तेन शन्ख विमिश्रेण भेरी शब्देन राघवः । उपयतो महा बाहू रामह् पर पुरम् जयः ॥१॥
पञ्चत्रिंशः सर्गः 6.35
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
तम् निनादम् निशम्य अथ रावणो राक्षस ईश्वरः । मुहूर्तम् ध्यानम् आस्थाय सचिवान् अभ्युदैक्षत ॥२॥
अथ तान् सचिवांस् तत्र सर्वान् आभाष्य रावणः । सभाम् सम्नादयन् सर्वाम् इत्य् उवाच महा बलः ॥३॥
जगत्पम्तापनः क्रूरोगर्हयन् राक्षसेश्वरः । तरणम् सागरस्य अपि विक्रमम् बल संचयम् ॥४॥
यद् उक्तवन्तो रामस्य भवन्तस् तन् मया श्रुतम् । भवतश्चाप्यहम् वेद्मि युद्धे सत्यपराक्रमान् ॥५॥
तूष्णीकानीक्षतोन्योन्यम् विदित्वाम् रामविक्रमम् । ततस् तु सुमहा प्राज्नो माल्यवान् नाम राक्षसः ॥६॥
रावणस्य वचः श्रुत्वा मातुः पैतामहो अब्रवीत् । विद्यास्वभिविनीतो यो राजा राजन् नय अनुगः ॥७॥
स शास्ति चिरम् ऐश्वर्यम् अरींश्च कुरुते वशे । संदधानो हि कालेन विगृह्णंसः चारिभिः सह ॥८॥
स्व पक्ष वर्धनम् कुर्वन् महद् ऐश्वर्यम् अश्नुते || हीयमानेन कर्तव्यो राज्ना संधिः समेन च ॥९॥
न शत्रुम् अवमन्येत ज्यायान् कुर्वीत विग्रहम् । तन्मह्यम् रोचते संधिः सह रामेण रावण ॥१०॥
यद् अर्थम् अभियुक्ताः स्म सीता तस्मै प्रदीयताम् । तस्य देव ऋषयः सर्वे गन्धर्वासः च जय एषिणः ॥११॥
विरोधम् मा गमस् तेन संधिस् ते तेन रोचताम् । असृजद् भगवान् पक्षौ द्वाव् एव हि पितामहः ॥१२॥
सुराणाम् असुराणाम् च धर्म अधर्मौ तद् आश्रयौ । धर्मो हि श्रूयते पक्षः सुराणाम् च महात्मनाम् ॥१३॥
अधर्मो रक्षसाम् पक्षोह्य असुराणाम् च रावण । धर्मो वै ग्रसते अधर्मम् ततः कृतम् अभूद् युगम् ॥१४॥
अधर्मो ग्रसते धर्मम् ततस् तिष्यः प्रवर्तते । तत् त्वया चरता लोकान् धर्मो विनिहतो महान् ॥१५॥
अधर्मः प्रगृहीतसः च तेन अस्मद् बलिनः परे । स प्रमादाद् विवृद्धस् ते अधर्मो अहिर् ग्रसते हि नः ॥१६॥
विवर्धयति पक्षम् च सुराणाम् सुर भावनः । विषयेषु प्रसक्तेन यत् किंचित् कारिणा त्वया ॥१७॥
ऋषीणाम् अग्नि कल्पानाम् उद्वेगो जनितो महान् । तेषाम् प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥१८॥
तपसा भावित आत्मानो धर्मस्य अनुग्रहे रताः । मुख्यैर् यज्नैर् यजन्त्य् एते नित्यम् तैस् तैर् द्विजातयः ॥१९॥
जुह्वत्य् अग्नींसः च विधिवद् वेदांसः च उच्चैर् अधीयते । अभिभूय च रक्षांसि ब्रह्म घोषान् उदैरयन् ॥२०॥
दिशो विप्रद्रुताः सर्वे स्तनयित्नुर् इव उष्णगे । ऋषीणाम् अग्नि कल्पानाम् अग्नि होत्र समुत्थितः ॥२१॥
आदत्ते रक्षसाम् तेजो धूमो व्याप्य दिशो दश । तेषु तेषु च देशेषु पुण्येषु च दृढ व्रतैः ॥२२॥
चर्यमाणम् तपस् तीव्रम् सम्तापयति राक्षसान् । देवदानवयक्षेभो गृहीतश्च वरस्त्वया ॥२३॥
मनुष्या वानरा ऋक्षा गोलाङ्गूला महाबलाः । बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥२४॥
उत्पातान् विविधान् दृष्ट्वा घोरान् बहु विधांस् तथा । विनाशम् अनुपश्यामि सर्वेषाम् रक्षसाम् अहम् ॥२५॥
खराभिस् तनिता घोरा मेघाह् प्रतिभयम् करः । शोणितेन अभिवर्षन्ति लन्काम् उष्णेन सर्वतः ॥२६॥
रुदताम् वाहनानाम् च प्रपतन्त्य् अस्र बिन्दवः । ध्वजा ध्वस्ता विवर्णासः च न प्रभान्ति यथा पुरम् ॥२७॥
व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम् । प्रविश्य लन्काम् अनिशम् समवायांसः च कुर्वते ॥२८॥
कालिकाः पाण्डुरैर् दन्तैः प्रहसन्त्य् अग्रतः स्थिताः । स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥२९॥
गृहाणाम् बलि कर्माणि श्वानः पर्युपभुन्जते । खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥३०॥
मार्जारा द्वीपिभिः सार्धम् सूकराः शुनकैः सह । किम्नरा राक्षसैसः च अपि समेयुर् मानुषैः सह ॥३१॥
पाण्डुरा रक्त पादासः च विहगाः काल चोदिताः । राक्षसानाम् विनाशाय कपोता विचरन्ति च ॥३२॥
वीचीकूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः । पतन्ति ग्रथितासः च अपि निर्जिताः कलह एषिणः ॥३३॥
पक्षिणश्च मृगाः सर्वे प्रत्यादित्यम् रुदन्ति ते । करालो विकटो मुण्डः पुरुषः कृष्ण पिन्गलः ॥३४॥
कालो गृहाणि सर्वेषाम् काले काले अन्ववेक्षते । एतान्य् अन्यानि दुष्टानि निमित्तान्य् उत्पतन्ति च ॥३५॥
विष्णुम् मन्यामहे रामम् मानुषम् देहम् आस्थितम् । न हि मानुष मात्रो असौ राघवो दृढ विक्रमः ॥३६॥
येन बद्धः समुद्रस्य स सेतुः परम अद्भुतः । कुरुष्व नर राजेन संधिम् रामेण रावण ॥३७॥
ज्ञात्वावधार्य कर्माणि क्रियतामायतिक्षमम् । इदम् वचस् तत्र निगद्य माल्यवन् । परीक्ष्य रक्षो अधिपतेर् मनः पुनः । अनुत्तमेषु उत्तम पौरुषो बली । बभूव तूष्णीम् समवेक्ष्य रावणम् ॥३८॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये युद्धकाण्डे पञ्चत्रिंशः सर्गः ॥