रामायणम्

सप्तदशाधिकश्ततमः सर्गः 6.117

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

ततो हि दुर्मना रामः श्रुत्वैवम् वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥१॥

ततो वैश्रवणो राजा यमश्च पृभिः सह । सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः ॥२॥

षड्र्धनयनः श्रीमान् महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥३॥

एते सर्वे समागम्य विमानैः सूर्यसंनिभैः । आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ॥४॥

ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवंस्त्रिदशश्रेष्ठा राघवं प्राञ्जलिं स्थितम् ॥५॥

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां प्रभुः । उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥६॥

कथं देवगणश्रेष्ठमात्मानं नावबुद्ध्यसे । ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः ॥७॥

त्रयाणामपि लोकानामादिकर्ता स्वयं प्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ॥८॥

अश्विनौ चापि कर्णौ ते सूर्याचन्द्रामसौ दृशौ । अन्ते चादौ च लोकानां दृश्यसे च परंतप ॥९॥

उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा । इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ॥१०॥

अब्रवित्त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः । आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥११॥

सोऽहं यस्य यतश्चाहं भगवंस्तद्ब्रवीतु मे । इति ब्रुवाणं काकुत्थ्सं ब्रह्मा ब्रह्मविदां वरः ॥१२॥

अब्रवीच्छृणु मे वाक्यं सत्यं सत्यपराक्रम । भवान्नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः ॥१३॥

एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् । अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ॥१४॥

लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥१५॥

अजितः खड्गधृग्विष्णुः कृष्णश्चैव महाबलः । सेनानीर्ग्रामणीश्च त्वं त्वं बुद्धि स्त्वं क्षमा दमः ॥१६॥

प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः । इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ॥१७॥

शरण्यं शरणम् च त्वामहुर्दिव्या महर्षयः । सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः ॥१८॥

त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः । सिद्धानामपि साध्यानामाश्रयश्चासि पूर्वजः ॥१९॥

त्वं यज्ञ्स्त्वं वषट्कारस्त्वमोंकारः परात्परः ॥२०॥

प्रभवं निधनं वा ते नो विदुः को भवानिति । दृश्यसे सर्वभूतेषु गोषु च ब्राह्मणेषु च ॥२१॥

दिक्षु सर्वासु गगने पर्वतेषु नदीषु च । सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् ॥२२॥

त्वं धारयसि भूतानि पृथिवीं च सपर्वताम् । अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ॥२३॥

त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् । अहं ते हृदयं राम जिह्वा देवी सरस्वती ॥२४॥

देवा रोमाणि गात्रेषु ब्रह्मणा निर्मिताः प्रभो । निमेषस्ते स्मृता रात्रिरुन्मेषो दिवसस्तथा ॥२५॥

संस्कारास्त्वभवन्वेदा नैतदस्ति त्वया विना । जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥२६॥

अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः । त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः ॥२७॥

महेन्द्रश्च कृतो राजा बलिं बद्ध्वा सुदारुणम् । सीता लक्ष्मीर्भवान् विष्णुर्देवः कृष्णः प्रजापतिः ॥२८॥

वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् । तदिदं नस्त्वया कार्यं कृतं धर्मभृतां वर ॥२९॥

निहतो रावणो राम प्रहृष्टो दिवमाक्रम । अमोघं देव वीर्यं ते न ते मोघाः पराक्रमाः ॥३०॥

अमोघं दर्शनं राम अमोघस्तव संस्तवः । अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि ॥३१॥

ये त्वां देवम् ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् । प्राप्नुवन्ति सदा कामानिह लोके पात्र च ॥३२॥

इममार्षम् स्तवं दिव्यमितिहासं पुरातनम् ॥३३॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे सप्तदशाधिकश्ततमः सर्गः ॥

Listen to the sarga
0:00