एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् । अङ्केनादाय वैदेहीमुत्पपात विभावसुः ॥१॥
शततमः सर्गः 6.118
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
विधूयाथ चितां तां तु विअदेहीं हव्यवाहनः । उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ॥२॥
तरुणादित्यसंकाशां तप्तकाञ्चनभूषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ॥३॥
अक्लिष्टमाल्याभरणां तथारूपामनिन्दिताम् । ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ॥४॥
अब्रवीत्तु तदा रामं साक्षी लोकस्य पावकः । एषा ते राम वैदेही पापमस्यां न विद्यते ॥५॥
नैव वाचा न मनसा नैव बुद्ध्या न चक्षुषा । सुवृत्ता वृत्तशौण्डीर्यं न त्वामत्यचरच्छुभा ॥६॥
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा । त्वया विरहिता दीना विवशा निर्जनाद्वनात् ॥७॥
रुद्ध चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा । रक्षिता राक्षसीभिश्च घोराभिर्घोरबुद्धिभिः ॥८॥
प्रलोभ्यमाना विविधं तर्ज्यमाना च मैथिली । नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ॥९॥
विशुद्धभावां निष्पापां प्रतिगृह्णीष्व मैथिलीम् । न किंचिरभिधातव्या अहमाज्ञापयामि ते ॥१०॥
ततः प्रीतमना रामः श्रुत्वैवं वदतां वरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥११॥
एवमुक्तो महातेजा धृमानुरुविक्रमः । उवाच त्रिदशश्रेष्ठं रामो धर्मभृतां वरः ॥१२॥
अवश्यं चापि लोकेषु सीता पावनमर्हति । दीर्घकालोषिता हीयं रावणान्तःपुरे शुभा ॥१३॥
बालिशो बत कामात्म रामो दशरथात्मजः । इति वक्ष्यति मां लोको जानकीमविशोध्य हि ॥१४॥
अनन्यहृदयां भक्तां मचत्तपरिवर्तिनीम् । अहमप्यवगच्छामि मैथिलीं जनकात्मजाम् ॥१५॥
इमामपि विशालाक्षीं रक्षितां स्वेन तेजसा । रावणो नातिवर्तेत वेल मिव महोदधिः ॥१६॥
प्रत्ययार्थं तु लोकानां त्रयाणाम् सत्यसंश्रयः । उपेक्षे चापि वैदेहीं प्रविशन्तीं हुताशनम् ॥१७॥
न च शक्तः सुदुष्टत्मा मनसापि हि मैथिलीम् । प्रधर्षयितुमप्राप्यां दीप्तामग्निशिखामिव ॥१८॥
नेय मर्हति चैश्वर्यं रावणान्तःपुरे शुभा । अनन्या हि मया सीता भास्करेण प्रभा यथा ॥१९॥
विशुद्धा त्रिषु लोकेषु मैथिली जनकात्मजा । न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥२०॥
अवश्यं च मया कार्यं सर्वेषां वो वचो हितम् । स्निग्धानां लोकनाथानामेवं च वदतां हितम् ॥२१॥
इत्येवमुक्त्वा विजयी महाबलः । प्रशस्यमानह् स्वकृतेन कर्मणा । समेत्य रामः प्रियया महायशाः । सुखं सुखार्होऽनुबभूव राघवः ॥२२॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टादशाधिक शततमः सर्गः ॥