ञ्प्य विभीषणम् । ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम् ॥२॥
संप्रविश्य यथान्यायम् सीताया विदितो हरिः । ददर्श शशिना हीनां सातङ्कामिव रोहिणीम् ॥३॥
वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम् । निभृतः प्रणतः प्रह्वः सोंअभिगम्याभिवाद्य च ॥४॥
दृष्ट्वा समागतं देवी हनूमन्तं महाबलम् । तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत्तदा ॥५॥
सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः । रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥६॥
वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः । विभीषणसहायश्च हरीणां सहितो बलैः ॥७॥
कुशलं चाह सिद्धार्थो हतशत्रुररिन्दमः । विभीषणसहायेन रामेण हरिभिः सह ॥८॥
निहतो रावणो देवि लक्ष्मणस्य नयेन च वीर्यवान् । प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये ॥९॥
तव प्रभावाद्धर्मज्ञे महान् रामेण संयुगे । लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा ॥१०॥
रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता । मया ह्यलब्धनिद्रेण धृतेन तव निर्जये ॥११॥
प्रतिज्ज़्नैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ । संभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये ॥१२॥
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् । तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे ॥१३॥
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः । एवमुक्ता तु सा देवी सीता शशिनिभानना ॥१४॥
प्रहर्षेणावरुद्धा सा व्यहर्तुं न शशाक ह । ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम् ॥१५॥
किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे । एवमुक्ता हनुमता सीता धर्मपथे स्थिता ॥१६॥
अब्रवीत्परमप्रीता बाष्पगद्गदया गिरा । प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रयम् ॥१७॥
प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् । न हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ॥१८॥
मत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् । न च पश्यामि तत्सौम्य पृथिव्यामपि वानर ॥१९॥
सदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् । हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ॥२०॥
राज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् । एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ॥२१॥
प्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः । भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ॥२२॥
स्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् । तवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च ॥२३॥
रत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते । अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ॥२४॥
हतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् । तस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा ॥२५॥
ततः शुभतरं वाक्यमुवाच पवनात्मजम् । अतिलक्षणसंपन्नं माधुर्यगुणभूषितम् ॥२६॥
बुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् । श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः ॥२७॥
ब्लं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् । तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः ॥२८॥
अथोवाच पुनः सीतामसंभ्रातो विनीतवत् ॥२९॥
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः । इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ॥३०॥
हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा । क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ॥३१॥
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः । इह श्रुता मया देवि राक्षस्यो विकृताननाः ॥३२॥
असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया । विकृता विकृताकाराः क्रूताः क्रूरकचेक्षणाः ॥३३॥
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः । राक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे ॥३४॥
मुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने । जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः ॥३५॥
भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा । भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः ॥३६॥
विभिन्नशङ्कुग्रीवांशपार्श्वकैश्च कलेवरैः । निपात्य हन्तुमिच्छमि तव विप्रियकारिणीः ॥३७॥
एवम्प्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि । घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा ॥३८॥
इत्युक्ता सा हनुमता कृपणा दीनवत्सला । हनुमन्तमुवाचेदं चिन्तयित्वा मिमृश्य च ॥३९॥
राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया । विधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥४०॥
भाग्यवैषम्य योगेन पुरा दुश्चरितेन च । मयैतेत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥४१॥
मैवं वद महाबाहो दैवी ह्येषा परा गतिः । प्राप्तव्यं तु दशा योगान्मयैतदिति निश्चितम् ॥४२॥
दासीनां रावणस्याहं मर्षयामीह दुर्बला । आज्ञप्ता रावणेनैता राक्षस्यो माम् अतर्जयन् ॥४३॥
हते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम । अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ॥४४॥
ऋक्षेण गीतः श्लोको मे तं निबोध प्लवङ्गम । न परः पापमादत्ते परेषां पापकर्मणाम् ॥४५॥
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः । पापानां वा शुभानां वा वधार्हाणां प्लवङ्गम ॥४६॥
कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति । लोकहिंसाविहाराणां रक्षसां कामरूपिणम् ॥४७॥
कुर्वतामपि पापानि नैव कार्यमशोभनम् । एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः ॥४८॥
प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् । युक्ता रामस्य भवती धर्मपत्नी यशस्विनी ॥४९॥
प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः । एवमुक्ता हनुमता वैदेही जनकात्मजा ॥५०॥
अब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम । तस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः ॥५१॥
हर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः । पूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् ॥५२॥
स्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् । तामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् ॥५३॥
आजगाम महावेगो हनूमान्यत्र राघवः । सपदि हरिवरस्ततो हनूमान् । प्रतिवचनं जनकेश्वरात्मजायाः । कथितमकथयद्यथाक्रमेण । त्रिदशवरप्रतिमाय राघवाय ॥५४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्रयोदशाधिकशततमः सर्गः ॥