तमुवाच महाप्रज्ञमभिगम्य प्लवङ्गमः । रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥१॥
चतुर्दशाधिकशततमः सर्गः 6.114
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः । तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ॥२॥
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा । मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥३॥
पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया । भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥४॥
एवमुक्तो हनुमता रामो धर्मभृतां वरः । अगच्छत्सहसा ध्यानमासीद्बाष्पपरिप्लुतः ॥५॥
दीर्घमुष्णं च निश्वस्य मेदिनीम् अवलोकयन् । उवाच मेघसङ्काशं विभीषणमुपस्थितम् ॥६॥
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् । इह सीतां शिरःस्नातामुपस्थापय माचिरम् ॥७॥
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्त्रीभिः स्वाभिरचोदयत् ॥८॥
ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः । मूर्ध्नि बद्धाञ्जलिः श्रीमान्विनीतो राक्षसेश्वरः ॥९॥
दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता । यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥१०॥
एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् । अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥११॥
तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः । यथाहं रामो भर्ता ते तत्तथा कर्तुमर्हसि ॥१२॥
तस्य तद्वचनं श्रुत्वा मैथिली भ्रातृदेवता । भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥१३॥
ततः सीतां शिरःस्नातां युवतीभिरलङ्कृताम् । महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥१४॥
आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् । रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥१५॥
सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम् । प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥१६॥
तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् । हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ॥१७॥
ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् । विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् ॥१८॥
राक्षसाधिपते सौम्य नित्यं मद्विजये रत । वैदेही संनिकर्षं मे शीघ्रं समुपगच्छतु ॥१९॥
स तद्वचनमाज्ञाय राघवस्य विभीषणः । तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥२०॥
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः । उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः ॥२१॥
ऋक्षाणां वानराणां च राक्षसानां च सर्वतः । वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः ॥२२॥
तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः । वायुनोद्वर्तमानस्य सागरस्येव निस्वनः ॥२३॥
उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसम्भ्रमान् । दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥२४॥
संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव । विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥२५॥
किमर्थं मामनादृत्य कृश्यतेऽयं त्वया जनः । निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥२६॥
न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः । नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियः ॥२७॥
व्यसनेषु न कृच्छ्रेषु न युद्धे न स्वयं वरे । न क्रतौ नो विवाहे च दर्शनं दुष्यते स्त्रियः ॥२८॥
सैषा युद्धगता चैव कृच्छ्रे महति च स्थिता । दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥२९॥
विसृज्य शिबिकां तस्मात्पद्भ्यामेवोपसर्पतु । समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ॥३०॥
एवमुक्तस्तु रामेण सविमर्शो विभीषणः । रामस्योपानयत्सीतां संनिकर्षं विनीतवत् ॥३१॥
ततो लक्ष्मणसुग्रीवौ हनूमांश्च प्लवङ्गमः । निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥३२॥
कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः । अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥३३॥
लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली । विभीषणेनानुगता भर्तारं साभ्यवर्तत ॥३४॥
विस्मयाच्च प्रहर्षाच्च स्नेहाच्च परिदेवता । उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥३५॥
अथ समपनुदन्मनःक्लमं सा । सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य । वदनमुदितपूर्णचन्द्रकान्तं । विमलशशाङ्कनिभानना तदासीत् ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुर्दशाधिकशततमः सर्गः ॥