ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥१॥
एकत्रिंशः सर्गः 6.31
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् । जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥२॥
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः । अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥३॥
तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् । ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥४॥
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् । विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥५॥
ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् । मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६॥
विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः । मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥७॥
शिरो मायामयम् गृह्य राघवस्य विशाचर । मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥८॥
एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः । दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥९॥
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् । अशोकवनिकायाम् च सीतादर्शनलालसः ॥१०॥
नैरृतानामधिपतिः सम्विवेश महाबलः । ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥११॥
अधोमुखीं शोकपरामुपविष्टाम् महीतले । भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥१२॥
उपास्यमानाम् घोराभी राक्षसीभिरदूरतः । उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥१३॥
इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् । सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥१४॥
खरहन्ता स ते भर्ता राघवः समरे हतः । चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥१५॥
व्यसनेनात्मनः सीते मम भार्या भविष्यसि । विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥१६॥
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम । अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥१७॥
सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा । समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥१८॥
वानरेन्द्रप्रणीतेन बलेव महता वृतः । सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥१९॥
बलेन महता रामो व्रजत्यस्तम् दिवाकरे । अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥२०॥
सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः । तत्प्रहस्तप्रणीतेन बलेन महता मम ॥२१॥
बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः । पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥२२॥
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् । यष्टीश्च तोमरान् प्रासांश्चक्राणि मुसलानि च ॥२३॥
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः । अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥२४॥
असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना । विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥२५॥
दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह । सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥२६॥
निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः । जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥२७॥
पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा । मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥२८॥
निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ । असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥२९॥
अनुष्वनति मेदिन्याम् पनसः यथा ॥३०॥
वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः । कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥३१॥
अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः । परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥३२॥
हरयो मथिता वागैरथ जालैस्तथापरे । शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥३३॥
प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः । अनुद्रुतास्तु रक्षोभिः सिम्हैरिव महाद्विपाः ॥३४॥
सागरे पतिताः केचित्केचिद्गगनमाश्रिताः । ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥३५॥
सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥३६॥
एवम् तव हतो भर्ता ससैन्यो मम सेवया । क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥३७॥
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः । सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥३८॥
राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय । येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥३९॥
विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् । प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥४०॥
तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् । विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥४१॥
अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः । अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥४२॥
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥४३॥
रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् । त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥४४॥
इदम् तत्तव रामस्य कार्मुकं ज्यासमावृ६इतम् । इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥४५॥
स विद्युजिह्वेन सहैव तच्छिरो । धमश्च भूमौ विनिकीर्य रावणः । विदेहराजस्य सुताम् यशस्विनीं । ततोऽब्रवीत्ताम् भव मे वशामुगा ॥४६॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥