बहूनि नाम वर्षाणि गतस्य सुमहद्वनम् । शृणोम्यहं प्रीतिकरं मम नाथस्य कीर्तनम् ॥१॥
षड्विंशत्यधिकशततमः सर्गः 6.126
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
कल्याणी बत गाथेयं लौकिकी प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥२॥
राघवस्य हरीणां च कथमासीत्समागमः । कस्मिन्देशे किमाश्रित्य तत्त्वमाख्याहि पृच्छतः ॥३॥
स पृष्टो राजपुत्रेण बृस्यां समुपवेशितः । आचचक्षे ततः सर्वं रामस्य चरितं वने ॥४॥
यथा प्रव्रजितो रामो मातुर्दत्ते वरे तव । यथा च पुत्रशोकेन राजा दशरथो मृतः ॥५॥
यथा दूतैस्त्वमानीतस्तूर्णं राजगृहात्प्रभो । त्वयायोध्यां प्रविष्टेन यथा राज्यं न चेप्सितम् ॥६॥
चित्रकूटं गिरिं गत्वा राज्येनामित्रकर्शनः । निमन्त्रितस्त्वया भ्राता धर्ममाचरिता सताम् ॥७॥
स्थितेन राज्ञो वचने यथा राज्यं विसर्जितम् । आर्यस्य पादुके गृह्य यथासि पुनरागतः ॥८॥
सर्वमेतन्महाबाहो यथावद्विदितं तव । त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ॥९॥
अपयाते त्वयि तदा समुद्भ्रान्तमृगद्विजम् । प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥१०॥
तद्धस्तिमृदितं घोरं सिंहवाग्रमृगाकुलम् । प्रविवेशाथ विजनं स महद्दण्डकावनम् ॥११॥
तेषां पुरस्ताद्बलवान्गच्छतां गहने वने । विनदन्सुमहानादं विराधः प्रत्यदृश्यत ॥१२॥
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् । निखाते प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् ॥१३॥
तत्कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ । सायाह्ने शरभङ्गस्य रम्यमाश्रममीयतुः ॥१४॥
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः । अभिवाद्य मुनीन्सर्वाञ्जनस्थानमुपागमत् ॥१५॥
पश्चाच्चूर्पणखा नाम रामपार्श्वमुपागता । ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ॥१६॥
प्रगृह्य खड्गं चिच्छेद कर्णनासे महाबलः । चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । हतानि वसता तत्र राघवेण महात्मना ॥१७॥
एकेन सह संगम्य रामेण रणमूर्धनि । अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः ॥१८॥
महाबला महावीर्यास्तपसो विघ्नकारिणः ॥१९॥
निहता राघवेणाजौ दण्डकारण्यवासिनः । राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे ॥२०॥
दूषणं चाग्रतो हत्वा त्रिशिरास्तदनन्तम् । ततस्तेनार्दिता बाला रावणं समुपागता ॥२१॥
रावणानुचरो घोरो मारीचो नाम राक्षसः । लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः ॥२२॥
सा राममब्रवीद्दृष्ट्वा वैदेही गृह्यतामिति । अयं मनोहरह् कान्त आश्रमो नो भविष्यति ॥२३॥
ततो रामो धनुष्पाणिर्धावन्तमनुधावति । स तं जघान धावन्तं शरेणानतपर्वणा ॥२४॥
अथ सौम्या दशग्रीवो मृगं याते तु राघवे । लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा ॥२५॥
जग्राह तरसा सीतां ग्रहः खे रोहिणीम् इव । त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुषम् ॥२६॥
प्रगृह्य सहसा सीतां जगामाशु स राक्षसः । ततस्त्वद्भुतसङ्काशाः स्थिताः पर्वतमूर्धनि ॥२७॥
सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः । ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥२८॥
ततः शीघ्रतरं गत्वा तद्विमानं मनोजवम् । आरुह्य सह वैदेह्या पुष्पकं स महाबलः ॥२९॥
प्रविवेर्श तदा लङ्कां रावणो लोकरावणः । तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि ॥३०॥
प्रवेश्य मैथिलीं वाक्यैः सान्त्वयामास रावणः । तृणवद्भाषितं तस्य तं च नैरृतपुंगवम् ॥३१॥
अचिन्तयन्ती वैदेही ह्यशोकवनिकां गता । न्यवर्तत तदा रामो मृगं हत्वा तदा वने ॥३२॥
निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविव्यथे । गृध्रं हतं तदा दग्ध्वा रामः प्रियसखं पितुः ॥३३॥
मार्गमाणस्तु वैदेहीं राघवः सहलक्ष्मणः । गोदावरीमनुचरन्वनोद्देशांश्च पुष्पितान् ॥३४॥
आसेदतुर्महारण्ये कबन्धं नाम राक्षसं । ततः कबन्धवचनाद्रामः सत्यपराक्रमः ॥३५॥
ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः । तयोः समागमः पूर्वं प्रीत्या हार्दो व्यजायत ॥३६॥
इतरेतर संवादात्प्रगाढः प्रणयस्तयोः । इतरेतरसंवादात्प्रगाढः प्रणयस्तयोः ॥३७॥
रामः स्वबाहुवीर्येण स्वराज्यं प्रत्यपादयत् । वालिनं समरे हत्वा महाकायं महाबलम् ॥३८॥
सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः । रामाय प्रतिजानीते राजपुत्र्यास्तु मार्गणम् ॥३९॥
आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना । दशकोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः ॥४०॥
तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे । भृशं शोकाभितप्तानां महान्कालोअत्यवर्तत ॥४१॥
भ्राता तु गृध्रराजस्य सम्पातिर्नाम वीर्यवान् । समाख्याति स्म वसतिं सीताया रावणालये ॥४२॥
सोअहं दुःखपरीतानां दुःखं तज्ज्ञातिनां नुदन् । आत्मवीर्यं समास्थाय योजनानां शतं प्लुतः ॥४३॥
तत्राहमेकामद्राक्षमशोकवनिकां गताम् । कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् ॥४४॥
तया समेत्य विधिवत्पृष्ट्वा सर्वमनिन्दिताम् । अभिज्ञानं मया दत्तं रामनामाङ्गुलीयकम् ॥४५॥
अभिज्ञानं मणिं लब्ध्वा चरितार्थोअहमागतः । मया च पुनरागम्य रामस्याक्लिष्टकर्मणः ॥४६॥
अभिज्ञानं मया दत्तमर्चिष्मान्स महामणिः । श्रुत्वा तां मैथिलीं हृष्टस्त्वाशशंसे स जीवितम् ॥४७॥
जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः । उद्योजयिष्यन्नुद्योगं दध्रे लङ्कावधे मनः ॥४८॥
जिघांसुरिव लोकांस्ते सर्वांल्लोकान्विभावसुः । ततः समुद्रमासाद्य नलं सेतुमकारयत् ॥४९॥
अतरत्कपिवीराणां वाहिनी तेन सेतुना । प्रहस्तमवधीन्नीलः कुम्भकर्णं तु राघवः ॥५०॥
लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् । स शक्रेण समागम्य यमेन वरुणेन च ॥५१॥
महेश्वरस्वयम्भूभ्यां तथा दशरथेन च । तैश्च काकुत्थ्सो वरान् लेभे परंतपः ॥५२॥
सुरर्षिभिश्च काकुत्स्थो वरांल्लेभे परन्तपः । स तु दत्तवरः प्रीत्या वानरैश्च समागतः ॥५३॥
पुष्पकेण विमानेन किष्किन्धामभ्युपागमत् । तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ ॥५४॥
अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि । ततः स सत्यं हनुमद्वचो महन् । निशम्य हृष्टो भरतः कृताञ्जलिः । उवाच वाणीं मनसः प्रहर्षिणी । चिरस्य पूर्णः खलु मे मनोरथः ॥५५॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे षड्विंशत्यधिकशततमः सर्गः ॥