रामायणम्

शततमः सर्गः 6.128

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

शिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः । बभाषे भरतो ज्येष्ठन् रामं सत्यपराक्रमम् ॥१॥

पूजिता मामिका माता दत्तन् राज्यमिदं मम । तद्ददामि पुनस्तुभ्यन् यथा त्वमददा मम ॥२॥

धुरमेकाकिना न्यस्तामृषभेण बलीयसा । किशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥३॥

वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसन्वृतम् ॥४॥

गतिं खर इवाश्वस्य हन्सस्येव च वायसः । नान्वेतुमुत्सहे देव तव मार्गमरिन्दम ॥५॥

यथा च रोपितो वृक्षो जातश्चान्तर्निवेशने । महांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥६॥

शीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् । तस्य नानुभवेदर्थन् यस्य हेतोः स रोप्यते ॥७॥

एषोपमा महाबाहो त्वमर्थन् वेत्तुमर्हसि । यद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥८॥

जगदद्याभिषिक्तन् त्वामनुपश्यतु सर्वतः । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं ॥९॥

तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः । मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥१०॥

यावदावर्तते चक्रन् यावती च वसुन्धरा । तावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय ॥११॥

भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । तथेति प्रतिजग्राह निषसादासने शुभे ॥१२॥

ततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः । सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥१३॥

पूर्वन् तु भरते स्नाते लक्ष्मणे च महाबले । सुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥१४॥

विशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । महार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥१५॥

प्रतिकर्म च रामस्य कारयामास वीर्यवान् । लक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥१६॥

प्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । आत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥१७॥

ततो राघवपत्नीनान् सर्वासामेव शोभनम् । चकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला ॥१८॥

ततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः । योजयित्वाभिचक्राम रथन् सर्वाङ्गशोभनम् ॥१९॥

अर्कमण्डलसङ्काशन् दिव्यं दृष्ट्वा रथन् स्थितम् । आरुरोह महाबाहू रामः सत्यपराक्रमः ॥२०॥

सुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती । स्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥२१॥

सर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः । सुग्रीवपत्न्याः सीता च द्रष्टुं नगरमुत्सुकाः ॥२२॥

अयोध्यायान् तु सचिवा राज्ञो दशरथस्य च । पुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥२३॥

अशोको विजयश्चैव सिद्धार्थश्च समाहिताः । मन्त्रयन्रामवृद्ध्यर्थन् वृत्त्यर्थं नगरस्य च ॥२४॥

सर्वमेवाभिषेकार्थन् जयार्हस्य महात्मनः । कर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥२५॥

इति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम् नगरान्निर्ययुस्तूर्णन् रामदर्शनबुद्धयः ॥२६॥

हरियुक्तन् सहस्राक्षो रथमिन्द्र इवानघः । प्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥२७॥

जग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे । लक्ष्मणो व्यजनन् तस्य मूर्ध्नि सम्पर्यवीजयत् ॥२८॥

श्वेतन् च वालव्यजनन् सुग्रीवो वानरेश्वरः । अपरन् चन्द्रसङ्काशन् राक्षसेन्द्रो विभीषणः ॥२९॥

ऋषिसङ्घैर्तदाकाशे देवैश्च समरुद्गणैः । स्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥३०॥

ततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । आरुरोह महातेजाः सुग्रीवो वानरेश्वरः ॥३१॥

नवनागसहस्राणि ययुरास्थाय वानराः । मानुषन् विग्रहन् कृत्वा सर्वाभरणभूषिताः ॥३२॥

शङ्खशब्दप्रणादैश्च दुन्दुभीनान् च निस्वनैः । प्रययू पुरुषव्याघ्रस्तां पुरीन् हर्म्यमालिनीम् ॥३३॥

ददृशुस्ते समायान्तन् राघवं सपुरःसरम् । विराजमानन् वपुषा रथेनातिरथन् तदा ॥३४॥

ते वर्धयित्वा काकुत्स्थन् रामेण प्रतिनन्दिताः । अनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥३५॥

अमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । श्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥३६॥

स पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । प्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥३७॥

अक्षतन् जातरूपं च गावः कन्यास्तथा द्विजाः । नरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥३८॥

सख्यन् च रामः सुग्रीवे प्रभावं चानिलात्मजे । वानराणान् च तत्कर्म व्याचचक्षेअथ मन्त्रिणाम् ॥३९॥

श्रुत्वा च विस्मयन् जग्मुरयोध्यापुरवासिनः । वानराणां च तत्कर्म राक्षसानां च तद्बलम् ॥४०॥

विभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम् । द्युतिमानेतदाख्याय रामो वानरसन्वृतः ॥४१॥

हृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह । ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥४२॥

ऐक्ष्वाकाध्युषितन् रम्यमाससाद पितुर्गृहम् । अथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् ॥४३॥

अर्थोपहितया वाचा मधुरं रघुनन्दनः । पितुर्भवनमासाद्य प्रविश्य च महात्मनः ॥४४॥

कौसल्यान् च सुमित्रां च कैकेयीं चाभ्यवादयत् । तच्च मद्भवनन् श्रेष्ठं साशोकवनिकं महत् ॥४५॥

मुक्तावैदूर्यसङ्कीर्णन् सुग्रीवस्य निवेदय । तस्य तद्वचनन् श्रुत्वा भरतः सत्यविक्रमः ॥४६॥

हस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम् । ततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च ॥४७॥

गृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः । उवाच च महातेजाः सुग्रीवन् राघवानुजः ॥४८॥

अभिषेकाय रामस्य दूतानाज्ञापय प्रभो । सौवर्णान्वानरेन्द्राणान् चतुर्णां चतुरो घटान् ॥४९॥

ददौ क्षिप्रन् स सुग्रीवः सर्वरत्नविभूषितान् । यथा प्रत्यूषसमये चतुर्णान् सागराम्भसाम् ॥५०॥

पूर्णैर्घटैः प्रतीक्षध्वन् तथा कुरुत वानराः । एवमुक्ता महात्मानो वानरा वारणोपमाः ॥५१॥

उत्पेतुर्गगनन् शीघ्रन् गरुडा इव शीघ्रगाः । जाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः ॥५२॥

ऋषभश्चैव कलशाञ्जलपूर्णानथानयन् । नदीशतानां पञ्चानान् जले कुम्भैरुपाहरन् ॥५३॥

पूर्वात्समुद्रात्कलशन् जलपूर्णमथानयत् । सुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥५४॥

ऋषभो दक्षिणात्तूर्णन् समुद्राज्जलमाहरत् । रक्तचन्दनकर्पूरैः सन्वृतन् काञ्चनं घटम् ॥५५॥

गवयः पश्चिमात्तोयमाजहार महार्णवात् । रत्नकुम्भेन महता शीतं मारुतविक्रमः ॥५६॥

उत्तराच्च जलन् शीघ्रन् गरुडानिलविक्रमः । आजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥५७॥

ततसैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् । अभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ॥५८॥

पुरोहिताय श्रेष्ठाय सुहृद्भ्यश् च न्यवेदयत् । ततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह ॥५९॥

रामन् रत्नमयो पीठे सहसीतं न्यवेशयत् । वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥६०॥

कात्यायनः सुयज्ञश्च गौतमो विजयस्तथा । अभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना ॥६१॥

सलिलेन सहस्राक्षन् वसवो वासवं यथा । ऋत्विग्भिर्ब्राह्मणैः पूर्वन् कन्याभिर्मन्त्रिभिस्तथा ॥६२॥

योधैश्चैवाभ्यषिञ्चन्स्ते सम्प्रहृष्टाः सनैगमैः । सर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः ॥६३॥

चतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः । ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् ॥६४॥

अभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् । तस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः ॥६५॥

सभायां हेमक्लुप्तायां शोभितायां महाधनैः । रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥६६॥

नानारत्नमये पीठे कल्पयित्वा यथाविधि । किरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ॥६७॥

ऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः । छत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरन् शुभम् ॥६८॥

श्वेतन् च वालव्यजनन् सुग्रीवो वानरेश्वरः । अपरन् चन्द्रसङ्काशन् राक्षसेन्द्रो विभीषणः ॥६९॥

मालान् ज्वलन्तीन् वपुषा काञ्चनीं शतपुष्कराम् । राघवाय ददौ वायुर्वासवेन प्रचोदितः ॥७०॥

सर्वरत्नसमायुक्तं मणिरत्नविभूषितम् । मुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥७१॥

प्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः । अभिषेके तदर्हस्य तदा रामस्य धीमतः ॥७२॥

भूमिः सस्यवती चैव फलवन्तश्च पादपाः । गन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥७३॥

सहस्रशतमश्वानान् धेनूनां च गवां तथा । ददौ शतन् वृषान्पूर्वन् द्विजेभ्यो मनुजर्षभः ॥७४॥

त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः । नानाभरणवस्त्राणि महार्हाणि च राघवः ॥७५॥

अर्करश्मिप्रतीकाशान् काञ्चनीं मणिविग्रहाम् । सुग्रीवाय स्रजन् दिव्यां प्रायच्छन्मनुजर्षभः ॥७६॥

वैदूर्यमणिचित्रे च वज्ररत्नविभूषिते । वालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥७७॥

मणिप्रवरजुष्टन् च मुक्ताहारमनुत्तमम् । सीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥७८॥

अरजे वाससी दिव्ये शुभान्याभरणानि च । अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥७९॥

अवमुच्यात्मनः कण्ठाद्धारन् जनकनन्दिनी । अवैक्षत हरीन्सर्वान्भर्तारन् च मुहुर्मुहुः ॥८०॥

तामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् । प्रदेहि सुभगे हारन् यस्य तुष्टासि भामिनि ॥८१॥

तेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः । पौरुषन् विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा ॥८२॥

ददौ सा वायुपुत्राय तन् हारमसितेक्षणा । हनूमान्स्तेन हारेण शुशुभे वानरर्षभः ॥८३॥

6.128.83 #af92968c1c17 timing uncertain

चन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः । सर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः ॥८४॥

वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः । ततो द्विविद मैन्दाभ्यां नीलाय च परन्तपः ॥८५॥

सर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः । विभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा ॥८६॥

6.128.86 #13b1a8338c98 timing uncertain

सर्ववानरवृद्धाश्च रामेणाक्लिष्टकर्मणा । यथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् ॥८७॥

6.128.87 #efbfa56d2123 timing uncertain

प्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् । नत्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः ॥८८॥

विसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन् । सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥८९॥

पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् । विभीषणोऽपि ध्र्मात्मा सह रैर्नैरृतर्षभैः ॥९०॥

लब्ध्वा कुलधनं राजा लङ्कां प्रायान् महायशाः । स राज्यमखिलं शासन्निहतारिर्महायशाः ॥९१॥

राघवः परमोदारः शशास परया मुदा । उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥९२॥

आतिष्ठ धर्मज्ञ मया सहेमां । गां पूर्वराजाध्युषितां बलेन । तुल्यं मया त्वं पितृभिर्धृता या । तां यौवराज्ये धुरमुद्वहस्व ॥९३॥

सर्वात्मना पर्यनुनीयमानो । यदा न सौमित्रिरुपैति योगम् । नियुज्यमानोऽ पि च यावराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥९४॥

पौण्डरीकाश्वमेधाभ्यान् वाजपेयेन चासकृत् । अन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥९५॥

राज्यन् दशसहस्राणि प्राप्य वर्षाणि राघवः । शताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥९६॥

आजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान् । लक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥९७॥

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । ईजे बहुविधैर्यज्ञैः ससुतभ्रातृबान्धवः ॥९८॥

न पर्यदेवन्विधवा न च व्यालकृतं भयम् । न व्याधिजं भयन् वापि रामे राज्यं प्रशासति ॥९९॥

निर्दस्युरभवल्लोको नानर्थः कन् चिदस्पृशत् । न च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥१००॥

सर्वं मुदितमेवासीत्सर्वो धर्मपरोअभवत् । राममेवानुपश्यन्तो नाभ्यहिन्सन्परस्परम् ॥१०१॥

आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः । निरामया विशोकाश्च रामे राज्यं प्रशासति ॥१०२॥

रामो रामो राम इति प्रजानामभवन् कथाः । रामभूतं जगाभूद्रामे राज्यं प्रशासति ॥१०३॥

नित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः । कालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥१०४॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः । स्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः ॥१०५॥

आसन् प्रजा धर्मपरा रामे शासति नानृताः । सर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥१०६॥

दशवर्षसहस्राणि रामो राज्यमकारयत् । धर्मयं यशस्यमायुष्यं राज्ञां च विजाअवहम् ॥१०७॥

आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् । पठेद्यः शृणुयाल्लोके नरः पापात्प्रमुच्यते ॥१०८॥

पुत्रकामश्च पुत्रान्वै धनकामो धनानि च । लभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥१०९॥

महीं विजयते राजा रिपूंश्चाप्यधितिष्ठति । राघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥११०॥

भरतेन च कैकेयी जिवपुत्रास्तथा स्त्रियः । भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ॥१११॥

श्रुत्वा रामायणमिदं दीर्घमायिश्च विन्दति । रामस्य विजयं चैव सर्वमक्लिष्ठकर्मणः ॥११२॥

शृणोति य इत्दं काव्यं पुरा वाल्मीकिना कृतम् । श्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥११३॥

समागम्य प्रवासान्ते रमन्ते सह बान्धवैः । शृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम् ॥११४॥

ते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात् । श्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् ॥११५॥

विनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै । विजयेत महीं राजा प्रवासि स्वस्तिमान् भवेत् ॥११६॥

स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् । पूजयंश्च पठंश्चनमितिहासं पुरातनम् ॥११७॥

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् ॥११८॥

ऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः । रामायणमिदं कृत्स्नं शृण्वतः पठतः सदा ॥११९॥

प्रीयते सततं रामः सहि मिष्णुः सनातनः । आदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः ॥१२०॥

साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते । एवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः ॥१२१॥

प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् । देवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा ॥१२२॥

रामायणस्य श्रवणे तुष्यन्ति पितरः सदा । भक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् ॥१२३॥

ये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे । कुटुम्बवृद्धिं धनधान्यवृद्धिं । स्त्रियश्च मुख्याह् सुखमुत्तमं च । श्रुत्वा शुभं काव्यमिदं महार्थं । प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥१२४॥

आयुष्यमारोग्यकरं यशस्यं । सौभ्रातृकं बुद्धिकरं शुभं च । श्रोतव्यमेतन्नियमेन सद्भि । राख्यानमोजस्करमृद्धिकामैः ॥१२५॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे अष्टाविंशत्यधिक शततमः सर्गः ॥

Listen to the sarga
0:00