प्रतिप्रयाते काकुत्थ्से महेन्द्रः पाकशासनः । अब्रवीत् परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥१॥
विंशत्यधिकशततमः सर्गः 6.120
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
अमोघं दर्शनं राम तवास्माकं नरर्षभ । प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेप्सितम् ॥२॥
एवमुक्तो महेन्द्रेण प्रसन्नेन महात्मना । सुप्रसन्नमना हृष्टो वचनम् प्राह राघवः ॥३॥
यदि प्रीतिः समुत्पन्ना मयि ते विबुधेश्वर । वक्ष्यामि कुरु मे सत्यम् वचनं वदतां वर ॥४॥
मम हेतोः पराक्रान्ता ये गता यमसादनम् । ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥५॥
मत्कृते विप्रयुक्ता ये पुत्रैर्दारैश्च वानराः । तान् प्रीतमनसः सर्वान् द्रष्टुमिच्छामि मानद ॥६॥
विक्रान्ताश्चापि शूराश्च न मृत्युं गणयन्ति च । कृतयत्ना विपन्नाश्च जीवयैनान् पुरंदर ॥७॥
मत्प्रियेष्वभिरक्ताश्च न मृत्युं गणयन्ति ये । त्वत्प्रसादात्समेयुस्ते वरमेतमहं वृणे ॥८॥
नीरुजो निर्व्रणांश्चैव संपन्नबलपौरुषान् । गोलाङ्गूलांस्तथर्क्षांश्च द्रष्टुमिच्छामि मानद ॥९॥
अकाले चापि पुष्पाणि मूलानि च फलानि च । नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥१०॥
श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः । महेन्द्रह् प्रत्युवाचेदं वचनं प्रीतिसंयुतम् ॥११॥
महानयं वरस्तात यस्त्वयोक्तो रघुत्तम । द्विर्मया नोक्तपुर्वं च तस्मादेवद्भविष्यति ॥१२॥
समुत्तिष्ठन्तु ते सर्वे हता ये युधि राक्षसैः । ऋक्षाश्च सह गोपुच्छैर्निकृत्ताननबाहवः ॥१३॥
नीरुजो निर्व्रिणाश्चव संपन्नबलपौरुषाः । समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥१४॥
सुहृद्भिर्बान्धवैश्चव ज्ञातिभिः स्वजनेन च । सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥१५॥
अकाले पुष्पशबलाः फलवन्तश्च पादपाः । भविष्यन्ति महेष्वास नद्यश्च नलिलायुताः ॥१६॥
सव्रणैः प्रथमं गात्रैरिदानीं निर्व्रणैः समैः । ततः समुत्थिताः सर्वे सुप्त्वेव हरियूथपाः ॥१७॥
बभूवुर्वानराः सर्वे किं न्वेतदिति विस्मिताः । काकुत्थ्सं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ॥१८॥
अब्रुवन् परमप्रीताः स्तुत्वा रामं सलक्ष्मणम् । गच्छायोध्यामितो राजन् विसर्जय च वानरान् ॥१९॥
मैथिलीं सान्त्वयस्वैनामनुरक्तां यशस्विनीम् । भ्रातरं भरतं पश्य त्वच्छोकाद्व्रतचारिणम् ॥२०॥
शत्रुघ्नं च महात्मानं मातृइः सर्वाः परंतप । अभिषेचय चात्मानम् पौरान्गत्वा प्रहर्षय ॥२१॥
एवमुक्त्वा सहस्राक्षो रामं सौमित्रिणा सह । विमानैः सूर्यसंकाशैर्ययौ हृष्टः सुरैह् सह ॥२२॥
अभिवाद्य च काकुत्थ्सः सर्वांस्तांस्त्रिदशोत्तमान् । लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ॥२३॥
ततस्तु सा लक्ष्मणरानुपालिता । महाचमूर्हृष्टजना यशस्विनी । श्रिया ज्वलन्तीविरराज सर्वतो । निशा प्रणीतेव हि शीतरश्मिना ॥२४॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे विंशत्यधिकशततमः सर्गः ॥