अयोध्यां तु समालोक्य चिन्तयामास राघवः । प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमम् अयोध्यां तु समालोक्य चिन्तयामास राघवः । प्रियकामः प्रियं रामस्ततस्त्वरितविक्रमः ॥१॥
पञ्चविंशत्यधिकशततमः सर्गः 6.125
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
चिन्तयित्वा ततो दृष्टिं वानरेषु न्यपातयत् । उवाच धीमांस्तेजस्वी हनूमन्तं प्लवङ्गमम् ॥२॥
अयोध्यां त्वरितो गच्छ क्षिप्रं त्वं प्लवगोत्तम । जानीहि कच्चित्कुशली जनो नृपतिमन्दिरे ॥३॥
शृङ्गवेरपुरं प्राप्य गुहं गहनगोचरम् । निषादाधिपतिं ब्रूहि कुशलं वचनान्मम ॥४॥
श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् । अविष्यति गुहः प्रीतः स ममात्मसमः सखा ॥५॥
अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च । निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः ॥६॥
भरतस्तु त्वया वाच्यः कुशलं वचनान्मम । सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् ॥७॥
हरणं चापि वैदेह्या रावणेन बलीयसा । सुग्रीवेण च संवादं वालिनश्च वधं रणे ॥८॥
मैथिल्यन्वेषणं चैव यथा चाधिगता त्वया । लङ्घयित्वा महातोयमापगापतिमव्ययम् ॥९॥
उपयानं समुद्रस्य सागरस्य च दर्शनम् । यथा च कारितः सेतू रावणश्च यथा हतः ॥१०॥
वरदानं महेन्द्रेण ब्रह्मणा वरुणेन च । महादेवप्रसादाच्च पित्रा मम समागमम् ॥११॥
उपयातं च मां सौम्य भरताय निवेदय । सह राक्षसराजेन हरीणामीश्वरेण च ॥१२॥
जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः । उपयाति समृद्धार्थः सह मित्रैर्महाबलः ॥१३॥
एतच्छ्रुत्वा यमाकारं भजते भरतस्ततः । स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति ॥१४॥
ज्ञेयाः सर्वे च वृत्तान्ता भरतस्येङ्गितानि च । तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च ॥१५॥
सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् । पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः ॥१६॥
संगत्या भरतः श्रीमान्राज्येनार्थी स्वयं भवेत् । प्रशास्तु वसुधां सर्वामखिलां रघुनन्दनः ॥१७॥
तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर । यावन्न दूरं याताः स्मः क्षिप्रमागन्तुमर्हसि ॥१८॥
इति प्रतिसमादिष्टो हनूमान्मारुतात्मजः । मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ ॥१९॥
अथोत्पपात वेगेन हनूमान् मारुतात्मजः । गरुत्मानिव वेगेन जिघृक्षन् पन्नगोत्तमम् ॥२०॥
लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् । गङ्गायमुनयोर्भीमं संनिपातमतीत्य च ॥२१॥
शृङ्गवेरपुरं प्राप्य गुहमासाद्य वीर्यवान् । स वाचा शुभया हृष्टो हनूमानिदमब्रवीत् ॥२२॥
सखा तु तव काकुत्स्थो रामः सत्यपराक्रमः । ससीतः सह सौमित्रिः स त्वां कुशलमब्रवीत् ॥२३॥
पञ्चमीमद्य रजनीमुषित्वा वचनान्मुनेः । भरद्वाजाभ्यनुज्ञातं द्रक्ष्यस्यद्यैव राघवम् ॥२४॥
एवमुक्त्वा महातेजाः सम्प्रहृष्टतनूरुहः । उत्पपात महावेगो वेगवानविचारयन् ॥२५॥
सोऽपश्यद्रामतीर्थं च नदीं वालुकिनीं तथा । वरूथीं गोमतीं चैव भीमं सालवनं तथा ॥२६॥
प्रजाश्च बहुसाहस्रीः स्फीतान् जनपदानपि । स गत्वा दूरमध्वानं त्वरितः कपिकुञ्जरः ॥२७॥
आससाद द्रुमान्फुल्लान्नन्दिग्रामसमीपजान् । सुराधिपस्योपवने यथा चैत्ररथे द्रुमान् ॥२८॥
स्त्रीभिः सपुत्रैर्वृद्धैश्च रममाणैः स्वलंकृतैः । क्रोशमात्रे त्वयोध्यायाश्चीरकृष्णाजिनाम्बरम् ॥२९॥
ददर्श भरतं दीनं कृशमाश्रमवासिनम् । जटिलं मलदिग्धाङ्गं भ्रातृव्यसनकर्शितम् ॥३०॥
फलमूलाशिनं दान्तं तापसं धर्मचारिणम् । समुन्नतजटाभारं वल्कलाजिनवाससं ॥३१॥
नियतं भावितात्मानं ब्रह्मर्षिसमतेजसं । पादुके ते पुरस्कृत्य शासन्तं वै वसुन्धराम् ॥३२॥
चतुर्वर्ण्यस्य लोकस्य त्रातारं सर्वतो भयात् । उपस्थितममात्यैश्च शुचिभिश्च पुरोहितैः ॥३३॥
बलमुख्यैश्च युक्तैश्च काषायाम्बरधारिभिः । न हि ते राजपुत्रं तं चीरकृष्णाजिनाम्बरम् ॥३४॥
परिमोक्तुं व्यवस्यन्ति पौरा वै धर्मवत्सलाः । तं धर्ममिव धर्मज्ञं देववन्तमिवापरम् ॥३५॥
उवाच प्राञ्जलिर्वाकय्ं हनूमान्मारुतात्मजः । वसन्तं दण्डकारण्ये यं त्वं चीरजटाधरम् ॥३६॥
अनुशोचसि काकुत्स्थं स त्वा कुशलमब्रवीत् । प्रियमाख्यामि ते देव शोकं त्यक्ष्यसि दारुणम् ॥३७॥
अस्मिन्मुहूर्ते भ्रात्रा त्वं रामेण सह सङ्गतः । निहत्य रावणं रामः प्रतिलभ्य च मैथिलीम् ॥३८॥
उपयाति समृद्धार्थः सह मित्रैर्महाबलैः । लक्ष्मणश्च महातेजा वैदेही च यशस्विनी ॥३९॥
सीता समग्रा रामेण महेन्द्रेण शची यथा । एवमुक्तो हनुमता भरतः कैकयीसुतः ॥४०॥
पपात सहसा हृष्टो हर्षान्मोहमुपागमत् । ततो मुहूर्तादुत्थाय प्रत्याश्वस्य च राघवः ॥४१॥
हनुमन्तमुवाचेदं भरतः प्रियवादिनम् । अशोकजैः प्रीतिमयैः कपिमालिङ्ग्य सम्भ्रमात् ॥४२॥
सिषेच भरतः श्रीमान् विपुलैरश्रुबिन्दुभिः । देवो वा मानुषो वा त्वमनुक्रोशादिहागतः ॥४३॥
प्रियाख्यानस्य ते सौम्य ददामि ब्रुवतः प्रियम् । गवां शतसहस्रं च ग्रामाणां च शतं परम् ॥४४॥
सकुण्डलाः शुभाचारा भार्याः कन्याश्च षोडश । हेमवर्णाः सुनासोरूः शशिसौम्याननाः स्त्रियः ॥४५॥
सर्वाभरणसम्पन्ना सम्पन्नाः कुलजातिभिः । निशम्य रामागमनं नृपात्मजः । कपिप्रवीरस्य तदाद्भुतोपमम् । प्रहर्षितो रामदिदृक्षयाभवत् । पुनश्च हर्षादिदमब्रवीद्वचः ॥४६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चविंशत्यधिकशततमः सर्गः ॥