रामायणम्

शततमः सर्गः 6.124

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ॥१॥

सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् । शृणोषि कच्चिद्भगवन् सुभिक्षानामयं पुरे ॥२॥

कच्चित्स युक्तो भरतो जीवन्त्यपि च मातरः । एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ॥३॥

प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् । पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ॥४॥

पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे । त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ॥५॥

स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् । पदातिं त्यक्तसर्वस्वं पितृनिर्देशकारिणम् ॥६॥

सर्वभोगैः परित्यक्तं स्वर्गच्युतम्वामरम् । दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिंजय ॥७॥

कैकेयीवचने युक्तं वन्यमूलफलाशिनम् । सांप्रतम् तु समृद्धार्थं समित्रगणबान्धवम् ॥८॥

समीक्ष्य विजितारिं च ममाभूत्प्रीतिरुत्तमा । सर्वं च सुखकुःखं ते विदितं ममम् राघव । यत्त्वया विपुलं प्राप्तं जनस्थाननिवासिना ॥९॥

ब्राह्मणार्थे नियुक्तस्य रक्षतः सर्वतापसान् । रावणेन हृता भार्या बभूवेयमनिन्दिता ॥१०॥

मारीचदर्शनं चैव सीतोन्मथनमेव च । कबन्धदर्शनं चैव पम्पाभिगमनं तथा ॥११॥

सुग्रीवेण च ते सख्यं यथा वाली हतस्त्वया । मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च ॥१२॥

विदितायां च सीतायां नलसेतुर्यथा कृतः । यथा चादीपिता लङ्का प्रहृष्टूररियूथपैः ॥१३॥

सपुत्रबान्दवामात्यः सबलः सहावाहनः । यथा च निहतः संख्ये रावणो बलदर्पितः ॥१४॥

यथा च निहते तस्मिन् रावणे देवकण्टके । समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ॥१५॥

सर्वम् ममैतद्विदितं तपसा धर्मवत्सल । संपतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः ॥१६॥

मित्राणि धन धान्यानि प्रजानां सम्मतानिव । जननी नन्म भूमिश्च स्वर्गादपि गरीयसी ॥१७॥

तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः । बाढमित्येव संहृष्टः श्रीमान्वरमयाचत ॥१८॥

अकालफलिनो वृक्षाः सर्वे चापि मधुस्रवाः । फलान्यमृतगन्धीनि बहूनि विविधानि च ॥१९॥

भवन्तु मार्गे भवन्नयोध्यां प्रति गच्छतः । तथेति च प्रतिज्ञाते वचनात्समनन्तरम् ॥२०॥

अभवन्पादपास्तत्र स्वर्गपादपसंनिभाः । निष्फलाः फलिनश्चासन्विपुष्पाः पुष्पशालिनः ॥२१॥

शुष्काः समग्रपत्रास्ते नगाश्चैव मधुस्रवाः । सर्वतो योजनास्त्रिस्रो गच्छतामभवंस्तदा ॥२२॥

ततः प्रहृष्टाः प्लवगर्षभास्ते । बहूनि दिव्यानि फलानि चैव । कामादुपाश्नन्ति सहस्रशस्ते । मुदान्विताः स्वर्गजितो मुदेव ॥२३॥

इत्यार्षे श्रीमद्रामायने आदिकाव्ये युद्धकाण्डे चतुर्विंशत्यधिक शततमः सर्गः ॥

Listen to the sarga
0:00