श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः । हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥१॥
सप्तविंशत्यधिकशततमः सर्गः 6.127
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
दैवतानि च सर्वाणि चैत्यानि नगरस्य च । सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥२॥
सूताः स्तुतिपुराणज्ञाह् सर्वे वैतालिकास्तथा । सर्वे वादित्रकुशला गणिकाश्चैव संघशः ॥३॥
राजदारास्तथामात्याः सैन्याः सेनागणाङ्गनाः । ब्राह्मणाश्च सराजन्याः श्रेणिमुख्यास्तथा गणाः ॥४॥
अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् । भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ॥५॥
विष्टीरनेकसाहस्रीश्चोदयामास भागशः । समीकुरुत निम्नानि विषमाणि समानि च ॥६॥
स्थानानि च निरस्यन्तां नन्दिग्रामादितः परम् । सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ॥७॥
ततो&अम्प्;&अम्प्;अभ्यवकिरंस्त्वन्ये लाजैः पुष्पैश्च सर्वतः । समुच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ॥८॥
शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति । स्रग्दाममुक्तपुष्पैश्च सुगन्धैः पञ्चवर्णकैः ॥९॥
राजमार्गमसम्बाधं किरन्तु शतशो नराः । ततस्तच्छासनं श्रुत्वा शत्रुघ्नस्य मुदान्विताः ॥१०॥
धृष्टिर्जयन्तो विजयः सिद्धार्थश्चार्थसाधकः । अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः ॥११॥
मत्तैर्नागसहस्रैश्च शातकुम्भविभूषितः । अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ॥१२॥
निर्ययुस्त्वरया युक्ता रथैश्च सुमहारथाः । शक्त्यष्टिपाशहस्तानां सध्वजानां पताकिनाम् ॥१३॥
तुरगाणां सहस्त्रैश्च मुख्यैर्मुख्यतरान्वितैः । पदातीनां सहस्त्रैश्च वीराः परिवृता ययुः ॥१४॥
ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः । कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥१५॥
कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् । द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ॥१६॥
माल्यमोदक हस्तैश्च मन्त्रिभिर्भरतो वृतः । शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ॥१७॥
आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः । पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ॥१८॥
शुक्ले च वालव्यजने राजार्हे हेमभूषिते । उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ॥१९॥
भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः । प्रत्युद्ययौ तदा रामं महात्मा सचिवैः सह ॥२०॥
अश्वानां खरशब्दैश्च रथनेमिस्वनेन च । शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ॥२१॥
कृत्स्नं तु नगरं ततु नन्दिग्राममुपागमत् । समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥२२॥
कच्चिन्न खलु कापेयी सेव्यते चलचित्तता । न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम् ॥२३॥
अथैवमुक्ते वचने हनूमानिदमब्रवीत् । अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥२४॥
सदा फलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् । भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥२५॥
तस्य चैष वरो दत्तो वासवेन परन्तप । ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम् ॥२६॥
निस्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् । मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥२७॥
रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति । मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः ॥२८॥
तदेतद्दृश्यते दूराद्विमलं चन्द्रसंनिभम् । विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥२९॥
रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना । तरुणादित्यसंकाशं विमानं रामवाहनम् ॥३०॥
धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् । एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ ॥३१॥
सुग्रीवश्च महातेजा राक्षसेन्द्रो विभीषणः । ततो हर्षसमुद्भूतो निस्वनो दिवमस्पृशत् ॥३२॥
स्त्रीबालयुववृद्धानां रामो&अम्प्;&अम्प्;अयमिति कीर्तितः । रथकुञ्जरवाजिभ्यस्ते&अम्प्;&अम्प्;अवतीर्य महीं गताः ॥३३॥
ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे । प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ॥३४॥
स्वागतेन यथार्थेन ततो राममपूजयत् । मनसा ब्रह्मणा सृष्टे विमाने लक्ष्मणाग्रजः ॥३५॥
रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः । ततो विमानाग्रगतं भरतो भ्रातरं तदा ॥३६॥
ववन्दे प्रणतो रामं मेरुस्थमिव भास्करम् । ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥३७॥
हंसयुक्तं महावेगम् निपपात महीतले । आरोपितो विमानं तद्भरतः सत्यविक्रमः ॥३८॥
राममासाद्य मुदितः पुनरेवाभ्यवादयत् । तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ॥३९॥
अङ्के भरतमारोप्य मुदितः परिषष्वजे । ततो लक्ष्मणमासाद्य वैदेहीं च परन्तपः ॥४०॥
अभ्यवादयत प्रीतो भरतो नाम चाब्रवीत् । सुग्रीवं कैकयी पुत्रो जाम्बवन्तं तथाङ्गदम् ॥४१॥
मैन्दं च द्विविदं नीलमृषभं चैव सस्वजे । सुषेणं च नलं चैव गवाक्षम् गन्धमादनम् ॥४२॥
शरभं पनसं चैव परितह् परिष्स्वजे । ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ॥४३॥
कुशलं पर्यपृषन्त प्रहृष्टा भरतं तदा । अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् ॥४४॥
परिष्वज्य महातेजा भरतो धर्मिणां वरः । त्वमस्माकं चतुर्णां वैभ्राता सुग्रीव पञ्चमः ॥४५॥
सौहार्दाज्जायते मित्रमपकारोऽरिलक्षणम् । विभीषणं च भरतः सान्त्वयन्वाक्यमब्रवीत् ॥४६॥
दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् । शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ॥४७॥
सीतायाश्चरणौ पश्चाद्ववन्दे विनयान्वितः । रामो मातरमासाद्य विषण्णं शोककर्शिताम् ॥४८॥
जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् । अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ॥४९॥
स मातॄश्च तदा सर्वाः पुरोहितमुपागमत् । स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ॥५०॥
इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् । तन्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ॥५१॥
व्याकोशानीव पद्मानि ददर्श भरताग्रजः । पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ॥५२॥
चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् । अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ॥५३॥
एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया । अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ॥५४॥
यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् । अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् ॥५५॥
भवतस्तेजसा सर्वं कृतं दशगुणं मया । तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ॥५६॥
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः । ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ॥५७॥
ययौ तेन विमानेन ससैन्यो भरताश्रमम् । भरताश्रममासाद्य ससैन्यो राघवस्तदा ॥५८॥
अवतीर्य विमानाग्रादवतस्थे महीतले । अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ॥५९॥
वह वैश्रवणं देवमनुजानामि गम्यताम् । ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥६०॥
उत्तरां दिशमुद्दिश्य जगाम धनदालयम् । विमानं पुष्पकं दिव्यं सम्गृहीतं तु रक्षसा ॥६१॥
अगमद्धनदं वेगाद्रामवाक्यप्रचोदितम् । पुरोहितस्यात्मसमस्य राघवो । बृहस्पतेः शक्र इवामराधीअपः । निपीड्य पादौ पृथगासने शुभे । सहैव तेनोपविवेश वीर्यवान् ॥६२॥
इत्यार्षे श्रीमद्रामायने आदिकाव्ये युद्धकाण्डे सप्तविंशत्यधिकशततमः सर्गः ॥