रामायणम्

पञ्चदशाधिकशततमः सर्गः 6.115

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तां तु पार्श्वे स्थितां प्रह्वां रामः संप्रेक्ष्ये मैथिलीम् । हृदयान्तर्गतं भावं व्याहर्तुमुपचक्रमे ॥१॥

एषासि निर्जिता भद्रे शत्रुं जित्वा रणाजिरे । पौरुषाद्यदनुष्ठेयं मयैतदुपपादितम् ॥२॥

गतोऽस्म्यन्तममर्षस्य धर्षणा संप्रमार्जिता । अवमानश्च शत्रश्च युगपन्निहतौ मया ॥३॥

अद्य मे पौरुषं दृष्टमद्य मे सफलः श्रमः । अद्य तीर्णप्रतिज्ञोऽहं प्रभवाम्यद्य चात्मनः ॥४॥

या त्वं विरहिता नीता चलचित्तेन रक्षसा । दैवसंपादितो दोषो मानुषेण मया जितः ॥५॥

संप्राप्तमवमानं यस्तेजसा न प्रमार्जति । कस्तस्य पौरुषेणार्थो महताप्यल्पचेतसः ॥६॥

लङ्घुनं समुद्रस्य लङ्कायाश्चापि मर्दनम् । सफलं तस्य च श्लाघ्यमद्य कर्म हनूमतः ॥७॥

युद्धे विक्रमतश्चैव हितं मन्त्रयतस्तथा । सुग्रीवस्य ससैन्यस्य सफलोऽद्य परिश्रमः ॥८॥

विभीषणस्य च तथा सफलोऽद्य परिश्रमः । विगुणं भ्रातरं त्वक्त्वा यो मां स्वयमुपस्थितः ॥९॥

इत्येवं वदतः श्रुत्वा सीता रामस्य तद्वचः । मृगीवोत्फुल्लनयना बभूवाश्रुपरिप्लुता ॥१०॥

पश्यतस्तां तु रामस्य समीपे हृदयप्रियाम् । जनवादभयाद्राज्ञो बभूव हृदयं द्विधा ॥११॥

सीतामुत्पलपत्राक्षीं नीलकुञ्चितमूर्धजाम् । अवदद्वै वरारोहां मध्ये वानररक्षसाम् ॥१२॥

यत्कर्तव्यं मनुष्येण धर्षणां प्रतिमार्जता । तत्कृतं रावणं हत्वा मयेदं मानकाङ्क्क्षिणा ॥१३॥

निर्जिता जीवलोकस्य तपसा भावितात्मना । अगस्त्येन दुराधर्षा मुनिना दक्षिणेव दिक् ॥१४॥

विदितश्चास्तु भद्रं ते योऽयं रणपरिश्रमः । सुतीर्णः सुहृदां वीर्यान्न त्वदर्थं मया कृतः ॥१५॥

रक्षता तु मया वृत्तमपवादम् च सर्वतः । प्रख्यातस्यात्मवंशस्य न्यङ्गं च परिमार्जता ॥१६॥

प्राप्तचारित्रसंदेह मम प्रतिमुखे स्थिता । दीपो नेत्रातुरस्येव प्रतिकूलासि मे दृढम् ॥१७॥

तद्गच्छ त्वानुजानेऽद्य यथेष्टं जनकात्मजे । एता दश दिशो भद्रे कार्यमस्ति न मे त्वया ॥१८॥

कः पुमांस्तु कुले जातह् स्त्रियं परगृहोषिताम् । तेजस्वी पुनरादद्यात् सुहृल्लेख्येन चेतसा ॥१९॥

रावणाङ्कपरिक्लिष्टां दृष्टां दुष्टेन चक्षुषा । कथं त्वां पुनरादद्यां कुलं व्यपदिशन् महत् ॥२०॥

तदर्थं निर्जिता मे त्वं यशः प्रत्याहृतं मया । नास्थ् मे त्वय्यभिष्वङ्गो यथेष्टं गम्यतामितः ॥२१॥

तदद्य व्याहृतं भद्रे मयैतत् कृतबुद्धिना । लक्ष्मणे वाथ भरते कुरु बुद्धिं यथासुखम् ॥२२॥

शत्रुघ्ने वाथ सुग्रीवे राक्षसे वा विभीषणे । निवेशय मनः सीते यथा वा सुखमात्मनः ॥२३॥

न हि त्वां रावणो दृष्ट्वो दिव्यरूपां मनोरमाम् । मर्षयेत चिरं सीते स्वगृहे पर्यवस्थिताम् ॥२४॥

ततः प्रियार्हश्रवणा तदप्रियं । प्रियादुपश्रुत्य चिरस्य मैथिली । मुमोच बाष्पं सुभृशं प्रवेपिता । गजेन्द्रहस्ताभिहतेव वल्लरी ॥२५॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चदशाधिकशततमः सर्गः ॥

Listen to the sarga
0:00