सा तु नीलेन विधिवत् स्वारक्षा सुसमाहिता । सागरस्य उत्तरे तीरे साधु सेना विनिएशिता ॥१॥
युद्धकाण्डेपञ्चमः सर्गः 6.5
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
मैन्दः च द्विविधः च उभौ तत्र वानर पुम्गवौ । विचेरतुः च ताम् सेनाम् रक्षा अर्थम् सर्वतो दिशम् ॥२॥
निविष्टायाम् तु सेनायाम् तीरे नद नदी पतेः । पार्श्वस्थम् लक्ष्मणम् दृष्ट्वा रामो वचनम् अब्रवीत् ॥३॥
शोकः च किल कालेन गच्चता हि अपगच्चति । मम च अपश्यतः कान्ताम् अहनि अहनि वर्धते ॥४॥
न मे दुह्खम् प्रिया दूरे न मे दुह्खम् हृता इति च । तद् एव अनुशोचामि वयो अस्या हि अतिवर्तते ॥५॥
वाहि वात यतः कन्या ताम् स्पृष्ट्वा माम् अपि स्पृश । त्वयि मे गात्र संस्पर्शः चन्द्रे दृष्टि समागमः ॥६॥
तन् मे दहति गात्राणि विषम् पीतम् इव आशये । हा नाथ इति प्रिया सा माम् ह्रियमाणा यद् अब्रवीत् ॥७॥
तद् वियोग इन्धनवता तच् चिन्ता विपुल अर्चिषा । रात्रिम् दिवम् शरीरम् मे दह्यते मदन अग्निना ॥८॥
अवगाह्य अर्णवम् स्वप्स्ये सौमित्रे भवता विना । कथंचित् प्रज्वलन् कामः समासुप्तम् जले दहेत् ॥९॥
बह्व् एतत् कामयानस्य शक्यम् एतेन जीवितुम् । यद् अहम् सा च वाम ऊरुर् एकाम् धरणिम् आश्रितौ ॥१०॥
केदारस्य इव केदारः स उदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीम् यत् शृणोमि ताम् ॥११॥
कदा तु खलु सुस्शोणीम् शत पत्र आयत ईक्षणाम् । विजित्य शत्रून् द्रक्ष्यामि सीताम् स्फीताम् इव श्रियम् ॥१२॥
कदा नु चारु बिम्ब ओष्ठम् तस्याः पद्मम् इव आननम् । ईषद् उन्नम्य पास्यामि रसायनम् इव आतुरः ॥१३॥
तौ तस्याः सम्हतौ पीनौ स्तनौ ताल फल उपमौ । कदा नु खलु स उत्कम्पौ हसन्त्या माम् भजिष्यतः ॥१४॥
सा नूनम् असित अपान्गी रक्षो मध्य गता सती । मन् नाथा नाथ हीना इव त्रातारम् न अधिगच्चति ॥१५॥
कदा विक्षोभ्य रक्षांसि सा विधूय उत्पतिष्यति । राक्षसीमध्यगा शेते स्नुषा दशरथस्य च ॥१६॥
अविक्षोभ्याणि रक्षांसि सा विधूयोत्पतिष्यति । विधूय जलदान् नीलान् शशि लेखा शरत्स्व् इव ॥१७॥
स्वभाव तनुका नूनम् शोकेन अनशनेन च । भूयस् तनुतरा सीता देश काल विपर्ययात् ॥१८॥
कदा नु राक्षस इन्द्रस्य निधाय उरसि सायकान् । सीताम् प्रत्याहरिष्यामि शोकम् उत्सृज्य मानसम् ॥१९॥
कदा नु खलु माम् साध्वी सीता अमर सुता उपमा । स उत्कण्ठा कण्ठम् आलम्ब्य मोक्ष्यति आनन्दजम् जलम् ॥२०॥
कदा शोकम् इमम् घोरम् मैथिली विप्रयोगजम् । सहसा विप्रमोक्ष्यामि वासः शुक्ल इतरम् यथा ॥२१॥
एवम् विलपतस् तस्य तत्र रामस्य धीमतः । दिन क्षयान् मन्द वपुर् भास्करो अस्तम् उपागमत् ॥२२॥
आश्वासितो लक्ष्मणेन रामः संध्याम् उपासत । स्मरन् कमल पत्र अक्षीम् सीताम् शोक आकुली कृतः ॥२३॥
इत्यार्षे श्रीमद्रामयणे आदिकाव्ये युद्धकाण्डेपञ्चमः सर्गः ॥