एवमुक्ता तु वैदेही परुषं लोमहर्षणम् । राघवेण सरोषेण भृशं प्रव्यथिताभवत् ॥१॥
षोडशाधिकशततमः सर्गः 6.116
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
सा तदश्रुतपूर्वं हि जने महति मैथिली । श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताभवत् ॥२॥
प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा । वाक्षल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥३॥
ततो बाष्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् । शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥४॥
किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् । रूक्षं श्रावयसे वीर प्राकृतः प्राकृताम् इव ॥५॥
न तथास्मि महाबाहो यथा त्वमवगच्छसि । प्रत्ययं गच्छ मे स्वेन चारित्रेणैव ते शपे ॥६॥
पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे । परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥७॥
यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो । कामकारो न मे तत्र दैवं तत्रापराध्यति ॥८॥
मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते । पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥९॥
सहसंवृद्धभावाच्च संसर्गेण च मानद । यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ॥१०॥
प्रेषितस्ते यदा वीरो हनूमानवलोककः । लङ्कास्थाहं त्वया वीर किं तदा न विसर्जिता ॥११॥
प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् । त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ॥१२॥
न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् । सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ॥१३॥
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता । लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥१४॥
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् । मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ॥१५॥
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ॥१६॥
इति ब्रुवन्ती रुदती बाष्पगद्गदभाषिणी । उवाच लक्ष्मणं सीता दीनं ध्यानपरायणम् ॥१७॥
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । मिथ्यापवादोपहता नाहं जीवितुमुत्सहे ॥१८॥
अप्रीतेन गुणैर्भर्त्रा त्यक्ता या जनसंसदि । या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ॥१९॥
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी । अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥२०॥
स विज्ञाय मनश्छन्दं रामस्याकारसूचितम् । चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥२१॥
न हि रामं तदा कश्चित्कालान्तकयमोपमम् । अनुनेतुमथो वक्तुं द्रष्टुं वा प्यशकत्सुहृत् ॥२२॥
अधोमुखं ततो रामं शनैः कृत्वा प्रदक्षिणम् । उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥२३॥
प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली । बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥२४॥
यथा मे हृदयं नित्यं नापसर्पति राघवात् । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥२५॥
यथा मां शुद्धचरितां दुष्टां जानाति राघवः । तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥२६॥
कर्मणा मनसा वाचा यथा नातिचराम्यहम् । राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥२७॥
आदित्योभवान् वायुर्दिशश्चन्द्रस्तथैव च । अहश्चापि तथा सन्ध्ये रात्रिश्च पृथिवी तथा ॥२८॥
यथान्येऽपि विजानन्ति तथा चारित्रसंयुताम् । एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ॥२९॥
विवेश ज्वलनं दीप्तं निःसङ्गेनान्तरात्मना । जनः स सुमहांस्तत्र बालवृद्धसमाकुलः ॥३०॥
ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् । सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ॥३१॥
पपात ज्वलनं दीप्तं सर्वलोकस्य संनिधौ । ददृशुस्तां विशालाक्षीं पतन्तीं हव्यवाहनम् ॥३२॥
सीतां सर्वाणि रूपाणि रुक्मवेदिनिभां तदा । ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ॥३३॥
सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव । प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ॥३४॥
पतन्तीं संस्कृतां मन्रैर्वसोर्धारामिवाध्वरे । ददृशुस्तां त्रयो लोका देवगन्धर्वदाननाः ॥३५॥
शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव । तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ॥३६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षोडशाधिकशततमः सर्गः ॥