उपस्थितम् तु तं कृत्वा पुष्पकं पुष्पभूषितम् । अविदूरे स्थितो राममित्युवाच विभीषणः ॥१॥
द्वाविंशत्यधिकशततमः सर्गः 6.122
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
स तु बद्धाञ्जलिपुटो विनीतो राक्षसेश्वरः । अब्रवीत्त्वरयोपेतः किं करोमीति राघवम् ॥२॥
तमब्रवीन्महातेजा लक्ष्मणस्योपशृण्वतः । विमृश्य राघवो वाचमिदं स्नेहपुरस्कृतम् ॥३॥
कृतप्रयत्नकर्माणः सर्व एव वनेचराः । रत्नैरर्थैश्च विविधैः संपूज्यन्तां विभीषण ॥४॥
सहामीभिस्त्वया लङ्का निर्जिता राक्षसेश्वर । हृष्टैः प्राणभयं त्यक्त्वा संग्रामेष्वनिवर्तिभिः ॥५॥
त इमे कृतकर्माणः सर्व एव वनौकसः । धनरत्नप्रदानेन कर्मैषां सफलं कुरु ॥६॥
एवम् संमानिताश्चैते नन्द्यमाना यथा त्वया । भविष्यन्ति कृतज्ञेन निर्विऋता हरियूथपाः ॥७॥
त्यागिनं संग्रहीतारं सानुक्रोशं जितेन्द्रियम् । सर्वे त्वामभिगच्छन्ति ततः संबोधयामि ते ॥८॥
हीनं रतिगुणैः सर्वैरभिहन्तारमाहवे । सेना त्यजति संविग्ना नृपतिं तं नरेश्वर ॥९॥
एवमुक्तस्तु रामेण वानरांस्तान्विभीषणः । रत्नार्थसंविभागेन सर्वानेवाभ्यपूजयत् ॥१०॥
ततस्तान् पूजितान् दृष्ट्वा रत्नार्थैर्हरियूथपान् । आरुरोह तदा रामस्तद्विमानमनुत्तमम् ॥११॥
अङ्केनादाय वैदेहीं लज्जमानां यशस्विनीम् । लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मता ॥१२॥
अब्रवीत्स विमानस्थः पूजयन् सर्ववानरान् । सुग्रीवं च महावीर्यम् काकुत्स्तः सविभीषणम् ॥१३॥
मित्रकार्यम् कृतमिदं भवद्भिद्वानरर्षभाः । अनुज्ञाता मया सर्वे यथेष्टम् प्रतिगच्छत ॥१४॥
यत्तु कार्यं वयस्येन स्निग्धेन च हितेन च । कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥१५॥
किष्किन्धां प्रतियाह्यशु स्वसैन्येनाभिसंवृतः । स्वराज्ये वस लङ्कायां मया दत्ते विभीषण ॥१६॥
न त्वां धर्षयितुं शक्ताः सेन्द्रा अपि दिवौकसः । अयोध्यां प्रतियास्यामि राजधानीं पितुर्मम ॥१७॥
अभ्यनुज्ञातुमिच्छमि सर्वानामन्त्रयामि वः । एवमुक्तास्तु रामेण हरीन्द्रा हरयस्तथा ॥१८॥
ऊचुः प्राञ्जलयः सर्वे राक्षसश्च विभीषणः । अयोध्यां गन्तुमिच्छामः सर्वान् नयतु नो भवान् ॥१९॥
मुद्युक्ता विचरिष्यामो वनान्युपननानि च । दृष्ट्वा त्वामभिषेकार्द्रं कौसल्यामभिवाद्य च ॥२०॥
अचिरादागमिष्यामः स्वगृहान्नृपसत्तम । एवमुक्तः स धर्मात्मा वानरैः सविभीषणैः ॥२१॥
अब्रवीद्वानरान्रामः ससुग्रीवविभीषणान् । प्रियाअत्प्रियतरं लब्धं यदहं ससुहृज्जनः ॥२२॥
सर्वैर्भवद्भिः सहितः प्रीतिं लप्स्ये पुरीं गतः । क्षिप्रमारोह सुग्रीव विमानं वानरैः सह ॥२३॥
त्वमप्यारोह सामात्यो राक्षसेन्द्र विभीषण । ततह् स पुष्पकं दिव्यं सुग्रीवः सह वानरैः ॥२४॥
आरुरोह मुदा युक्तः समात्यश्च विभीषणः । तेष्वारूढेषु सर्वेषु कौबेरम् परमासनम् ॥२५॥
राघवेणाभ्यनुज्ञातमुत्पपात विहायसम् । खगतेन मिवानेन हंसयुक्तेन भास्वता ॥२६॥
प्रहृष्टश्चप्रतीतश्च बभौ रामः कुबेरवत् । ते सर्वे वानरर्क्षश्च राक्षसाश्च महाबलाः ॥२७॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्वाविंशत्यधिकशततमः सर्गः ॥