रामायणम्

द्व्त्रिंशः सर्गः 6.32

Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.

सा सीता तच्चिरो दृष्ट्वा तच् च कार्मुकम् उत्तमम् । । सुग्रीव प्रतिसंसर्गम् आख्यातम् च हनूमता ॥१॥

नयने मुख वर्णम् च भर्तुस् तत् सदृशम् मुखम् । केशान् केश अन्त देशम् च तम् च चूडा मणिम् शुभम् ॥२॥

एतैह् सर्वैर् अभिज्नानैर् अभिज्नाय सुदुह्खिता । विजगर्हे अथ कैकेयीम् क्रोशन्ती कुररी यथा ॥३॥

सकामा भव कैकेयि हतो अयम् कुल नन्दनः । कुलम् उत्सादितम् सर्वम् त्वया कलह शीलया ॥४॥

आर्येण किम् नु कैकेय्याः कृतम् रामेण विप्रियम् । यन्मया चीर वसनस् तया प्रस्थापितो वनम् ॥५॥

एवम् उक्त्वा तु वैदेही वेपमाना तपस्विनी । जगाम जगतीम् बाला चिन्ना तु कदली यथा ॥६॥

सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् । तत् शिरह् समुपाघ्राय विललाप आयत ईक्षणा ॥७॥

हा हता अस्मि महा बाहो वीर व्रतम् अनुव्रता । इमाम् ते पश्चिम अवस्थाम् गता अस्मि विधवा कृता ॥८॥

प्रथमम् मरणम् नार्या भर्तुर् वैगुण्यम् उच्यते । सुवृत्तः साधु वृत्तायाः सम्वृत्तस् त्वम् मम अग्रतः ॥९॥

दुह्खाद् दुह्कःअम् प्रपन्नाया मग्नायाः शोक सागरे । यो हि माम् उद्यतस् त्रातुम् सो अपि त्वम् विनिपातितः ॥१०॥

सा श्वश्रूर् मम कौसल्या त्वया पुत्रेण राघव । वत्सेन इव यथा धेनुर् विवत्सा वत्सला कृता ॥११॥

उदिष्टम् दीर्घम् आयुस् ते यैर् अचिन्त्य पराक्रम । अनृतम् वचनम् तेषाम् अल्प आयुर् असि राघव ॥१२॥

अथ वा नश्यति प्रज्ना प्राज्नस्य अपि सतस् तव । पचत्य् एनम् तथा कालो भूतानाम् प्रभवो ह्ययम् ॥१३॥

अदृष्टम् मृत्युम् आपन्नः कस्मात् त्वम् नय शास्त्रवित् । व्यसनानाम् उपायज्नः कुशलो ह्यसि वर्जने ॥१४॥

तथा त्वम् सम्परिष्वज्य रौद्रया अतिनृशंसया । काल रात्र्या मया आच्चिद्य हृतः कमल लोचन ॥१५॥

उपशेषे महा बाहो माम् विहाय तपस्विनीम् । प्रियाम् इव शुभाम् नारीम् पृथिवीम् पुरुष ऋषभ ॥१६॥

अर्चितम् सततम् यत्नाद् गन्ध माल्यैर् मया तव । इदम् ते मत् प्रियम् वीर धनुः कान्चन भूषितम् ॥१७॥

पित्रा दशरथेन त्वम् श्वशुरेण मम अनघ । पूर्वैसः च पितृभिः सार्धम् नूनम् स्वर्गे समागतः ॥१८॥

दिवि नक्षत्र भूतस् त्वम् महत् कर्म कृतम् प्रियम् । पुण्यम् राज ऋषि वंशम् त्वम् आत्मनः समुपेक्षसे ॥१९॥

किम् मान् न प्रेक्षसे राजन् किम् माम् न प्रतिभाषसे । बालाम् बालेन सम्प्राप्ताम् भार्याम् माम् सह चारिणीम् ॥२०॥

संश्रुतम् गृह्णता पाणिम् चरिष्यामि इति यत् त्वया । स्मर तन् मम काकुत्स्थ नय माम् अपि दुह्खिताम् ॥२१॥

कस्मान् माम् अपहाय त्वम् गतो गतिमताम् वर । अस्माल् लोकाद् अमुम् लोकम् त्यक्त्वा माम् इह दुह्खिताम् ॥२२॥

कल्याणैर् उचितम् यत् तत् परिष्वक्तम् मया एव तु । क्रव्य अदैस् तत् शरीरम् ते नूनम् विपरिकृष्यते ॥२३॥

अग्निष्तोम आदिभिर् यज्नैर् इष्टवान् आप्त दक्षिणैः । अग्नि होत्रेण संस्कारम् केन त्वम् तु न लप्स्यसे ॥२४॥

प्रव्रज्याम् उपपन्नानाम् त्रयाणाम् एकम् आगतम् । परिप्रक्ष्यति कौसल्या लक्ष्मणम् शोक लालसा ॥२५॥

स तस्याः परिपृच्चन्त्या वधम् मित्र बलस्य ते । तव च आख्यास्यते नूनम् निशायाम् राक्षसैर् वधम् ॥२६॥

सा त्वाम् सुप्तम् हतम् श्रुत्वा माम् च रक्षो गृहम् गताम् । हृदयेन विदीर्णेन न भविष्यति राघव ॥२७॥

मम हेतोरनार्याया अवघः पार्थिवात्मजः । रामः सागमुत्तीर्य वीर्यवान् गोष्पदे हतः ॥२८॥

अहम् दाशरथेनोढा मोहात्स्वकुपांसनी । आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥२९॥

मानमाव्याम् मया जातिम् वारितम् दानमुत्तमम् । याहमद्येह शोचामि भार्या सर्वातिथेरपि ॥३०॥

साधु पातय माम् क्षिप्रम् रामस्य उपरि रावणः । समानय पतिम् पत्न्या कुरु कल्याणम् उत्तमम् ॥३१॥

शिरसा मे शिरसः च अस्य कायम् कायेन योजय । रावण अनुगमिष्यामि गतिम् भर्तुर् महात्मनः ॥३२॥

इति सा दुह्ख सम्तप्ता विललाप आयत ईक्षणा । भर्तुः शिरो धनुस् तत्र समीक्ष्य जनक आत्मजा ॥३३॥

एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः । अभिचक्राम भर्तारम् अनीकस्थः कृत अन्जलिः ॥३४॥

विजयस्व आर्य पुत्र इति सो अभिवाद्य प्रसाद्य च । न्यवेदयद् अनुप्राप्तम् प्रहस्तम् वाहिनी पतिम् ॥३५॥

अमात्यैः स हितः सर्वैः प्रहस्तस्त्वामुपस्थितः । तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो ॥३६॥

मानमस्ति महारा ज राजभावात् क्षमान्वित । किंचिद् आत्ययिकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु ॥३७॥

एतत् श्रुत्वा दशग्रीवो राक्षस प्रतिवेदितम् । अशोक वनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ ॥३८॥

स तु सर्वम् समर्थ्य एव मन्त्रिभिः कृत्यम् आत्मनः । सभाम् प्रविश्य विदधे विदित्वा राम विक्रमम् ॥३९॥

अन्तर्धानम् तु तत् शीर्षम् तच् च कार्मुकम् उत्तमम् । जगाम रावणस्य एव निर्याण समनन्तरम् ॥४०॥

राक्षस इन्द्रस् तु तैः सार्धम् मन्त्रिभिर् भीम विक्रमैः । समर्थयाम् आस तदा राम कार्य विनिश्चयम् ॥४१॥

अविदूर स्थितान् सर्वान् बल अध्यक्षान् हित एषिणः । अब्रवीत् काल सदृशो रावणो राक्षस अधिपः ॥४२॥

शीघ्रम् भेरी निनादेन स्फुट कोण आहतेन मे । समानयध्वम् सैन्यानि वक्तव्यम् च न कारणम् ॥४३॥

ततस् तथा इति प्रतिगृह्य तद् वचो । स्तदैव दूताः सहसा महाद्बलम् । समानयंसः चैव समागतम् च ते । न्यवेदयन् भर्तरि युद्ध कान्क्षिणि ॥४४॥

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे द्व्त्रिंशः सर्गः ॥

Listen to the sarga
0:00