श्रुत्वा हनूमतो वाक्यम् यथावद् अनुपूर्वशः । ततो अब्रवीन् महातेजा रामः सत्य पराक्रमः ॥१॥
चतुर्थः सर्गः 6.4
Press ▶ below to listen to the whole sarga, ▶ beside a verse for that verse alone, or a word to hear it from there.
याम् निवेदयसे लंकाम् पुरीम् भीमस्य रक्षसः । क्षिप्रम् एनाम् वधिष्यामि सत्यम् एतद् ब्रवीमि ते ॥२॥
अस्मिन् मुहूर्ते सुग्रीव प्रयाणम् अभिरोचये । युक्तो मुहूर्तो विजयः प्राप्तो मध्यम् दिवा करः ॥३॥
सीताम् गृत्वा तु तद्यातु क्वासौ यास्यति जीवितः । सीता श्रुत्वाभियानम् मे आशामेष्यति जीविते ॥४॥
जीवितान्तेऽ मृतम् स्पृष्ट्वा पीत्वा विषमिवातुरः । उत्तरा फल्गुनी हि अद्य श्वस् तु हस्तेन योक्ष्यते ॥५॥
अभिप्रयाम सुग्रीव सर्व अनीक समावृताः । निमित्तानि च धन्यानि यानि प्रादुर् भवन्ति मे ॥६॥
निहत्य रावणम् सीताम् आनयिष्यामि जानकीम् । उपरिष्टाद्द् हि नयनम् स्फुरमाणम् इदम् मम ॥७॥
विजयम् समनुप्राप्तम् शंसति इव मनो रथम् । ततो वाबरराहेब कज्श्मणेन सुपूजितः ॥८॥
उवाच रामो धर्मात्मा पुनरप्यर्थकोविदः । अग्रे यातु बलस्य अस्य नीलो मार्गम् अवेक्षितुम् ॥९॥
वृतः शत सहस्रेण वानराणाम् तरस्विनाम् । फल मूलवता नील शीत कानन वारिणा । पथा मधुमता च आशु सेनाम् सेना पते नय ॥१०॥
दूषयेयुर् दुरात्मानः पथि मूल फल उदकम् ॥११॥
राक्षसाः परिरक्षेथास् तेभ्यस् त्वम् नित्यम् उद्यतः । निम्नेषु वन दुर्गेषु वनेषु च वन ओकसः ॥१२॥
अभिप्लुत्य अभिपश्येयुः परेषाम् निहतम् बलम् । यत्तु फल्गु बलम् किंचित्तदत्रैवोपपद्यताम् ॥१३॥
एतद्धि कृत्यम् घोरम् नो विक्रमेण प्रयुज्यताम् । सागर ओघ निभम् भीमम् अग्र अनीकम् महाबलाः ॥१४॥
कपि सिम्हा प्रकर्षन्तु शतशो अथ सहस्रशः । गजः च गिरि सम्काशो गवयः च महाबलः ॥१५॥
गव अक्षः च अग्रतो यान्तु गवाम् दृप्ता इव ऋषभाः । यातु वानर वाहिन्या वानरः प्लवताम् पतिः ॥१६॥
पालयन् दक्षिणम् पार्श्वम् ऋषभो वानर ऋषभः । गन्ध हस्ती इव दुर्धर्षस् तरस्वी गन्ध मादनः ॥१७॥
यातु वानर वाहिन्याः सव्यम् पार्श्वम् अधिष्ठितः । यास्यामि बल मध्ये अहम् बल ओघम् अभिहर्षयन् ॥१८॥
अधिरुह्य हनूमन्तम् ऐरावतम् इव ईश्वरः । अन्गदेन एष सम्यातु लक्ष्मणः च अन्तक उपमः ॥१९॥
सार्वभौमेन भूत ईशो द्रविण अधिपतिस् यथा । जाम्बवामः च सुषेणः च वेग दर्शी च वानरः ॥२०॥
ऋक्ष राजो महासत्त्वः कुक्षिम् रक्षन्तु ते त्रयः । राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनी पतिः ॥२१॥
व्यादिदेश महावीर्यान् वानरान् वानर ऋषभः । ते वानर गणाः सर्वे समुत्पत्य युयुत्सवः ॥२२॥
गुहाभ्यः शिखरेभ्यः च आशु पुप्लुविरे तदा । ततो वानर राजेन लक्ष्मणेन च पूजितः ॥२३॥
जगाम रामो धर्म आत्मा ससैन्यो दक्षिणाम् दिशम् । शतैः शत सहस्रैः च कोटीभिर् अयुतैर् अपि ॥२४॥
वारणाभिः च हरिभिर् ययौ परिवृतस् तदा । तम् यान्तम् अनुयाति स्म महती हरि वाहिनी ॥२५॥
हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः । आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥२६॥
क्ष्वेलन्तो निनदन्तः च जग्मुर् वै दक्षिणाम् दिशम् । भक्षयन्तः सुगन्धीनि मधूनि च फलानि च ॥२७॥
उद्वहन्तो महावृक्षान् मन्जरी पुन्ज धारिणः । अन्योन्यम् सहसा दृष्टा निर्वहन्ति क्षिपन्ति च ॥२८॥
पतन्तः च उत्पतन्ति अन्ये पातयन्ति अपरे परान् । रावणो नो निहन्तव्यः सर्वे च रजनी चराः ॥२९॥
इति गर्जन्ति हरयो राघवस्य समीपतः । पुरस्ताद् ऋषभ्हो वीरो नीलः कुमुद एव च ॥३०॥
पथानम् शोधयन्ति स्म वानरैर् बहुभिः सह । मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ॥३१॥
बहुभिर् बलिभिर् भीमैर् वृताः शत्रु निबर्हणः । हरिः शत बलिर् वीरः कोटीभिर् दशभिर् वृतः ॥३२॥
सर्वाम् एको हि अवष्टभ्य ररक्ष हरि वाहिनीम् । कोटी शत परीवारः केसरी पनसो गजः ॥३३॥
अर्कः च अतिबलः पार्श्वम् एकम् तस्य अभिरक्षति । सुषेणो जाम्बवामः चैव ऋक्षैर् बहुभिर् आवृतः ॥३४॥
सुग्रीवम् पुरतः कृत्वा जघनम् सम्ररक्षतुः । तेषाम् सेना पतिर् वीरो नीलो वानर पुम्गवः ॥३५॥
सम्पतन् पतताम् श्रेष्ठस् तद् बलम् पर्यपालयत् । वलीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः ॥३६॥
सर्वतः च ययुर् वीरास् त्वरयन्तः प्लवम् गमान् । एवम् ते हरि शार्दूला गच्चन्तो बल दर्पिताः ॥३७॥
अपश्यंस् ते गिरि श्रेष्ठम् सह्यम् द्रुम लता युतम् । सागर ओघ निभम् भीमम् तद् वानर बलम् महत् ॥३८॥
रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् । वर्जयन्नगराभ्याशांस्तथा जनपदानपि ॥३९॥
सागरौघनिभम् भीमम् तद्वानरबलम् महत् । निह्ससर्प महाघोषम् भीम वेग इव अर्णवः ॥४०॥
तस्य दाशरथेः पार्श्वे शूरास् ते कपि कुन्जराः । तूर्णम् आपुप्लुवुः सर्वे सद् अश्वा इव चोदिताः ॥४१॥
कपिभ्याम् उह्यमानौ तौ शुशुभते नर ऋषभौ । महद्भ्याम् इव संस्पृष्टौ ग्राहाभ्याम् चन्द्र भास्करौ ॥४२॥
ततो वानरराजेन लक्ष्मणेन सुपूजितः । जगाम रामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् ॥४३॥
तम् अन्गद गतो रामम् लक्ष्मणः शुभया गिरा । उवाच प्रतिपूर्ण अर्थः स्मृतिमान् प्रतिभानवान् ॥४४॥
हृताम् अवाप्य वैदेहीम् क्षिप्रम् हत्वा च रावणम् । समृद्ध अर्थः समृद्ध अर्थाम् अयोध्याम् प्रतियास्यसि ॥४५॥
महान्ति च निमित्तानि दिवि भूमौ च राघव । शुभान्ति तव पश्यामि सर्वाणि एव अर्थ सिद्धये ॥४६॥
अनु वाति शुभो वायुः सेनाम् मृदु हितः सुखः । पूर्ण वल्गु स्वराः च इमे प्रवदन्ति मृग द्विजाः ॥४७॥
प्रसन्नाः च दिशः सर्वा विमलः च दिवा करः । उशना च प्रसन्न अर्चिर् अनु त्वाम् भार्गवो गतः ॥४८॥
ब्रह्म राशिर् विशुद्धः च शुद्धाः च परम ऋषयः । अर्चिष्मन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् ॥४९॥
त्रिशन्कुर् विमलो भाति राज ऋषिः सपुरोहितः ॥५०॥
पितामह वरो अस्माकम् इष्क्वाकूणाम् महात्मनाम् । विमले च प्रकाशेते विशाखे निरुपद्रवे ॥५१॥
नक्षत्रम् परम् अस्माकम् इक्ष्वाकूणाम् महात्मनाम् । नैरृतम् नैरृतानाम् च नक्षत्रम् अभिपीड्यते ॥५२॥
मूलम् मूलवता स्पृष्टम् धूप्यते धूम केतुना । सरम् च एतद् विनाशाय राक्षसानाम् उपस्थितम् ॥५३॥
काले काल गृहीतानाम् नकत्रम् ग्रह पीडितम् । प्रसन्नाः सुरसाः च आपो वनानि फलवन्ति च । प्रवान्ति अभ्यधिकम् गन्धा यथा ऋतु कुसुमा द्रुमाः ॥५४॥
व्यूढानि कपि सैन्यानि प्रकाशन्ते अधिकम् प्रभो । देवानाम् इव सैन्यानि सम्ग्रामे तारकामये ॥५५॥
एवम् आर्य समीक्ष्य एतान् प्रीतो भवितुम् अर्हसि । इति भ्रातरम् आश्वास्य हृष्टः सौमित्रिर् अब्रवीत् ॥५६॥
अथ आवृत्य महीम् कृत्स्नाम् जगाम महती चमूः । ऋक्ष वानर शार्दूलैर् नख दम्ष्ट्र आयुधैर् वृता ॥५७॥
कर अग्रैः चरण अग्रैः च वानरैर् उद्धतम् रजः । भीमम् अन्तर् दधे लोकम् निवार्य सवितुः प्रभाम् ॥५८॥
सा स्म याति दिवा रात्रम् महती हरि वाहिनी । हृष्ट प्रमुदिता सेना सुग्रीवेण अभिरक्षिता ॥५९॥
उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् । नदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥६०॥
सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् । समान् भूमिप्रदेशांश्च वनानि फलवन्ति च ॥६१॥
मध्येन च समन्ताच्च वनानि फलवन्ति च । समावृत्य महीम् कृत्स्नाम् जगाम महती चमूः ॥६२॥
ते हृष्टवदनाह् सर्वे जग्मुर्मारुतरम्हसः । हरयो राघवस्यार्थे समारोपितविक्रमाः ॥६३॥
हर्षम् वीर्यम् बलोद्रेकाद्दर्शयन्तः परस्परम् । यौवनोत्सेकजाद्दर्पाद्विविधांश्चक्रुरध्वनि ॥६४॥
तत्र केचिद्द्रुतम् जग्मुरुत्पेतुश्च तथापरे । केचित्किलकिलाम् चक्रुर्वानरा वनगोचराः ॥६५॥
प्रास्फोटयंश्च पुच्छानि सम्निजघ्नः पदान्यपि । भुजान्विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जरे ॥६६॥
आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः । महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिते ॥६७॥
ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः । जृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥६८॥
ततः शतसहस्रैश्च कोटिभिश्च सहस्रशः । वानराणाम् सुघोराणाम् श्रीमत्परिवृता मही ॥६९॥
सा स्म याति दिवारात्रम् महती हरिवाहिनी । प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः ॥७०॥
वनरास् त्वरितम् यान्ति सर्वे युद्ध अभिनन्दनः । मुमोक्षयिषवः सीताम् मुहूर्तम् क्व अपि न आसत ॥७१॥
ततः पादप सम्बाधम् नाना मृग समाकुलम् । सह्य पर्वतम् आसेदुर् मलयम् च मही धरम् ॥७२॥
काननानि विचित्राणि नदी प्रस्रवणानि च । पश्यन्न् अपि ययौ रामः सह्यस्य मलयस्य च ॥७३॥
चम्पकांस् तिलकामः चूतान् अशोकान् सिन्दु वारकान् । तिनिशान् करवीरामः च तिमिशान् भन्जन्ति स्म प्लवम् गमाः ॥७४॥
अशोकांश्च करञ्जांश्च प्लक्षन्य्ग्रोधपादपान् । जम्बूकामलकान्नागान् भजन्ति स्म प्लवङ्गमाः ॥७५॥
प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । वायुवेगप्रचलिताः पुष्पैरवकिरन्ति ताम् ॥७६॥
मारुतः सुखसंस्पर्शोओ वाति चन्दनशीतलः । षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥७७॥
अधिकम् शैलराजस्तु धातुभिस्तु विभूसितः । धातुभ्यः प्रसृतो रेणुर्वायुवेगेन घुट्टितः ॥७८॥
सुमहद्वानरानीकम् चादयामास सर्वतः । गिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥७९॥
केतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः । माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिता ॥८०॥
चिरबिल्वा मधूकाश्च वञ्जुला वकुलास्तथा । रञ्जकास्तिलकाश्चैव नागवृक्षश्च पुष्पिता ॥८१॥
चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः । मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा ॥८२॥
हिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ॥८३॥
नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा । प्रीयमाणैः प्लवम्गैस्तु सर्वे पर्याकुलीकृताः ॥८४॥
व्यास्तिस्मिन् गिरौ रम्याः पल्वलानि तथैव च । चक्रवाकानुचरिताः कारण्डवनिषेविताः ॥८५॥
प्लवैः क्रौञ्चे सम्कीर्णा वराहमृगसेविताः । ऋक्षैस्तरक्षुभिः सिम्हैः शार्दूलैश्च भयावहैः ॥८६॥
व्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः । पद्मेः सौगन्धिकैः पुल्लैः सेव्यमानाः समन्ततः ॥८७॥
वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः । तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥८८॥
स्नात्वा पीत्वोदकान्यत्र जले क्रीदन्ति वानराः । अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः ॥८९॥
फलानि अमृत गन्धीनि मूलानि कुसुमानि च । बुभुजुर् वानरास् तत्र पादपानाम् बल उत्कटाः ॥९०॥
द्रोण मात्र प्रमाणानि लम्बमानानि वानराः । ययुः पिबन्तो हृष्टास् ते मधूनि मधु पिन्गलाः ॥९१॥
पादपान् अवभन्जन्तो विकर्षन्तस् तथा लताः । विधमन्तो गिरि वरान् प्रययुः प्लवग ऋषभाः ॥९२॥
वृक्षेभ्यो अन्ये तु कपयो नर्दन्तो मधु दर्पिताः । अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्ति अपि च अपरे ॥९३॥
बभूव वसुधा तैस् तु सम्पूर्णा हरि पुम्गवैः । यथा कमल केदारैः पक्वैर् इव वसुम् धरा ॥९४॥
महाइन्द्रम् अथ सम्प्राप्य रामो राजीव लोचनः । अध्यारोहन् महाबाहुः शिखरम् द्रुम भूषितम् ॥९५॥
ततः शिखरम् आरुह्य रामो दशरथ आत्मजः । कूर्म मीन समाकीर्णम् अपश्यत् सलिल आशयम् ॥९६॥
ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् । आसेदुर् आनुपूर्व्येण समुद्रम् भीम निह्स्वनम् ॥९७॥
अवरुह्य जगाम आशु वेला वनम् अनुत्तमम् । रामो रमयताम् श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥९८॥
अथ धौत उपल तलाम् तोय ओघैः सहसा उत्थितैः । वेलाम् आसाद्य विपुलाम् रामो वचनम् अब्रवीत् ॥९९॥
एते वयम् अनुप्राप्ताः सुग्रीव वरुण आलयम् । इह इदानीम् विचिन्ता सा या न पूर्वम् समुत्थिता ॥१००॥
अतः परम् अतीरो अयम् सागरः सरिताम् पति । न च अयम् अनुपायेन शक्यस् तरितुम् अर्णवः ॥१०१॥
तद् इह एव निवेशो अस्तु मन्त्रः प्रस्तूयताम् इह । यथा इदम् वानर बलम् परम् पारम् अवाप्नुयात् ॥१०२॥
इति इव स महाबाहुः सीता हरण कर्शितः । रामः सागरम् आसाद्य वासम् आज्ञापयत् तदा ॥१०३॥
सर्वाः सेना निवेश्यन्ताम् वेलायाम् हरिपुङ्गव । सम्प्राप्तो मन्त्र कालो नः सागरस्य इह लन्घने ॥१०४॥
स्वाम् स्वाम् सेनाम् समुत्सृज्य मा च कश्चित् कुतो व्रजेत् । गच्चन्तु वानराः शूरा ज्ञेयम् चन्नम् भयम् च नः ॥१०५॥
रामस्य वचनम् श्रुत्वा सुग्रीवः सह लक्ष्मणः । सेनाम् न्यवेशयत् तीरे सागरस्य द्रुम आयुते ॥१०६॥
विरराज समीपस्थम् सागरस्य तु तद् बलम् । मधु पाण्डु जलः श्रीमान् द्वितीय इव सागरः ॥१०७॥
वेला वनम् उपागम्य ततस् ते हरि पुम्गवाः । विनिविष्टाः परम् पारम् कान्क्षमाणा महाउदधेः ॥१०८॥
तेषाम् निविशमानानाम् सैन्यसम्नाहनिःस्वनः । अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥१०९॥
सा महाअर्णवम् आसाद्य हृष्टा वानर वाहिनी । त्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥११०॥
सा महार्णवमासाद्य हृष्टा वानरवाहिनी । वायु वेग समाधूतम् पश्यमाना महाअर्णवम् ॥१११॥
दूर पारम् असम्बाधम् रक्षो गण निषेवितम् । पश्यन्तो वरुण आवासम् निषेदुर् हरि यूथपाः ॥११२॥
चण्ड नक्र ग्रहम् घोरम् क्षपा आदौ दिवस क्षये । हसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥११३॥
चन्द्र उदये समाधूतम् प्रतिचन्द्र समाकुलम् । चण्ड अनिल महाग्राहैः कीर्णम् तिमि तिमिम्गिलैः ॥११४॥
दीप्त भोगैर् इव आक्रीर्णम् भुजम्गैर् वरुण आलयम् । अवगाढम् महासत्तैर् नाना शैल समाकुलम् ॥११५॥
सुदुर्गम् द्रुगम् अमार्गम् तम् अगाधम् असुर आलयम् । मकरैर् नाग भोगैः च विगाढा वात लोहिताः ॥११६॥
उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः । अग्नि चूर्णम् इव आविद्धम् भास्कर अम्बु मनो रगम् ॥११७॥
सुर अरि विषयम् घोरम् पाताल विषमम् सदा । सागरम् च अम्बर प्रख्यम् अम्बरम् सागर उपमम् । सागरम् च अम्बरम् च इति निर्विशेषम् अदृश्यत ॥११८॥
सम्पृक्तम् नभसा हि अम्भः सम्पृक्तम् च नभो अम्भसा ॥११९॥
तादृग् रूपे स्म दृश्येते तारा रत्न समाकुले । समुत्पतित मेघस्य वीच्चि माला आकुलस्य च । विशेषो न द्वयोर् आसीत् सागरस्य अम्बरस्य च ॥१२०॥
अन्योन्यैर् आहताः सक्ताः सस्वनुर् भीम निह्स्वनाः ॥१२१॥
ऊर्मयः सिन्धु राजस्य महाभेर्य इव आहवे । रत्न ओघ जल सम्नादम् विषक्तम् इव वायुना ॥१२२॥
उत्पतन्तम् इव क्रुद्धम् यादो गण समाकुलम् । ददृशुस् ते महात्मानो वात आहत जल आशयम् ॥१२३॥
अनिल उद्धूतम् आकाशे प्रवल्गतम् इव ऊर्मिभिः । ततो विस्मयामापन्ना हरयो ददृशुः स्थिताः ॥१२४॥
इत्यार्शे श्र्रिमद्रामायणे आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः ॥