रामायणम्

एकोनविंशत्यधिकशततमः सर्गः 6.119

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् । इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥१॥

पुष्कराक्ष महाबाहो महावक्षः परन्तप । दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ॥२॥

दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः । अपावृत्तं त्वया सङ्ख्ये राम रावणजं भयम् ॥३॥

आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् । कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥४॥

प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् । इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥५॥

इष्ट्वा तुरगमेधेन प्राप्य चानुत्तमं यशः । ब्राह्मणेभ्यो धनं दत्त्वा त्रिदिवं गन्तुमर्हसि ॥६॥

एष राजा विमानस्थः पिता दशरथस्तव । काकुत्स्थ मानुषे लोके गुरुस्तव महायशाः ॥७॥

इन्द्रलोकं गतः श्रीमांस्त्वया पुत्रेण तारितः । लक्ष्मणेन सह भ्रात्रा त्वमेनमभिवादय ॥८॥

महादेववचः श्रुत्वा काकुत्स्थः सहलक्ष्मणः । विमानशिखरस्थस्य प्रणाममकरोत्पितुः ॥९॥

दीप्यमानं स्वयां लक्ष्म्या विरजोअम्बरधारिणम् । लक्ष्मणेन सह भ्रात्रा ददर्श पितरं प्रभुः ॥१०॥

हर्षेण महताविष्टो विमानस्थो महीपतिः । प्राणैः प्रियतरं दृष्ट्वा पुत्रं दशरथस्तदा ॥११॥

आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः । बाहुभ्यां सम्परिष्वज्य ततो वाक्यं समाददे ॥१२॥

न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः । त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥१३॥

अद्य त्वां निहतामित्रं दृष्ट्वा संपूर्णमानसम् । निस्तीर्णवनवासं च प्रीतिरासीत्परा मम ॥१४॥

कैकेय्या यानि चोक्तानि वाक्यानि वदतां वर । तव प्रव्राजनार्थानि स्थितानि हृदये मम ॥१५॥

त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् । अद्य दुःखाद्विमुक्तोअस्मि नीहारादिव भास्करः ॥१६॥

तारितोअहं त्वया पुत्र सुपुत्रेण महात्मना । अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥१७॥

इदानीं च विजानामि यथा सौम्य सुरेश्वरैः । वधार्थं रावणस्येह विहितं पुरुषोत्तमम् ॥१८॥

सिद्धार्था खलु कौसल्या या त्वां राम गृहं गतम् । वनान्निवृत्तं संहृष्टा द्रक्ष्यते शत्रुसूदन ॥१९॥

सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् । राज्ये चैवाभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ॥२०॥

अनुरक्तेन बलिना शुचिना धर्मचारिणा । इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् ॥२१॥

चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया । वसता सीतया सार्धं लक्ष्मणेन च धीमता ॥२२॥

निवृत्तवनवासोअसि प्रतिज्ञा सफला कृता । रावणं च रणे हत्वा देवास्ते परितोषिताः ॥२३॥

कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन । भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥२४॥

इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् । कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ॥२५॥

सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया । स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो ॥२६॥

तथेति महाराजो राममुक्त्वा कृताञ्जलिम् । लक्ष्मणं च परिष्वज्य पुनर्वाक्यमुवाच ह ॥२७॥

रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया । कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥२८॥

धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि । रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥२९॥

रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन । रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥३०॥

एते सेन्द्रास्त्रयो लोकाः सिद्धाश्च परमर्षयः । अभिगम्य महात्मानमर्चन्ति पुरुषोत्तमम् ॥३१॥

एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् । देवानां हृदयं सौम्य गुह्यं रामः परन्तपः ॥३२॥

अवाप्तं धर्मचरणं यशश्च विपुलं त्वया । एनं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥३३॥

इत्युक्त्वा लक्ष्मणं राजा स्नुषां बद्धाञ्जलिं स्थिताम् । पुत्रीत्याभाष्य मधुरं शनैरेनामुवाच ह ॥३४॥

कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति । रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥३५॥

सुदुष्करमिदं पुत्रि तव चारित्रलक्षणम् । कृतं यत्तेऽन्यनारीणां यशो ह्यभिभविष्यति ॥३६॥

न त्वं सुभ्रु समाधेया पतिशुश्रूवणं प्रति । अवश्यं तु मया वाच्यमेष ते दैवतं परम् ॥३७॥

इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् । इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥३८॥

विमानमास्थाय महानुभावः । श्रिया च संहृष्टतनुर्नृपोत्तमः । आमन्त्य्र पुत्रौ सह सीतया च । जगाम देवप्रवरस्य लोकम् ॥३९॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकोनविंशत्यधिकशततमः सर्गः ॥

Listen to the sarga
0:00