रामायणम्

त्रयोविंशत्यधिकशततमः सर्गः 6.123

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

अनुज्ञातन् तु रामेण तद्विमानमनुत्तमम् । उत्पपात महामेघः श्वसनेनोद्धतो यथा ॥१॥

पातयित्वा ततश्चक्षुः सर्वतो रघुनन्दनः । अब्रवीन्मैथिलीन् सीतां रामः शशिनिभाननाम् ॥२॥

कैलासशिखराकारे त्रिकूटशिखरे स्थिताम् । लङ्कामीक्षस्व वैदेहि निर्मितान् विश्वकर्मणा ॥३॥

एतदायोधनं पश्य मान्सशोणितकर्दमम् । हरीणान् राक्षसानान् च सीते विशसनं महत् ॥४॥

अत्र दत्तवरः शेते प्रमाथी राक्षसेश्वरः । तव हेतोर्विशालाक्षि रावणो निहतो मया ॥५॥

कुम्भकर्णोअत्र निहतः प्रहस्तश्च निशाचरः । धूम्राक्षश्चात्र निहतो वानरेण हनूमता ॥६॥

विद्युन्माली हतश्चात्र सुषेणेन महात्मना । लक्ष्मणेनेन्द्रजिच्चात्र रावणिर्निहतो रणे ॥७॥

अङ्गदेनात्र निहतो विकटो नाम राक्षसः । विरूपाक्षश्च दुष्प्रेक्ष्यो महापार्श्वमहोदरौ ॥८॥

अकम्पनश्च निहतो बलिनोअन्ये च राक्षसाः । त्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ ॥९॥

युद्धोन्मत्तश्च मत्तश्च राक्षसप्रवरावुभौ । निकुम्भश्चैव कुम्भश्च कुम्भकर्णात्मजौ बली ॥१०॥

वज्रदंष्ट्रश्च दंष्ट्रश्च बहवो राक्षसा हताः । मकराक्ष्च दुर्धर्षो मया युधि निपातितः ॥११॥

अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान् । यूपाक्षश्च प्रजङ्घश्च निहतौ तु म्हाहवे ॥१२॥

विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः । यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः ॥१३॥

सूर्यशत्रुश्च निहतो ब्रह्मशत्रुस्तथापरः । अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ॥१४॥

सपत्नीनान् सहस्रेण सास्रेण परिवारिता । एतत्तु दृश्यते तीर्थन् समुद्रस्य वरानने ॥१५॥

यत्र सागरमुत्तीर्य तान् रात्रिमुषिता वयम् । एष सेतुर्मया बद्धः सागरे सलिलार्णवे ॥१६॥

तवहेतोर्विशालाक्षि नलसेतुः सुदुष्करः । पश्य सागरमक्षोभ्यन् वैदेहि वरुणालयम् ॥१७॥

अपारमभिगर्जन्तन् शङ्खशुक्तिनिषेवितम् । हिरण्यनाभन् शैलेन्द्रन् काञ्चनं पश्य मैथिलि ॥१८॥

विश्रमार्थन् हनुमतो भित्त्वा सागरमुत्थितम् । एतत् कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ॥१९॥

अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः । एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः ॥२०॥

सेतुबन्ध इति ख्यातं त्रैलोक्येन च पूजितम् । एतत्पवित्रं परमं महापातकनाशनम् ॥२१॥

अत्र राक्षसराजोऽयमाजगाम विभीषणः । एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥२२॥

सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः । अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ॥२३॥

अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्वसा । सुग्रीवप्रियभार्याभिस्ताराप्रमुखातो नृप ॥२४॥

अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् । गन्तुमिच्छे सहायोध्यां राजधानीं त्वया सह ॥२५॥

एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् । एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ॥२६॥

विमानं प्रेक्ष्य सुग्रीवं काक्यमेतदुवाच ह । ब्रूहि वानरशार्दूल सरान् वानरपुङ्गवान् ॥२७॥

स्त्रीभिः परिवृताह् सर्वे ह्ययोध्यां यान्तु सीतया । तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ॥२८॥

अभित्वरस्व सुग्रीव गच्छामः प्लवगाधिप । एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ॥२९॥

वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः । प्रविश्यान्तःपुरं शीघ्रम् तारामुद्वीक्ष्य सोऽब्रवीत् ॥३०॥

प्रिये त्वं सहनारीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥३१॥

त्वर त्वमभिगच्छामो गृह्य वानरयोषितः । अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥३२॥

सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना । आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ॥३३॥

सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः । मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥३४॥

प्रवेशम् चैव रामस्य पौरजानपदैः सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥३५॥

तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः । नेपथ्यविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम् ॥३६॥

अध्यारोहन्विमानं तत्सीतादर्शनकाङ्क्षया । ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ॥३७॥

ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् । दृश्यतेअसौ महान्सीते सविद्युदिव तोयदः ॥३८॥

ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः । अत्राहन् वानरेन्द्रेण सुग्रीवेण समागतः ॥३९॥

समयश्च कृतः सीते वधार्थन् वालिनो मया । एषा सा दृश्यते पम्पा नलिनी चित्रकानना ॥४०॥

त्वया विहीनो यत्राहन् विललाप सुदुःखितः । अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ॥४१॥

अत्र योजनबाहुश्च कबन्धो निहतो मया । दृश्यतेअसौ जनस्थाने सीते श्रीमान्वनस्पतिः ॥४२॥

यत्र युद्धं महद्वृत्तन् तवहेतोर्विलासिनि । रावणेन हतो यत्र पक्षिणां प्रवरो बली ॥४३॥

खरश्च निहतश्सङ्ख्ये दूषणश्च निपातितः । त्रिशिराश्च महावीर्यो मया बाणैरजिह्मगैः ॥४४॥

पर्णशाला तथा चित्रा दृश्यते शुभदर्शना । यत्र त्वं राक्षसेन्द्रेण रावणेन हृता बलात् ॥४५॥

एषा गोदावरी रम्या प्रसन्नसलिला शिवा ॥४६॥

अगस्त्यस्याश्रमो ह्येष दृश्यते कदलीवृतः । दीप्तश्चैवाश्रमो ह्येष सुतीक्ष्णस्य महात्मनः ॥४७॥

6.123.47 #1090b1bc095c timing uncertain

दृश्यते चैव शरभङ्गाश्रमो महान् । उपयातः सहस्राक्षो यत्र शक्रः पुरन्दरः ॥४८॥

एते ते तापसावासा दृश्यन्ते तनुमध्यमे । अत्रिः कुलपतिर्यत्र सूर्यवैश्वानरप्रभः ॥४९॥

अस्मिन्देशे महाकायो विराधो निहतो मया । अत्र सीते त्वया दृष्टा तापसी धर्मचारिणी ॥५०॥

असौ सुतनुशैलेन्द्रश्चित्रकूटः प्रकाशते । यत्र मान् कैकयीपुत्रः प्रसादयितुमागतः ॥५१॥

एषा सा यमुना दूराद्दृश्यते चित्रकानना । भरद्वाजाश्रमो श्रीमानेष दृश्यते चैष मैथिलि ॥५२॥

इयं च दृश्यते गङ्गा पुण्या त्रिपथगा नदी । नानाद्विजगणाकीर्णा संप्रपुष्पितकानना ॥५३॥

शृङ्गवेरपुरन् चैतद्गुहो यत्र समागतः । एषा त्रिपथगा गङ्गा दृश्यते वरवर्णिनि ॥५४॥

6.123.54 #54003189bf79 timing uncertain

नानातरुशताकीर्णा संप्रपुष्पितकानना । एषा सा दृश्यतेअयोध्या राजधानी पितुर्मम ॥५५॥

अयोध्यान् कुरु वैदेहि प्रणामं पुनरागता । ततस्ते वानराः सर्वे राक्षसश्च विभीषणः ॥५६॥

उत्पत्योत्पत्य ददृशुस्तां पुरीन् शुभदर्शनाम् । ततस्तु तां पाण्डुरहर्म्यमालिनीं । विशालकक्ष्यान् गजवाजिसङ्कुलाम् । पुरीमयोध्यान् ददृशुः प्लवङ्गमाः । पुरीं महेन्द्रस्य यथामरावतीम् ॥५७॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्रयोविंशत्यधिकशततमः सर्गः ॥

Listen to the sarga
0:00