रामायणम्

एकविंशत्यधिकशततमः सर्गः 6.121

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

तां रात्रिमुषितं रामं सुखोदितमरिंदमम् । अब्रवीत् प्राञ्जलिर्वाक्यं जयम् पृष्ट्वा विभीषणः ॥१॥

स्नानानि चाङ्गारागाणि वस्त्राण्याभरणानि च । चन्दनानि च माल्यानि दिव्यानि विविधानि च ॥२॥

अलंकारविदश्चैता नार्यः पद्मनिभेक्षणाः । उपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥३॥

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् । हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥४॥

सत् उ ताम्यति धर्मात्मा मम हेतोः सुखोचितः । सुकुमारो महाबाहुर्भरतः सत्यसंस्रयः ॥५॥

तं विना कैकयीपुत्रम् भरतं धर्मचारिणम् । न मे स्नानं बहुमतं वस्त्राण्यानि च ॥६॥

एतत् पश्य यथा क्षिप्रं प्रतिगच्छाम ताम् पुरीम् । अयोध्याम् गच्छतो ह्येष पन्थाह् परमदुर्गमः ॥७॥

एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः । अह्ना त्वां प्रापयिष्यामि ताम् पुरीं पार्थिवात्मज ॥८॥

पुष्पकं नाम भद्रं ते विमानं सूर्यसम्निभम् । मम भ्रातुः कुबेरस्य रावणेन बलीयसा ॥९॥

हृतं निर्जित्य सम्ग्रामे कामगं दिव्यमुत्तमम् । त्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम ॥१०॥

तदिदं मेघसंकाशं विमानमिह तिष्ठति । येन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥११॥

अहम् ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् । वस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥१२॥

लक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह । अर्चितह् सर्वकामैस्त्वं ततो राम गमिष्यसि ॥१३॥

प्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः । सत्क्रियां राम मे तावद्गृहाण त्वं मयोद्यताम् ॥१४॥

प्रणयाद्बहुमानाच्च सौहार्देन च राघव । प्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥१५॥

एवमुक्तस्ततो रामह् प्रत्युवाच विभीषणम् । रक्षसां वानराणां च सर्वेषमेव शृण्वताम् ॥१६॥

पूजितोऽस्मि त्वया वीर साचिव्येन परंतप । सर्वत्मना च चेष्टाभिः सौहार्देन परेण च ॥१७॥

न खल्वेतन्न कुर्याम् ते वचनं राक्षसेश्वर । तं तु मे भ्रातरं द्रष्टुम् भरतं त्वरते मनः ॥१८॥

मां निवर्तयितुं योऽसौ चित्रकूटमुपागतः । शिरसा याचतो यस्य वचनम् न कृतं मया ॥१९॥

कौसल्यां च सुमित्राम् च कैकेयीं च यशस्विनीम् । गुहम् च सुहृदं चैव पौरान् जनपदैः सह ॥२०॥

अनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण । मन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये ॥२१॥

उपस्थापय मे शीघ्रं विमानं राक्षसेश्वर । कृतकार्यस्य मे वासह् कथम् स्यादिह संमतः ॥२२॥

एवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषनः । विमानं सूर्यसम्काशमाजुहाव त्वरान्वितः ॥२३॥

ततः काञ्चत्राङ्गं वैदूर्यमणिवेदिकम् । काञ्चनं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥२४॥

पाण्डुराभिह् पताकाभिर्ध्वजैश्च समलंकृतम् । काञ्चनं काञ्चनैर्हर्म्यैर्हेमपद्मविब्बूषितैः ॥२५॥

प्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम् । घण्टाजालैः परिक्षिप्तम् सर्वतो मधुरस्वनम् ॥२६॥

तं मेरुशिखराकारं निर्मितम् विश्वकर्मणा । बृहद्बिर्भूषितं हर्म्योर्मुक्तारजतशोभितैः ॥२७॥

तलैह् स्फटिकचित्राङ्गर्वैदूर्यैश्च वरासनैः । महार्हस्तरणोपेतैरुपपन्नं महाधनैः ॥२८॥

उपस्थितमनाधृष्यं तद्विमानं मनोजवम् । निवेदयित्वा रामायतस्थौ तत्र विभीषणः ॥२९॥

तत्पुष्पकम् कामगमं विमान । मुपस्थितम् भूधरसंनिकाशम् । दृष्ट्वा तदा विस्मयमाजगाम । रामः ससौमित्रिरुदारस्त्त्वः ॥३०॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकविंशत्यधिकशततमः सर्गः ॥

Listen to the sarga
0:00