निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः । सौमित्रिम् सम्परिष्वज्य इदम् वचनम्ब्रवीत् ॥१॥
त्रयोविंशः सर्गः 6.23
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
परिगृह्योदकम् शीतम् वनानि फलवन्ति च । बलौ घम् सम्विभज्येमम् व्यूह्य तिष्ठेम लक्ष्मण ॥२॥
लोकक्षयकरम् भीमम् भयम् पश्याम्युपस्थितम् । प्रबर्हणम् प्रवीराणामृक्षवानररक्षसाम् ॥३॥
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति च महीरुःआः ॥४॥
मेघाः क्रव्यादसम्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरम् प्रवर्षन्ति मिश्रम् शोणितबिन्दुभिः ॥५॥
रक्तचन्दनसम्काशा संध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥६॥
दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः । प्रत्यादित्यम् विनर्दन्ति जनयन्तो महद्भयम् ॥७॥
रजन्यामप्रकाशस्तु सम्तापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥८॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषस्तु लोहितः । आदित्ये विमले वीलम् लक्ष्म लक्ष्मण दृश्यते ॥९॥
रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानाम् पश्य शसन्ति लक्ष्मण ॥१०॥
काकाः श्येनास्तथा नीचा गृध्राः परिपतन्ति च । शिवाश्चाप्यशुभान्नादान्नदन्ति सुमहाभयान् ॥११॥
शैलैः शूलैश्च खड्गैश्च विमुकैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥१२॥
क्षिप्रमद्यैव दुर्धर्षाम् पुरीम् रावणपालिताम् । अभियाम जवेनैव सर्वैर्हरिभिरावृताः ॥१३॥
इत्येवमुक्त्वा धन्वी स रामः सम्ग्रामधर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥१४॥
सविभीषणसुग्रीवाः सर्वे ते वानरर्षभाः । प्रतस्थिरे विनर्दन्तो धृतानाम् द्विषताम् वधे ॥१५॥
राघवस्य प्रियार्थम् तु सुतराम् वीर्यशालिनाम् । हरीणाम् कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥१६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे त्रयोविंशः सर्गः ॥